ब्रह्मरात्रिः (brahmarAtriH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit याज्ञवल्क्यः, ब्रह्मरात्रिः, योगेशः, योगीश्वरः
हिन्दूधर्मशास्त्र-प्रयोजक-मुनिविशेषः- यज्ञवल्कस्य पुत्रः सः सूर्यात् शुक्लयजुर्वेदं प्राप्तवान्।
"दैवात् केनापि हेतुना क्रुद्धो गुरुः वैशम्पायनः शिष्यं याज्ञवल्क्यम् अधीतवेदपरित्यागार्थम् आदिष्टवान्।"
शब्दकल्पद्रुमः
Sanskritब्रह्मरात्रिः, (याज्ञवल्क्यमुनिः । इति हेमचन्द्रः ॥
ब्रह्मज्ञानं राति ददाति यः । ब्रह्मशब्दात्राधातोर्नाम्नीति त्रिप्रत्ययनिष्पन्नोऽयम् । इतितट्टीका ॥
ब्रह्मणो निशायां स्त्री । सा दैव-सहस्रयुगेन भवति । इति पुराणम् ॥
(मनुष्य-कालपरिमाणतो ब्रह्मणो रात्रिपरिमाणमुच्यते ।नेत्रपरिस्पन्दनकालो निमेषः । अष्टादशनिमे-षास्तु काष्ठा । त्रिंशत् काष्ठास्तु कला । त्रिंशत्कलास्तु क्षणः । क्षणास्तु द्वादश मिलित्वा एकोमुहूर्त्तः ।“तास्तु त्रिंशत्क्षणस्ते तु मुहूर्त्तो द्वादशा-स्त्रियाम् ॥
”इत्यमरः । १ । ४ । ११ ॥
मनुमते तु त्रिंशत्कला मिलित्वा एको मुहूर्त्तःस्यात् यदुक्तं तत्रैव । १ । ६४ ।“त्रिंशत्कला मुहूर्त्तः स्यादहोरात्रन्तु तावतः ॥
”ते त्रिंशन्मुहूर्त्ता एकोऽहोरात्रः । अहो-रात्रास्तु पञ्चदशसंख्यका एकः पक्षः । पक्ष स्तुशुक्लकृष्णभेदात् द्विविधः । ताभ्यामुभाभ्यांपक्षाभ्यां मासः स्यात् । मासस्तु पित्र्ये रात्र्य-हनी । कृष्णपक्षस्तु पितॄणामहः शुक्लपक्षस्तुशर्व्वरी । षड्भिर्मासैरयनं भवेत् । अयनन्तुदक्षिणोत्तरभेदात् द्बिविधम् । द्वाभ्यामयनाभ्यांवत्मरः स्यात् । वत्सरस्तु दैवे रात्र्यहनी ।उत्तरायणं देवानामहः दक्षिणायनन्तु रात्रिः ।मानुषाणां यत्कृतादियुगचतुष्टयं तद्दैवं युगंज्ञेयम् । एवं दैवयुगसहस्रेण ब्रह्मणोऽहःदैवयुगसहस्रेण च रात्रिर्भवति । तथा चमनौ । १ ७१ । श्लोकस्य टीकायां कुल्लूकभट्टः ।“विष्णुपुराणे मानुषचतुर्युगसहस्रेण ब्रह्माह-कीर्त्तनान्मानुषचतुर्युगेनैव दिव्ययुगानुगमनात् ।तथा च विष्णुपुराणम् ।“कृतं त्रेताद्वापरञ्च कलिश्चेति चतुर्युगम् ।प्रोच्यते तत्सहस्रन्तु ब्रह्मणो दिवसो मुने ! ॥
”तथा च मनुः । १ । ६८-७३ ।“ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः ।एकैकशो युगानान्तु क्रमशस्तन्निबोधत ॥
चत्वार्य्याहुः सहस्राणि वर्षाणान्तु कृतं युगम् ।तस्य तावच्छती सन्ध्या सन्ध्यांशश्च तथाविधः ॥
इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु ।एकापायेन वर्त्तन्ते सहस्राणि शतानि च ॥
यदेतत्परिसंख्यातमादावेव चतुर्युगम् ।एतद्द्वादशसाहस्रं देवानां युगमुच्यते ॥
दैविकानां युगानान्तु सहस्रं परिसंख्यया ।ब्राह्ममेकमहर्ज्ञेयं तावती रात्रिरेव च ॥
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यमहर्विदुः ।रात्रिञ्च तावतीमेव तेऽहोरात्रविदो जनाः ॥
”“यदेतदिति । एतस्य श्लोकस्यादौ यदेतन्मानुषंचतुर्युगं परिगणितं एतद्देवानां युगमुच्यते ।चतुर्युगशब्देन सन्ध्यासन्ध्यांशयोरप्राप्तिशङ्काया-माह एतद्द्वादशसाहस्रमिति स्वार्थेऽण् । चतु-र्युगैरेव द्वादशसहस्रसंख्यैर्दिव्यं युगमिति तुमेधातिथेर्भ्रमो नादर्त्तव्यः मनुनानन्तरं दिव्य-युगसहस्रेण ब्रह्माहस्याप्यभिधानात् ॥
” इतितट्टीकायां कुल्लूकभट्टः ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
