| YouTube Channel

ब्रह्मलोकः (brahmalokaH)

 
Apte Hindi
Hindi
ब्रह्मलोकः
पुं*
ब्रह्मन्-लोकः -
ब्रह्मा का लोक
Wordnet
Sanskrit
Synonyms:
ब्रह्मलोकः, ब्रह्मपुरी, ब्रह्मनगरी
noun
पुराणानुसारेण ब्रह्मदेवस्य नगरी।
"नारदः ब्रह्मदेवं द्रष्टुं ब्रह्मलोकं गतः।"
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मलोकः, (ब्रह्मणो लोको भुवनम् ।) ब्रह्मणोभुवनम् यथा, --“सत्यस्तु सप्तमो लोको ह्यपुनर्भववासिनाम् ।ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः
”इति देवीपुराणम्
अपि ।“षड्गुणेन तपोलोकात् सत्यलोको विराजते ।अपुनर्मारका यत्र ब्रह्मलोको हि स्मृतः
”अस्य टीका जनलोकापेक्षयैव षड्गुणेनद्वादशको ह्युच्छ्रायेण तपोलोकानन्तरं सत्य-लोकः तु तपोलोकात् षड्गुणेनेति मन्त-व्यम् तथासत्याष्टचत्वारिंशत्को ह्युच्छ्राय-त्वेन ब्रह्माण्डे तस्यावकाशाभावात् सूर्य्याण्ड-गोलयोरन्तः कोट्यः स्युः पञ्चविंशतिरितिशुकोक्तेः सत्यलोक एव कक्षाभेदेन ब्रह्म-धिष्ण्यात् परं वैकुण्ठलोकादि ज्ञेयम् एवञ्चभूतलादूर्द्ध्वं पञ्चदशलक्षोत्तरास्त्रयोविंशतिकोट्योभवन्ति सत्यलोकादूर्द्ध्वञ्च पञ्चदशलक्षोनको-टिद्वयादण्डकटाह इति ज्ञेयम् अपुनर्मारकाःपुनर्मृत्युशून्याः इति विष्णुपुराणे अं अः
(ब्रह्मैव लोकः तुरीयब्रह्मस्वरूपम् यदुक्तंशतपथब्राह्मणे १४ ३१ ।“एषोऽस्य परमो लोक एषोऽस्य परम आनन्दएतस्येवानन्दस्यान्यानि भूतानि मात्रामुप-जीवन्ति यो मनुष्याणां राद्धः समृद्धोभवति अन्येषामधिपतिः सर्व्वैर्मानुष्यकैःकामैः सम्पन्नतमः मनुष्याणां परमआनन्दः अथ ये शतं मनुष्याणामानन्दाः ।स एकः पितॄणां जितलोकानामानन्दः अथये शतं पितॄणां जितलोकानामानन्दाः एककर्म्मदेवानामानन्दः ये कर्म्मणा देवत्वमभि-सम्पद्यन्ते अथ ये शतं कर्म्मदेवानामानन्दाः ।स एक आजानदेवानामानन्दो यश्च श्रोत्रियो-ऽवृजिनोऽकामहतः अथ ये शतं आजान-देवानामानन्दाः एको देवलोक आनन्दोयश्च श्रोत्रियोऽवृजिनोऽकामहतः अथ येशतं देवलोक आनन्दाः एको गन्धर्व्वलोकआनन्दो यश्च श्रोत्रियोऽवृजिनोऽकामहतः ।अथ ये शतं गन्धर्व्वलोक आनन्दाः एकःप्रजापतिलोक आनन्दो यश्च श्रोत्रियोऽवृजृणो-ऽकामहतः अथ ये शतं प्रजापतिलोकआनन्दाः एको ब्रह्मलोक आनन्दो यश्चश्रोत्रियोऽवृजिनोऽकामहतः एषः ब्रह्मलोकःसम्राट्
शिवः यथा, महाभारते १३ ।१७ १४२ ।“निर्व्वाणं ह्वादनञ्चैव ब्रह्मलोकः परागतिः
”)