| YouTube Channel

ब्रह्मपुत्त्रः (brahmaputtraH)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मपुत्त्रः,
पुं,
विषभेदः इत्यमरः १०
तस्य लक्षणं यथा, --“वर्णतः कपिलो यः स्यात्तथा भवति सारकः ।ब्रह्मपुत्त्रः विज्ञेयो जायते मलयाचले
”इति भावप्रकाशः
(पर्य्यायोऽस्य यथा, “काकोली गरलः क्ष्वेडो वत्सनाभः प्रदीपनः ।शौक्लिकेयो ब्रह्मपुत्त्रो विषं स्याद्गरलो विषः
”इति वैद्यकरत्नमालायाम्
ब्रह्मणः पुत्त्रः सत्यम् धर्म्मः मरीच्यादिः
भनुः यथा मार्कण्डेये ९४ ११ ।“मन्वन्तरे दशमे ब्रह्मपुत्त्रस्य धीमतः ।सुखासीना निरुद्धाश्च त्रिःप्रकाराः सुराःस्मृताः
”नारदः वशिष्ठः
) क्षेत्रभेदः नदभेदः ।इति मेदिनी रे, २८५
शेषस्य पर्य्यायः ।अमोघानन्दनः लौहित्यः लोहितः ।इति शब्दरत्नावली
*
अस्य नदस्योत्पत्ति-माहात्म्ये यथा, --सगर उवाच ।“अमोघायां कथं जज्ञे लौहित्यो ब्रह्मणः सुतः ।कथं शान्तनुभार्य्यायां रेतः कमलासनः
पारस्त्रैणेयपुत्त्रो वा कथं जज्ञे पितामहात् ।तत् सर्व्वं श्रोतुमिच्छामि कथयस्व द्विजोत्तम !
और्व्व उवाच ।शृणु त्वं नृपशार्द्दूल ! कथयामि महत्तरम् ।आख्यानं ब्रह्मपुत्त्रस्य लौहित्यस्य महात्मनः
हरिवर्षे महावर्षे शान्तनुर्नाम नामतः ।मुनिरासीन्महामागो ज्ञानवान् सुतपोधनः
तस्य भार्य्या महाभागा अमोघाख्या महासती ।हिरण्यभर्गस्य मुनेस्तृणवृन्दाश्रमोद्भवा
तया सार्द्धं कैलासमर्य्यादापर्व्वतेऽवसत् ।लौहित्याख्यस्य सरसस्तीरे वै गन्धमादने
एकदा तपोनिष्ठो निजपुष्पादिगोचरे ।जगाम वनमध्यन्तु चिन्वन् बहुफलानि
तस्मिन्नवसरे ब्रह्मा सर्व्वलोकपितामहः ।तत्राजगाम यत्रास्ति अमोघा शान्तनोः प्रिया
तां दृष्ट्वा देवगर्भाभां युवतीमतिसुन्दरीम् ।मोहितो मदनेनाशु तथाभूद्भूषितेन्द्रियः
उदीरितेन्द्रियो भूत्वा जिघृक्षुस्तां महासतीम् ।अथाधावत्तदा ब्रह्मा सम्मुखो मदनार्द्दितः
धावमानं विधातारं दृष्ट्वामोघा महासती ।मैवं मैवमिति प्रोक्ता पर्णशालां व्यलीयत
इदञ्चोवाच धातारममोघा कुपिता तदा ।पर्णशालान्तरगता द्वारमावृत्य तत्क्षणात्
अकार्य्यं मया कार्य्यं मुनिपत्न्या विगर्हितम् ।बलात् प्रमथ्या चाहं तत्त्वया त्वाञ्च शपाम्यहम्
अमोघया चैवमुक्ते विधातुश्च तदा नृप ! ।रेतश्चस्कन्द तदैवाश्रमे शान्तनोर्मुनेः
च्युते रेतसि धातापि हंसयानं समास्थितः ।लज्जयातिपरीतात्मा द्रुतं वै स्वाश्रमं ययौ
*
गते वेधसि शान्तनुर्निजमाश्रममागतः ।आगत्य दृष्ट्वा हंसानां पदक्षोभं तथा भुवि
तेजश्च पतितं भूमौ विधातुर्ज्वलनोपमम् ।अमोघां परिपप्रच्छ पर्णशालान्तरस्थिताम्
किमेतदत्र सुभगे ! प्रवृत्तं दृश्यते तु यत् ।पक्षिणाञ्च पदक्षोभस्तेजश्चेदञ्च कीदृशम्
सा तस्य वचनं श्रुत्वा शान्तनुं मुनिसत्तमम् ।अमर्षितेव न्यगददाकुला विकलानना
हंसयुक्तस्यन्दनेन कोऽप्यागत्य चतुर्मुखः ।कमण्डलुकरो भीरू रतिं मां समयाचत
ततो मया भर्त्सितः कुटजान्तरलीनया ।प्रच्याव्य तेजः यातो मया शापभयार्द्दितः
कुरु तत्र प्रतीकारं यदि शक्नोषि शान्तनो ! ।न हि मां धर्षणां सोढं कश्चित् शक्नोति जीव-भृत्
तस्या वचनं शुत्वा स्वयं ब्रह्मा समागतः ।इति निश्चित्य मनसा तत्र ध्यानपरोऽभवत्
दिव्यज्ञानेन ज्ञात्वा देवकार्य्यमुपस्थितम् ।तीर्थावतारणञ्चापि हिताय जगतां मुनिः ।ज्ञात्वोदर्कं चिन्तयित्वा स्वभार्य्यामिदमब्रवीत्
इदं तेजो ब्रह्मणस्त्वं पिवामोघे ! ममाज्ञया ।हिताय सर्व्वजगतां देवकार्य्यार्थसिद्धये
भवत्या निकटं ब्रह्मा स्वयमेव समागतः ।त्वामप्राप्य महात्मा आवयोः समर्प्य ।गतो निजास्पदं तत्त्वं कर्त्तुमर्हसि मद्वचः
तत् शुत्वा शान्तनोर्वाक्यममोघातीव लज्जिता ।शान्तयन्तीव तं प्राह पतिं नला महासती
नान्यस्य तेजो धास्यामि चेत्ते विमनस्कता ।अवश्यं यदि कर्त्तव्यं पीत्वा त्वं मयि चोत्सृज
ततस्तस्या वचः श्रुत्वा युक्तं तथ्यञ्च शान्तनुः ।स्वयं पीत्वा तत्तेजस्तस्या गर्भे व्यसेचयेत्
संक्रामितैः शान्तनुना तेजोभिर्ब्रह्मणः सती ।गर्भं दधानामोघाख्या हिताय जगतां ततः
तस्यां काले तु संप्राप्ते संजातो जलसञ्चयः ।तन्मध्ये तनयश्चापि नीलवासाः किरीटधृक्
रन्नमालासमायुक्तो रक्तगौरश्च ब्रह्मवत् ।चतुर्भुजः पद्मविद्यावरशक्तिधरस्तथा ।शिशुमारशिरस्थश्च तुल्यकायो जलोत्करैः
तं जातञ्च तथाभूतं शान्तनुर्लोकशान्तनुः ।चतुर्णां पर्व्वतानाञ्च मध्यदेशे न्यवेशयत्
कैलासश्चोत्तरे पार्श्वे दक्षिणे गन्धमादनः ।जारुधिः पश्चिमे शैलः पुर्ब्बे सम्बर्त्तकाह्वयः
तेषां मध्ये स्वयं कुण्डं पर्व्वतानां विधेः सुतः ।कृत्वातिववृधे नित्यं शरदीव निशाकरः
तं तोयमध्यगं पुत्त्रमासाद्य द्रुहिणः स्वयम् ।क्रमतस्तस्य संस्कारानकरोद्देहशुद्धये
अथ काले बहुतिथे व्यतीते ब्रह्मणः सुतः ।तोयराशिस्वरूपेण ववृधे पञ्च योजनान्
तस्मिन् देवाः पपुः सस्नुर्द्वितीय इव सागरे ।शीतामलजले हृद्ये देव्यश्चाप्सरसां गणैः
तस्मिन्नवसरे रामो जामदग्न्यः प्रतापवान् ।चक्रे मातृवधं घोरमत्युग्रं पितुराज्ञया
तस्य पापस्य मोक्षाय स्वपितुश्चोपदेशतः ।स जगाम महाकुण्डं ब्रह्माख्यं स्नातुमिच्छया
तत्र स्नात्वा पीत्वा मातृहत्यां व्यपानयत् ।वीथिं परशुना कृत्वा तञ्च क्ष्मामवतारयत्
*
अपि ।ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिता-ह्वये ।कैलासोपत्यकायान्तु न्यपतद्ब्रह्मणः सुतः
तस्यापि सरसस्तीरं समुत्थाय महाबलः ।कुठारेण दिशं पूर्व्वामनयद्ब्रह्मणः सुतम्
ततोऽपरत्रापि गिरिं हेमशृङ्गं विभिद्य ।कामरूपान्तरं पीठमवाहयदमुं हरिः
तस्य नाम विधिश्चक्रे स्वयं लोहितगङ्गकम् ।लौहित्यात् सरसो जातो लौहित्याख्यस्ततोऽ-भवत्
कामरूपमखिलं पीठमाप्लाव्य वारिणा ।गोपयन् सर्व्वतीर्थानि दक्षिणं याति सागरम्
प्रागेव दिव्ययमुनां त्यक्त्वा ब्रह्मणः सुतः ।पुनः पतति लौहित्ये गत्वा द्वादशयोजनम्
*
चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः ।स्नाति लौहित्यतोयेषु याति ब्रह्मणः पदम्
चैत्रन्तु सकलं मासं शुचिः प्रयतमानसः ।लौहित्यतोये यः स्नाति कैवल्यमवाप्नुयात्
”इति कालिकापुराणे ८४ ८५ अध्यायः
अन्यच्च ।मीने मधौ शुक्लपक्षे अशोकाख्यां तथाष्टमीम् ।पिबेदशोककलिकाः स्नायाल्लौहित्यवारिणि
पुनर्व्वमी वृषे लग्ने चैत्रे मासि सिताष्टमीम् ।लोहित्ये विरजे स्नायात् सर्व्वपापैः प्रमुच्यते
*
स्नानमन्त्रो यथा, --“पृथिव्यां यानि तीर्थानि सरितः सागरादयः ।सर्व्वे लौहित्यमायान्ति चैत्रे मासि सिताष्टमीम्
ब्रह्मपुत्त्र महाभाग शान्तनोः कुलनन्दन ! ।अमोघागर्भसम्भूत पापं लौहित्य मे हर
”इति तिथ्यादितत्त्वधृतस्कन्दपुराणवचनम्