| YouTube Channel

ब्रह्मपुत्र (brahmaputra)

 
Capeller Eng
English
ब्रह्मपुत्र॑
m.
a son of a Brahman or of the god
Brahman.
Yates
English
ब्रह्म-पुत्र (त्रः) 1.
m.
A sort of poison
name of a river place of pil-
grimage.
f.
The river
Saraswatī.
Monier Williams Cologne
English
ब्रह्म—पुत्र॑
m.
the son of a priest or Brāhman,
RV.
ŚBr.
ĀśvŚr.
a son of Brahmā (as Sanat-kumāra, Vasiṣṭha
&c.
),
Hariv.
R.
Pur.
(-ता
f.
)
a kind of vegetable poison,
Bhpr.
N.
of a river (rising on the Tibet side of the Himālaya and falling with the Ganges into the Bay of Bengal),
Cat.
of a lake, ib.
of a place of pilgrimage (prob. the source of the Brahma-putra river),
W.
of a sacred district,
L.
Apte Hindi
Hindi
ब्रह्मपुत्रः
पुं*
ब्रह्मन्-पुत्रः -
ब्राह्मण का बेटा
ब्रह्मपुत्रः
पुं*
ब्रह्मन्-पुत्रः -
हिमालय की पूर्वी सीमा से निकलने वाला तथा गंगा के साथ मिल कर बंगाल की खाड़ी में गिरने वाला ‘ब्रह्मपुत्र’ नाम का दरिया
Shabdartha Kaustubha
Kannada
ब्रह्मपुत्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ನದ/ಒಂದು ಗಂಡು ಹೊಳೆ
विस्तारः - > ಪೂರ್ವ ದಿಕ್ಕಿಗೆ ಹರಿಯುವ ಹೊಳೆಯು ನದಿ. ಪಶ್ಚಿಮ ದಿಕ್ಕಿಗೆ ಹರಿಯುವ ಹೊಳೆಯು ನದ. ಬ್ರಹ್ಮಪುತ್ರವು ಹಿಮಾಲಯದ ಪೂರ್ವ ಭಾಗದಲ್ಲಿ ಹುಟ್ಟಿ ಬಂಗಾಳಕೊಲ್ಲಿಯನ್ನು ಸೇರುವುದು.
ब्रह्मपुत्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾಕೊಲಾದಿ ವಿಷಗಳಲ್ಲಿ ಒಂದು ಭೇದ
ब्रह्मपुत्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬ್ರಹ್ಮನ ಮಗ/ನಾರದ ಮೊದಲಾದ ಹತ್ತು ಮಂದಿ ಬ್ರಹ್ಮನ ಪುತ್ರರು
व्युत्पत्तिः - > ब्रह्मणः पुत्रः
प्रयोगाः - > "त्वं विष ब्रह्मणः पुत्रः सत्ये धर्मे व्यवस्थितः"
उल्लेखाः - > याज्ञ० २-१२
विस्तारः - > "ब्रह्मपुत्रः क्ष्वेडभेदे नदभेदे पुंस्ययम् मेदि१
ब्रह्मपुत्र
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ರುದ್ರ
विस्तारः - > "ब्रह्मपुत्रस्तु रुद्रेऽपि" वैज०
L R Vaidya
English
brahman-putra {% m. %} 1. a son of Brahman (m.)
2. name of a male river which rises in the Himālaya and with the Ganges falls into the Bay of Bengal
3. a poison.
अभिधानचिन्तामणिः
Sanskrit
--source--
विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हलाहलः ११९५
वत्सनाभः कालकूटो ब्रह्मपुत्रः प्रदीपनः
सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपि ११९६
अहिच्छत्त्रो मेषशृङ्गकुष्टवालूकनन्दनाः
कैराटको हैमवतो मर्कटः करवीरकः ११९७
सर्षपो मूलको गौरार्द्रकः सक्तुककर्दमौ
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ११९८
इन्द्रो लाङ्गुलिको विस्फुलिङ्गपिङ्गलगौतमाः
मुस्तको दालवश्चेति स्थावरा विषजातयः ११९९
-wordlist-
विष (पुंक्ली), क्ष्वेड (पुं), रस (पुंक्ली), तीक्ष्ण (क्ली), गरल (पुंक्ली), हलाहल (पुं), वत्सनाभ (पुं), कालकूट (पुं), ब्रह्मपुत्र (पुं), प्रदीपन (पुं), सौराष्ट्रिक (पुं), शौल्किकेय (पुं), काकोल (पुं), दारद (पुं), अहिच्छत्त्र (पुं), मेषशृङ्ग (पुं), कुष्ठ (पुं), वालूक (पुं), नन्दन (पुं), कैराटक (पुं), हैमवत (पुं), मर्कट (पुं), करवीर (पुं), सर्षप (पुं), मूलक (पुं), गौरार्द्रक (पुं), सक्तुक (पुं), कर्दम (पुं), अङ्कोल्लसार (पुं), कालिङ्ग (पुं), शृङ्गिक (पुं), मधुसिक्थक (पुं), इन्द्र (पुं), लाङ्गुलिक (पुं), विस्फुलिङ्ग (पुं), पिङ्गल (पुं), गौतम (पुं), मुस्तक (पुं), दालव (पुं), स्थावरविष (पुं)
अभिधानरत्नमाला
Sanskrit
ब्रह्मपुत्र
ब्रह्मपुत्र, शौल्किकेय, दारद, प्रदीपन, रस, सौराष्ट्रिक, क्ष्वेड, तीक्ष्ण, विष
ब्रह्मपुत्रः शौल्किकेयो दारदश्च प्रदीपनः
रसः सौराष्ट्रिकः क्ष्वेडस्तीक्ष्णश्च विषमुच्यते ६४६
verse 3.1.1.646
page 0074
नाममाला
Sanskrit
विधिपुत्र, वेधःपुत्र, विधातृपुत्र, द्रुहिणपुत्र, अजपुत्र, चतुर्मुखपुत्र, पद्मयोनिपुत्र, तामरसयोनिपुत्र, कमलयोनिपुत्र, नलिनयोनिपुत्र, अरविन्दयोनिपुत्र, सरोजयोनिपुत्र, सरसीरुहयोनिपुत्र, खरदण्डयोनिपुत्र, पुण्डरीकयोनिपुत्र, महोत्पलयोनिपुत्र, शतपत्रयोनिपुत्र, पुष्करयोनिपुत्र, पद्मजपुत्र, तामरसजपुत्र, कमलजपुत्र, नलिनजपुत्र, अरविन्दजपुत्र, सरोजजपुत्र, सरसीरुहजपुत्र, खरदण्डजपुत्र, पुण्डरीकजपुत्र, महोत्पलजपुत्र, शतपत्रजपुत्र, पुष्करजपुत्र, पद्मभवपुत्र, तामरसभवपुत्र, कमलभवपुत्र, नलिनभवपुत्र, अरविन्दभवपुत्र, सरोजभवपुत्र, सरसीरुहभवपुत्र, खरदण्डभवपुत्र, पुण्डरीकभवपुत्र, महोत्पलभवपुत्र, शतपत्रभवपुत्र, पुष्करभवपुत्र, पितामहपुत्र, विरञ्चिपुत्र, हिरण्यगर्भपुत्र, स्रष्टृपुत्र, प्रजापतिपुत्र, सहस्रपात्पुत्र, ब्रह्मपुत्र, आत्मभूपुत्र, अनन्तात्मपुत्र, नारद
विधिर्वेधा विधाता द्रुहिणोऽजश्चतुर्मुखः
पद्मपर्य्याययोनिश्च पितामहविरञ्चिनौ ७२
हिरण्यगर्भः स्रष्टा प्रजापतिस्सहस्रपात्
ब्रह्मात्मभूरनन्तात्मा कः तत्पुत्रोऽथ नारदः ७३
verse 0.1.1.72
page 0037
Mahabharata
English
Brahmaputra, pl. (ºāh) (“the son of Brahmán”). § 704 (Mokshadh.): XII, 301, 11094.
Vedic Reference
English
Brahma-putra in a few passages is used in the sense of a
‘priest's son.’
^1 Rv. ii. 43, 2
Śatapatha Brāhmaṇa,
xi. 4, 1, 2. 9. Cf. Weber, Indische
Studien, 10, 43, 69
Muir, Sanskrit
Texts, 12, 252.
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मपुत्त्रः,
पुं,
विषभेदः इत्यमरः १०
तस्य लक्षणं यथा, --“वर्णतः कपिलो यः स्यात्तथा भवति सारकः ।ब्रह्मपुत्त्रः विज्ञेयो जायते मलयाचले
”इति भावप्रकाशः
(पर्य्यायोऽस्य यथा, “काकोली गरलः क्ष्वेडो वत्सनाभः प्रदीपनः ।शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः
”इति वैद्यकरत्नमालायाम्
ब्रह्मणः पुत्त्रः सत्यम् धर्म्मः मरीच्यादिः
भनुः यथा मार्कण्डेये ९४ ११ ।“मन्वन्तरे दशमे ब्रह्मपुत्त्रस्य धीमतः ।सुखासीना निरुद्धाश्च त्रिःप्रकाराः सुराःस्मृताः
”नारदः वशिष्ठः
) क्षेत्रभेदः नदभेदः ।इति मेदिनी रे, २८५
शेषस्य पर्य्यायः ।अमोघानन्दनः लौहित्यः लोहितः ।इति शब्दरत्नावली
*
अस्य नदस्योत्पत्ति-माहात्म्ये यथा, --सगर उवाच ।“अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः ।कथं शान्तनुभार्य्यायां रेतः कमलासनः
पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् ।तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम !
और्व्व उवाच ।शृणु त्वं नृपशार्द्दूल ! कथयामि महत्तरम् ।आख्यानं ब्रह्मपुत्त्रस्य लौहित्यस्य महात्मनः
हरिवर्षे महावर्षे शान्तनुर्नाम नामतः ।मुनिरासीन्महामागो ज्ञानवान् सुतपोधनः
तस्य भार्य्या महाभागा अमोघाख्या महासती ।हिरण्यभर्गस्य मुनेस्तृणवृन्दाश्रमोद्भवा
तया सार्द्धं कैलासमर्य्यादापर्व्वतेऽवसत् ।लौहित्याख्यस्य सरसस्तीरे वै गन्धमादने
एकदा तपोनिष्ठो निजपुष्पादिगोचरे ।जगाम वनमध्यन्तु चिन्वन् बहुफलानि
तस्मिन्नवसरे ब्रह्मा सर्व्वलोकपितामहः ।तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया
तां दृष्ट्वा देवगर्भाभां युवतीमतिसुन्दरीम् ।मोहितो मदनेनाशु तथाभूद्भूषितेन्द्रियः
उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् ।अथाधावत्तदा ब्रह्मा सम्मुखो मदनार्द्दितः
धावमानं विधातारं दृष्ट्वामोघा महासती ।मैवं मैवमिति प्रोक्ता पर्णशालां व्यलीयत
इदञ्चोवाच धातारममोघा कुपिता तदा ।पर्णशालान्तरगता द्वारमावृत्य तत्क्षणात्
अकार्य्यं मया कार्य्यं मुनिपत्न्या विगर्हितम् ।बलात् प्रमथ्या चाहं तत्त्वया त्वाञ्च शपाम्यहम्
अमोघया चैवमुक्ते विधातुश्च तदा नृप ! ।रेतश्चस्कन्द तदैवाश्रमे शान्तनोर्मुनेः
च्युते रेतसि धातापि हंसयानं समास्थितः ।लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ
*
गते वेधसि शान्तनुर्निजमाश्रममागतः ।आगत्य दृष्ट्वा हंसानां पदक्षोभं तथा भुवि
तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् ।अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम्
किमेतदत्र सुभगे ! प्रवृत्तं दृश्यते तु यत् ।पक्षिणाञ्च पदक्षोभस्तेजश्चेदञ्च कीदृशम्
सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम् ।अमर्षितेव न्यगददाकुला विकलानना
हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः ।कमण्डलुकरो भीरू रतिं मां समयाचत
ततो मया भर्त्सितः कुटजान्तरलीनया ।प्रच्याव्य तेजः यातो मया शापभयार्द्दितः
कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो ! ।न हि मां धर्षणां सोढं कश्चित् शक्नोति जीव-भृत्
तस्या वचनं शुत्वा स्वयं ब्रह्मा समागतः ।इति निश्चित्य मनसा तत्र ध्यानपरोऽभवत्
दिव्यज्ञानेन ज्ञात्वा देवकार्य्यमुपस्थितम् ।तीर्थावतारणञ्चापि हिताय जगतां मुनिः ।ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत्
इदं तेजो ब्रह्मणस्त्वं पिवामोघे ! ममाज्ञया ।हिताय सर्व्वजगतां देवकार्य्यार्थसिद्धये
भवत्या निकटं ब्रह्मा स्वयमेव समागतः ।त्वामप्राप्य महात्मा आवयोः समर्प्य ।गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः
तत् शुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता ।शान्तयन्तीव तं प्राह पतिं नला महासती
नान्यस्य तेजो धास्यामि चेत्ते विमनस्कता ।अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज
ततस्तस्या वचः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः ।स्वयं पीत्वा तत्तेजस्तस्या गर्भे व्यसेचयेत्
संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती ।गर्भं दधानामोघाख्या हिताय जगतां ततः
तस्यां काले तु संप्राप्ते संजातो जलसञ्चयः ।तन्मध्ये तनयश्चापि नीलवासाः किरीटधृक्
रन्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् ।चतुर्भुजः पद्मविद्यावरशक्तिधरस्तथा ।शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः
तं जातञ्च तथाभूतं शान्तनुर्लोकशान्तनुः ।चतुर्णां पर्व्वतानाञ्च मध्यदेशे न्यवेशयत्
कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः ।जारुधिः पश्चिमे शैलः पुर्ब्बे सम्बर्त्तकाह्वयः
तेषां मध्ये स्वयं कुण्डं पर्व्वतानां विधेः सुतः ।कृत्वातिववृधे नित्यं शरदीव निशाकरः
तं तोयमध्यगं पुत्त्रमासाद्य द्रुहिणः स्वयम् ।क्रमतस्तस्य संस्कारानकरोद्देहशुद्धये
अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ।तोयराशिस्वरूपेण ववृधे पञ्च योजनान्
तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे ।शीतामलजले हृद्ये देव्यश्चाप्सरसां गणैः
तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् ।चक्रे मातृवधं घोरमत्युग्रं पितुराज्ञया
तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ।स जगाम महाकुण्डं ब्रह्माख्यं स्नातुमिच्छया
तत्र स्नात्वा पीत्वा मातृहत्यां व्यपानयत् ।वीथिं परशुना कृत्वा तञ्च क्ष्मामवतारयत्
*
अपि ।ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिता-ह्वये ।कैलासोपत्यकायान्तु न्यपतद्ब्रह्मणः सुतः
तस्यापि सरसस्तीरं समुत्थाय महाबलः ।कुठारेण दिशं पूर्व्वामनयद्ब्रह्मणः सुतम्
ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य ।कामरूपान्तरं पीठमवाहयदमुं हरिः
तस्य नाम विधिश्चक्रे स्वयं लोहितगङ्गकम् ।लौहित्यात् सरसो जातो लौहित्याख्यस्ततोऽ-भवत्
कामरूपमखिलं पीठमाप्लाव्य वारिणा ।गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम्
प्रागेव दिव्ययमुनां त्यक्त्वा ब्रह्मणः सुतः ।पुनः पतति लौहित्ये गत्वा द्वादशयोजनम्
*
चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः ।स्नाति लौहित्यतोयेषु याति ब्रह्मणः पदम्
चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः ।लौहित्यतोये यः स्नाति कैवल्यमवाप्नुयात्
”इति कालिकापुराणे ८४ ८५ अध्यायः
अन्यच्च ।मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् ।पिबेदशोककलिकाः स्नायाल्लौहित्यवारिणि
पुनर्व्वमी वृषे लग्ने चैत्रे मासि सिताष्टमीम् ।लोहित्ये विरजे स्नायात् सर्व्वपापैः प्रमुच्यते
*
स्नानमन्त्रो यथा, --“पृथिव्यां यानि तीर्थानि सरितः सागरादयः ।सर्व्वे लौहित्यमायान्ति चैत्रे मासि सिताष्टमीम्
ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन ! ।अमोघागर्भसम्भूत पापं लौहित्य मे हर
”इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम्
वाचस्पत्यम्
Sanskrit
ब्र(व्र)ह्मपुत्र
पु०
ब्र(व्र)ह्मणः पुत्र इव कपिलवर्णत्वात् ।१ विषभेदे अमरः तद्विषस्य लक्षणं भावप्र० उक्तंयथा “वर्णतः कपिलो यः स्यात्तथा भवति सारकः ।ब्रह्मपुत्रः विज्ञेयो जायते मलयाचले” उत्तर-देशप्रसिद्धे नदभेदे क्षेत्रभेदे सरस्वत्यां नद्यांस्त्री तस्याः पितामहजातत्वं ब्रह्माणीशब्दे दृश्यम् ।तस्य नदस्योत्पत्तिकथा “हरिवर्षे महावर्षे शान्तनु-र्नाम नामतः मुनिरासीनमहाभागो ज्ञानवान् सु-तपोधनः तस्य भार्य्या भहाभागा अमोघाख्या महा-सती हिरण्यगर्भस्य मुनेस्तृणवृन्दाश्रमोद्भवा ।तया सार्द्धं कैलासमर्य्यादापर्वतेऽवसत् लौहिता-ख्यस्य सरसस्तीरे वै गन्धमादने एकदा तपोनिष्ठोनिजपुष्पादिगोचरे जगाभ वनमध्यन्तु चिन्वन् बहु-फलानि तस्मिन्नवसरे ब्रह्मा सर्वलोकपितामहः ।तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया तां दृष्ट्वादेवगर्भाभां युवत्रीमतिसुन्दरीम् मोहितो मदनेनाशु तथाऽभूत् तृधितेन्द्रियः उदीरितेन्द्रियो भुत्वा जिघृक्षुस्तां म-हासतीम् अथाधावत्तदा ब्रह्मा सम्मुणो मदनार्दितः ।धावमानं विधातारं दृष्ट्वाऽमोघा महासती मैवंमैवमिति प्रोच्य पर्णशालां व्यलीयत इदञ्चोवाचधातारममोघा कुपिता तदा पर्णशालान्तरगता द्वार-मावृत्य तत्क्षणात् अकार्य्यं मया कार्य्यं मुनि-पत्न्त्या विगर्हितम् बलात् प्रमथ्या चाहं चेत्त्वया त्वाञ्चशपाम्यहम् अमोघया चैवमुक्ते विधातुश्च तदानृप! रेतश्चक्रन्द तदैवाश्रमे शान्तनोर्मुनेः च्युतेरेतसि धातापि हंसयानं समास्थितः लज्जयाति-परीतात्मा द्रुतं वै स्वाश्रमं ययौ गते वेधसि शान्तनु-र्निजमात्रममागतः आगत्य दृष्ट्वा हंसानां पदक्षोभंतथा भुवि तेजश्च पतितं भूमौ विधातुर्ज्वलनोप-मम् अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम् ।किमेतदत्र शुभगे! प्रवृत्तं दृश्यते तु यत् पक्षिणाञ्चपदक्षोभस्तेजश्चेदम् कीदृशम् सा तस्य वचनं श्रुत्वाशान्तनुं मुनिसत्तमम् अमर्षितेव न्यगददाकुला विक-लानना हंसयुक्तस्यन्दनेन कोऽम्भ्यागत्य चतुर्मुख।कमण्डलुकरो भीरू रतिं मां समयाचत ततो मयाभर्त्सितः कुटजान्तरलीनया प्रच्याव्य तेजः गतोमम शापभयार्दितः कुरु तत्र प्रतीकारं यदि शक्नोषिशान्न्तनो! हि तां धर्षणां सोढुं कश्चित् श-क्नोति जीवभृत् तस्या वचनं श्रुत्वा स्वयं ब्रह्मासमागतः इति निश्चित्य मनसा तत्र ध्याबपरोऽभवत् ।दिव्यज्ञानेन ज्ञात्वा देवकार्य्यमुपस्थितम् तीर्था-वतारणञ्चापि हितायं जगतां मुनिः ज्ञात्वोदर्कंचिन्तयित्वा स्वभार्य्यामिदमब्रवीत् इदं तेजो ब्रह्मणस्त्वंपिबामोथे! ममाज्ञया हिताय सर्वजगतां देवकार्य्यार्थ-सिद्धये भवत्या निकटे ब्रह्मा स्वयमेव समागतः ।त्वामप्राप्य महात्मा आवयोः समर्प्य गतोनिजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः तत् श्रुत्वा शा-न्तनोर्वाक्यममोघातीव लज्जिता सान्त्वयन्तीव तं प्राहपतिं नत्वा महासती नान्यस्य तेजो धास्यामि नचेत्ते विमनस्कता अवश्यं यदि कर्त्तव्यं पीत्वा त्वंमयि चोत्सृज ततस्तस्या वश्यः श्रुत्वा युक्तं तथ्यञ्चशान्तनुः स्वयं पीत्वा तत्तेजस्तस्या गर्भऽभ्यषेचयत् ।संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती गर्भं दधा-रामोघाख्या हिताय जगतां ततः तस्यां काले तु संप्राप्तेसंजातोजलसञ्चयः तन्मध्ये तनयश्चापि नीलवासाः कि-रीटधृक् रत्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् चतु-र्भुजः पद्मविद्यावरशक्तिधरस्तथा शिशुमारशिरस्थश्चतुल्यकायो जलोत्करैः तं जातञ्च तथाभूतं शान्तनु-र्लोकशान्तनुः चतुर्णां पर्वतानाञ्च मध्यदेशे न्यवेशयत् ।कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः जारुधिःपश्चिमे शैलः पूर्वे संवर्त्तकाह्वयः तेषां मध्ये स्वयंकुण्डं पर्वतानां विधेः सुतः कृत्वाऽतिववृधे नित्यंशरदीव निशाकरः तं तोयमध्यगं पुत्रमासाद्यद्रुहिणः स्वयम् क्रमतस्तस्य संस्कारानकरोद्देह-शुद्धये अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ।तोयराशिस्यरूपेण ववृधे पञ्च योजनान् तस्मिन्देवाः पपुः सस्नुर्द्वितीय इव सागरे शीतामलजलेहृद्ये देव्यश्चाप्सरसां गणैः तस्मिन्नवसरे रामो जाम-दग्न्यः प्रतापवान् चक्रे मातृबधं घोरमत्युग्रंपितुराज्ञया तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ।स जगाम महाकुण्डं ब्राह्माख्यं स्नातुमिच्छया तत्रस्नात्वा प्रीत्वा मातृहत्यां व्यप्रानयत् वीथिंपरशुना कृत्वा तञ्च क्ष्मामवातारयत्” तदुत्तरत्र “ब्रह्मकु-ण्डात् सृतः सोऽथ कासारे लोहिताह्वये कैलासो-पत्यकायान्तु न्यपतद् ब्रह्मणः सुतः तस्यापि सरसन्तीरंसमुत्पाट्य महाबलः कुठारेण दिशं पूर्वामनयद्-ब्रह्मणः सुतम् ततोऽपरत्रापि गिरिं हेमशृङ्गंविभिद्य कामरूपान्तरं पीठमवाहयदसुं हरिः ।तस्य नाम विधिश्चक्रे स्वयंलोहितगङ्गकम् लौहि-त्यात् सरसो जातो लौहित्याख्यस्ततोऽभवत् काम-रूपमखिलं पीठमाप्लाव्य वारिणा गोपयन् सर्वतीर्थानिदक्षिणं याति सागरम् प्रागेव दिव्ययमुनां संत्यज्यब्रह्मणः सुतः पुनः पतति लौहित्ये गत्वा द्वादश-योजनम् चैत्रे मासि सिताष्टम्यां यो नरो नियते-न्द्रियः स्लाति लौहित्यतोयेषु याति ब्रह्मणः पदम् ।चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः लौहित्यतोयेयः स्लाति कैवल्यमवाप्तुयात्” कालिकापु० ८४, ८५अ० “मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् ।पिवेदशोककलिकाः स्नायाल्लौहित्यवारिणि पुनर्वसौवृषे लग्ने चैत्रे मासि सिताष्टमीम् लौहित्ये विरजेस्नायात् सर्वपापैः प्रसुच्यते” ति० त०
Capeller
German
ब्रह्मपुत्र॑
m.
Sohn eines Brahmanen o. des
Gotts Brahman.
Grassman
German
brahma-putrá, m., Sohn [putrá] eines Priesters oder Brahmanen [brahmán 7].
-ás {234, 2}.