| YouTube Channel

ब्रह्मवर्च्चसं (brahmavarccasaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मवर्च्चसं,
क्ली,
(ब्रह्मणो वेदस्य तपसो वा वर्च्च-स्तेजः “ब्रह्महस्तिभ्यां वर्च्चसः ।” ।७८ इति अच् ।) ब्राह्मणस्य वृत्ताध्ययनर्द्धिः ।इत्यमरः ३९
अस्य टीका वेद-बोधितस्याचारस्य परिपालनं वृत्तम् व्रत-ग्रहणपूर्व्वकं गुरुमुखेन वेदाभ्यासोऽध्ययनम् ।तयोरृद्धिस्तत्परिपालनकृतस्तेजस उपचयोब्रह्मवर्च्चसं स्यात् ब्रह्महस्तिराजेति अः इतिभरतः
तपःस्वाध्यायजं यच्च तेजस्तु ब्रह्मवर्च्च-सम् इति जटाधरः
(तथा मनुः ९४ ।“ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः ।प्रज्ञां यशश्च कीर्त्तिञ्च ब्रह्मवर्च्चसमेव
”)