| YouTube Channel

ब्रह्मभूयं (brahmabhUyaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मभूयं,
क्ली,
(ब्रह्मणो भावः ब्रह्म + भू +“भुवो भावे ।” १०७ इति क्यप् ।)ब्रह्मत्वम् इत्यमरः ५२
(यथामनुः १२ १०२ ।“वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ।इहैव लोके तिष्ठन् ब्रह्मभूयाय कल्पते
”“अस्मिन्नेव लोके तिष्ठन् ब्रह्मभूयाय ब्रह्मत्वायकल्पते ।” इति तट्टीकायां कुल्लूकभट्टः
मोक्षः यथा गीतायाम् १४ २६ ।“माञ्च योऽव्यभिचारेण भक्तियोगेन सेवते ।सगुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते
”“ब्रह्मभूयाय बृह्मभावाय मोक्षायकल्पते समर्थोभवति ।” इति तट्टीकायां स्वामी
)