| YouTube Channel

ब्रह्मयोनिः (brahmayoniH)

 
Wordnet
Sanskrit
Synonyms:
ब्रह्मयोनिः
noun
एकः पर्वतः
"ब्रह्मयोनिः कोशेषु उल्लिखितः"
Synonyms:
ब्रह्मयोनिः, ब्रह्मयोनी
noun
एकं पवित्र-तीर्थस्थानम्
"महाभारते तथा पुराणेषु ब्रह्मयोनिः समुल्लिखिता"
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मयोनिः,
पुं,
(ब्रह्मणो योनिरुत्पत्तिस्थानम् ।)ब्रह्मगिरिः इति शब्दरत्नावली
(ब्रह्मप्राप्ति-कारणब्रह्मध्यानम् यथा मनुः १० ७४ ।“ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्म्मण्यवस्थिता ।ते सम्यगुपजीवेषुः षट् कर्म्माणि यथाक्रमम्
”“ये ब्राह्मणा ब्रह्मप्राप्तिकारणब्रह्मध्याननिष्ठाःस्वकर्म्मानुष्ठाननिरताश्च ते षट्कर्म्माणि वक्ष्य-माणान्यध्यापनादीनि क्रमेण सम्यगनुतिष्ठेषुः
”इति तट्टीकायां कुल्लूकभट्टः
अपरस्य ब्रह्मणोयोनिरुत्पत्तिकारणम् यद्वा ब्रह्म सत् योनिःसर्व्वेषामुत्पत्तिकारकं ब्रह्म यथा, मुण्डकोप-निषदि
“यदा पश्यः पश्यते रुक्मवर्णम्कर्त्तारमीशं पुरुषं ब्रह्मयोनिम्
”तीर्थविशेषः यथा महाभारते ८३ १३१ ।“ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः ।तत्र स्नात्वा नरव्याघ्र ! ब्रह्मलोकं प्रपद्यते
”ब्रह्मा योनिरुत्पत्तिकारणं यस्य इति विग्रहेवाच्यलिङ्गः यथा रघौ ६४ ।“त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना ।सानुबन्धा कथं स्युः सम्पदो मे निरापदः
”यथा मार्कण्डेये २३ ३० ।जगद्धात्रीमहं देवी मारिराधयिषुः शुभाम् ।स्तोष्ये प्रणम्य शिरसाब्रह्मयोनिं सरस्वतीम्
”)