ब्रह्मज्ञान (brahmajJAna)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiब्रह्मज्ञानम्
ब्रह्मन्-ज्ञानम् -
"सत्यज्ञान, दिव्यज्ञान, विश्व की ब्रह्म के साथ एकरूपता का ज्ञान"
Shabdartha Kaustubha
Kannadaब्रह्मज्ञान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ತತ್ತ್ವಜ್ಞಾನ/ಬ್ರಹ್ಮವಿಷಯಕವಾದ ಜ್ಞಾನ/ಬ್ರಹ್ಮಸ್ವರೂಪಲಕ್ಷಣಗಳ ತಿಳಿವಳಿಕೆ
ब्रह्मज्ञान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > (ಪಾತಂಜಲ ಮತದಲ್ಲಿ) ಕ್ಲೇಶಕರ್ಮವಿಪಾಕಾಶಯ ನಿವರ್ತಕವಾದ ಪರಮಾತ್ಮಜ್ಞಾನ
ब्रह्मज्ञान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಬ್ರಹ್ಮವಿದ್ಯೆಯ ಅರಿವು
ब्रह्मज्ञान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಬ್ರಹ್ಮೋಪಾಸನೆ
ब्रह्मज्ञान
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪ್ರಕೃತಿಪುರುಷರ ವಿವೇಕವಿಷಯ ಜ್ಞಾನ
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
Englishशब्दकल्पद्रुमः
Sanskritब्रह्मज्ञानं, (ब्रह्मणि ब्रह्मविषये यज्ज्ञानम् ।)ब्रह्मविषयकज्ञानम् । इति समञ्जसावृत्तिः ॥
* ॥
तत्त्वमस्यादिवाक्यजन्यप्रतिफलितवृत्त्यारूढ-ज्ञानम् । इति वेदान्तलघुचन्द्रिका ॥
“मिथ्या-वासनाविरहविशिष्टमात्मभिन्नभिन्नज्ञानम् ॥
इतिमुक्तिवादः ॥
* ॥
“क्लेशकर्म्मविपाकाशय-निवर्त्तकहिरण्यगर्भविषयकं ज्ञानम् ।” इतिवैजयन्तीधृतपातञ्जलमतम् ॥
* ॥
“प्रकृतिपुरु-षयोर्विवेकविषयज्ञानम् ।” इति तत्रैव सांख्यमतम् ॥
तथा च ।सूत उवाच ।“वेदान्तसांख्यसिद्धान्तब्रह्मज्ञानं वदाम्यहम् ॥
अहं ब्रह्म परं ज्योतिर्विष्णुरित्येव चिन्तयन् ।सूर्य्ये हृद्व्योम्नि वह्रौ च ज्योतिरेकं त्रिधास्थितम् ॥
यथा सर्पिः शरीरस्थं गवां न कुरुते बलम् ।निर्गतं कर्म्मसंयुक्तं दत्तं तासां महाबलम् ॥
तथा विष्णुः शरीरस्थो न करोति हितं नृणाम् ।विनाराधनया देवः सर्व्वगः परमेश्वरः ॥
आरुरुक्षुमतीनान्तु कर्म्मज्ञानमुदाहृतम् ।आरूढयोगवृक्षाणां ज्ञानं त्यागः परं मतम् ॥
ज्ञातुमिच्छति शब्दादीन् रागद्वेषोऽथ जायते ।लोभो मोहः क्रोध एतैर्युक्तः पापं नरश्चरेत् ॥
हस्तावुपस्थमुदरं वाक् चतुर्थी चतुष्टयम् ।एतत् सुसंयतं यस्य स विप्रः कथ्यते बुधैः ॥
परवित्तं न गृह्णाति हिंसां न कुरुते तथा ।नाक्षक्रीडारतो यस्तु तस्य हस्तौ सुसंयतौ ॥
परस्त्रीवर्जनपरस्तस्योपस्थं सुसंयतम् ।अलोलुपो मितं भुङ्क्ते जठरं तस्य संयतम् ॥
सत्यं हितं मितं ब्रूते यः सदा तस्य वाग् यता ।यस्य संयतान्येतानि तस्य किं तपसाध्वरैः ॥
ऐक्यं यद्बुद्धिमनसोरिन्द्रियाणाञ्च सर्व्वदा ।विश्वेश्वरे परे देवे ध्यानमेतत् प्रकीर्त्तितम् ॥
भ्रुवोर्मध्ये स्थितां बुद्धिं विषयेषु युनक्ति यः ।जीवो जाग्रदवस्थायामेवमाहुर्विपश्चितः ॥
इन्द्रियाणामुपरमे मनसि ह्यव्यवस्थिते ।स्वप्नान् पश्यत्यसौ जीवो वाह्यानाभ्यन्तरानथ ॥
हृदि स्थितः स तमसा मोहितो न स्मरत्यपि ।यदा कस्य कुतो वेत्ति सुसुप्तिरिति कथ्यते ॥
जाग्रतो यस्य नो तन्द्रीर्न मोहो न भ्रमस्तथा ।उत्पद्यते न जानाति शब्दादिविषयान् वशी ॥
इन्द्रियाणि समाहृत्य विषयेभ्यो मनस्तथा ।बुद्ध्याहङ्कारमपि च प्रकृत्या बुद्धिमेव च ॥
संयम्य प्रकृतिञ्चापि चिच्छक्त्या केवले स्थितः ।पश्यत्यात्मनि चात्मानमात्मनात्मप्रकाशकम् ॥
चिद्रूपममृतं शुद्धं निष्क्रियं व्यापकं शिवम् ।तुरीयायामवस्थायामास्थितोऽसौ न संशयः ॥
शब्दादयो गुणाः पञ्च सत्त्वाद्यास्तु गुणास्त्रयः ।पुर्य्यष्टकस्य पद्मस्य पत्राण्यष्टौ च तानि हि ॥
साम्यावस्था गुणकृता प्रकृतिस्तत्र कर्णिका ।कर्णिकायां स्थितो जीवो देहे चिद्रूप एव हि ॥
पुर्य्यष्टकं परित्यज्य प्रकृतिञ्च गुणात्मिकाम् ।यदा याति तदा जीवो याति मुक्तिं न संशयः ।शरीरेण चतुर्भागः कर्म्म बुद्धीन्द्रियाणि च ।त्रिपञ्चकं विनश्येत याति पुर्य्यष्टकं सदा ।सन्धार्य्यञ्चैव जीवेन योगसेवी हि मुक्तिभाक् ॥
प्राणायामो जपश्चैव प्रत्याहारोऽथ धारणा ।ध्यानं समाधिरित्येते षड्योगस्य प्रसाधकाः ॥
पापक्षयो देवतानां प्रीतिरिन्द्रियसंयमः ।मनसः स्थिरता तेभ्यस्तत्त्वालोकश्च सर्व्वदा ॥
गायत्त्र्या प्रणवेनाथ मात्रया प्राणसंयमः ।जपध्यानयुतो गर्भस्तेन हीनस्त्वगर्भकः ॥
षट्त्रिंशन्मात्रिकः श्रेष्ठश्चतुर्विंशतिमात्रिकः ।मध्या द्वादशमात्रास्तु ओँकारं सततं जपेत् ॥
श्रुत्वा यथास्वरं सम्यक् शब्दं गौर्याति संमुखी ।प्रणवे च कृते तद्वत् परं ब्रह्म न संशयः ॥
चारके प्रणवे जप्ते परं ब्रह्म प्रसीदति ।अष्टाक्षरश्च जप्तव्यो गायत्त्री द्वादशाक्षरा ॥
सर्व्वेषामिन्द्रियाणान्तु प्रवृत्तिर्विषयेषु या ।निवृत्तिर्मनसा तस्यां प्रत्याहारः प्रकीर्त्तितः ॥
इन्द्रियाणीन्द्रियार्थेभ्य समाहृत्य स्थितो हि सः ।मनसा सह बुद्ध्या च प्रत्याहारेषु संस्थितः ॥
प्राणायामैर्द्वादशभिर्यावत् कालकृतो भवेत् ।यस्तावत् कालपर्य्यन्तं मनो ब्रह्मणि धारयेत् ॥
तस्यैव ब्रह्मणा प्रोक्तं ध्यानं द्वादश धारणाः ।तुष्टे तु नियतो युक्तः समाधिः सोऽभिधीयते ॥
ध्यायन्न चलते यस्य मनोऽभिध्यायते भृशम् ।प्राप्यावधिकृतं कालं यावत् सा धारणा स्थिता ।ध्येये सक्तं मनो यस्य ध्येयमेवानुपश्यति ।नान्यं पदार्थं जानाति ध्यानमेतत् प्रकीर्त्तितम् ॥
ध्येये मनो निश्चलतां याति ध्येयं विचिन्तयन् ।यत्तत् ध्यानं परं प्रोक्तं मुनिभिर्ध्यानचिन्तकैः ॥
ध्येयमेव हि सर्व्वत्र ध्येयस्तल्लयतां गतः ।पश्यति द्वैतरहितं समाधिः सोऽभिधीयते ॥
मनः संकल्परहितमिन्द्रियार्थांस्तु चिन्तयन् ।यस्य ब्रह्मणि संलीनं समाधिस्थः स कीत्तितः ॥
ध्यायतः परमात्मानमात्मस्थं यस्य योगिनः ।मनस्तल्लयतां याति समाधिस्थः स कीर्त्तितः ॥
चित्रस्यास्थिरता भ्रान्तिदौर्मनस्यं प्रमादता ।योगिनां कथिता दोषा योगविघ्नप्रवर्त्तकाः ॥
स्थित्यर्थं मनसः सर्व्वं स्थूलरूपं विचिन्तयेत् ।तद्ब्रतं निश्चलीभूतं सूर्य्यस्थं स्थिरतां व्रजेत् ॥
न विना परमात्मानं किञ्चिज्जगति विद्यते ।विश्वरूपं तमेवेह इति ज्ञात्वा न मुह्यति ॥
ओँ कारं परमं ब्रह्म ध्यायेदब्जस्थितं विभुम् ।क्षेत्रक्षेत्रज्ञरहितं जपेन्मात्रार्थयान्वितम् ॥
हृदि सञ्चिन्तयेत् पूर्व्वं प्रधानं तस्य चोपरि ।तमो रजस्तथा सत्त्वं मण्डलत्रितयं क्रमात् ॥
कृष्णरक्तसितं तस्मिन् पुरुषं जीवसंज्ञितम् ।तस्योपरि गुणैश्वर्य्यमष्टपत्रं सरोरुहम् ॥
ज्ञानन्तु कर्णिका तत्र विज्ञानं केशरं स्मृतम् ।वैराग्यं नालं तत्कन्दो वैष्णवो धर्म्म उत्तमः ॥
कर्णिकायां स्थितं चक्रं जीववन्निश्चलं विभुम् ।ध्यायेदुरसि संयुक्तमोङ्कारं मुक्तिसाधकम् ॥
व्यक्ताव्यक्ते च षुरुषस्तिस्रो मात्राः प्रकीर्त्तिताः ।अर्द्धमात्रा परं ब्रह्म ज्ञेयोऽध्यात्मविदुत्तमैः ॥
ध्यायन् यदि त्यजेत् प्राणान् याति ब्रह्मण्य-सैनिकम् ।हरिं संस्थाप्य देहेऽब्जे ध्यायन् योगी चमुक्तिभाक् ॥
आत्मानमात्मना केचित् पश्यन्ति ध्यानचक्षुषः ।सांख्यबुद्ध्या तथैवान्ये योगेनान्ये तु योगिनः ॥
ब्रह्मप्रकाशकं ज्ञानं भवबन्धविभेदकम् ।तत्रैकचित्ततायोगो मुक्तिदो नात्र संशयः ॥
जितेन्द्रियान्तःकरणो ज्ञानतृप्तो हि यो भवेत् ।स मुक्तः कथ्यते योगी परमात्मन्यवस्थितः ॥
आसनस्थानविधयो न योगस्य प्रसाधकाः ।विलम्बजनकाः सर्व्वे विस्ताराः परिकीर्त्तिताः ॥
शिशुपालः सिद्धिमागात् स्मरणाभ्यासमौरवात् ।आश्रमाः सर्व्व एवेह पूर्व्वरात्रे परे तथा ॥
योगाभ्यासं प्रकुर्व्वन्तः पश्यन्त्यात्मानमात्मना ।सर्व्वभूतेषु कारुण्यं विद्बेषं विषयेषु च ॥
गुप्तशिश्नोदरादिञ्च कुर्व्वन् योगी विमुच्यते ।इन्द्रियैरिन्द्रियार्थांस्तु न जानाति नरो यदा ॥
काष्ठवत् ब्रह्मसंलीनो योगयुक्तस्तदा भवेत् ॥
सर्व्वे वर्णाः स्त्रियः सर्व्वाः कृत्वा पापानिभस्मसात् ।ध्यानाग्निनामलाः सन्तो लभन्ते परमां गतिम् ।मथनात् दृश्यते ह्मग्निस्तद्बत् ध्यानेन वै हरिः ॥
ब्रह्मात्त्मनोर्यदेकत्वं स योगश्चोत्तमोत्तमः ॥
वाह्यैरुपायैर्मुक्तिर्न नान्तःस्थैः स्याद्यमादिभिः ।सांख्यज्ञानेन योगेन वेदान्तश्रवणेन च ।प्रत्यक्षतात्मनो या हि सा मुक्तिरभिधीयते ॥
अनात्मन्यात्मरूपत्वमसतः सत्स्वरूपता ।दुःखाभावे तथा सौख्यं माया विद्याविना-शिनी ॥
”इति गारुडे ब्रह्मज्ञाने २४० अध्यायः ॥
वाचस्पत्यम्
Sanskritब्र(व्र)ह्मज्ञान ब्रह्मणो ज्ञानं तेन सह आत्माभेदज्ञानम् ।ब्रह्मविद्यायां तच्च अहं ब्रह्मास्मीत्येवंरूपम् “आत्मानंचेत् विजानीयादयमस्मीति पुरुषः । किमिच्छन् कस्यकामाय किमर्थमनुसंज्वरेत्” श्रुत्या तदभेदज्ञानस्यैव मोक्ष-हेतुत्वमुकं “वेदान्तसाङ्ख्यसिद्धाब्रह्मज्ञानं वदाम्यहम् ।अहंब्रह्म परं ज्योतिः विष्णुरित्येव चिन्तयेत् । सूर्य्येहृद्व्योम्नि वह्नौ च ज्योतिरेकं त्रिधा स्थितम् । यथासर्पिः शरीरस्थं गवां न कुरुतेबलम् । निर्गतं कर्मसंयुक्तंदत्ते तासां महाबलम् । तथा विष्णुः शररीरस्थो नकरोति हितं नृणाम् । विनाऽऽराधनया देवः सर्वपःपरमेश्वरः । आरुरुक्षुयतीनाञ्च कर्मज्ञानमुदाहृतम् ।आरूडयोगवृक्षाणां ज्ञानं योगः परं मतम्” गरुड्पु० २४० अ० । न्यायादिमते तच्चारोपज्ञानं वेदान्तिमतेप्रमारूपम् । तत्त्वमसि अहंब्रह्मास्मीत्यादोवाक्यजन्यमपितज्ज्ञानं मनननिदिध्यासनादिना पश्चात् प्रत्यक्षसुत्पद्यते ।तज्ज्ञानाभिलापादिकं विवेकचू० दर्शितं यथा“अव्यक्तादिस्थूलपर्य्यन्तमेतदुमेतदुविश्वं यत्राभाममात्रं प्रती-तम् । व्योमप्रख्यं सूक्षममाद्यन्तहीनं ब्रहावैतं यत्तदेवाह-मस्नि । सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगंसर्वम्शून्यम् । नित्यं शुद्धं निश्चलं निर्विकल्पं ब्रह्माद्वैतंयत् तदेवाहसस्मि । यस्मिन्नस्ताशेषमायाविशेषं प्रत्यग्-रूपं प्रत्ययागम्यमानम् । सत्यज्ञानानन्दमानन्दरूपंब्रह्माद्वैतं यत् तदेवाहमस्मि । निष्क्रियोऽस्म्यविकारो-ऽस्मि निष्कलोऽस्मि निराकृतिः । निर्विकल्पोऽस्मिनित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः । सर्वात्मकोऽहंसर्वोऽह सर्यातीतोऽहमद्वयः । केवलाखण्डवोधोऽहमा-नन्दोऽहं निरन्तरम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
