| YouTube Channel

ब्रह्मजीवी (brahmajIvI)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मजीवी, [न्]
पुं,
(ब्रह्मणा वेदेन वेदोक्त-श्रौतादिकर्म्मणा इत्यर्थः जीवतीति ब्रह्म +जीव् + णिनिः ।) द्बिजकार्य्येषु मूल्येन परि-चारकः यथा अनृतवाक् तस्करो राजभृत्योवृक्षारोपकवृत्तिर्गरदोऽग्निदोऽश्वरथगजारोह-णवृत्ती रङ्गोपजीवी श्वागणिकः शूद्रोपाध्यायोवृषलीपतिर्भाण्डिको नक्षत्रोपजीवी श्ववृत्ति-र्ब्रह्मजीवी त्तिकित्सको देवलकः पुरोहितःकितवो मद्यपः कूटकारकोऽपत्यविक्रयी मनुष्य-पशुविक्रेता चेति तानुद्धरेत् समेत्य न्यायतोब्राह्मणव्यवस्थया सर्व्वद्रव्यत्यागेन चतुर्थकाला-हाराः सम्बत्सरं त्रिसवनमुपस्पृशेयुस्तस्यान्तेदेबपितृतर्पणं गवाह्निकञ्चेत्येवं व्यवहार्य्याः ।इति मिताक्षरायां प्रायश्चित्ताध्याये प्रचेतसोवचनम्