| YouTube Channel

ब्रह्मसायुज्यं (brahmasAyujyaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मसायुज्यं,
क्ली,
(युनक्तीति युजः “इगुप-धेति ।” १३५ कः ततः “तेनसहेति ।” २८ इति बहुब्रीहिः ।“वोपसर्जनस्य ।” ८२ इति सहस्यसः ततः सयुजस्य भावः सायुज्यं यद्वा, योजयतीति युक् सम्पदादित्वात् क्विप् ततोबहुब्रीहिस्ततः सयुजो भावः ततः ब्रह्मणःसायुज्यं योजकत्वम् ।) ब्रह्मणो भावः तत्-पर्य्यायः ब्रह्मभूयम् ब्रह्मत्वम् इत्यमरः ।२ ५२
ब्रह्मसापूज्यम् इति शब्द-रत्नावली
(मुग्धबोधमतेऽस्य व्युत्पत्तिर्यथा ।)ब्रह्मणो भवनं ताद्रूप्यं ब्रह्मभूयं भूहनः क्यवितिक्यप् त्वतौ भावे इति त्वे ब्रह्मत्वं योजनंयुक् तत्सहितः सयुक् तद्भावः सायुज्यं ततोब्रह्मणा विग्रहः इति भरतः