| YouTube Channel

ब्रह्मजज्ञः (brahmajajJaH)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मजज्ञः,
पुं,
(ब्रह्मणो जायते इति ब्रह्मजः ।ब्रह्म + जन् + जानातीति ज्ञः ज्ञा + कः ।ततः कर्म्मधारयः ।) समष्टिस्थूलदेहाभिमानि-विराट् हिरण्यगर्भाज्जातः सर्व्वज्ञः ।यथा, कठोपनिषदि १७
“त्रिनाचिकेतस्त्रिभिरेत्य सन्धिंत्रिकर्म्मकृत् तरति जन्ममृत्यू ।ब्रह्मजज्ञं देवमीड्यं विदित्वानिचाय्येमां शान्तिमत्यन्तमेति
”पुनरपि कर्म्मस्तुतिमेवाह त्रिनेति त्रिना-चिकेतः त्रिकृत्वो नाचिकेतोऽग्निः चितो येन सत्रिनाचिकेतः तद्बिज्ञानस्तदघ्ययनस्तदनुष्ठानवान्वा त्रिभिर्मातृपित्राचार्य्यैरेत्य प्राप्य सन्धिंसन्धानं मात्राद्यनुशासनं यथावत् प्राप्येत्येतत् ।तद्धि प्रामाण्यकारणं श्रुत्यन्तरादवगम्यते ।यथा मातृमानित्यादेः वेदस्मृतिशिष्टैर्व्वाप्रत्यक्षानुमानागमैर्वा तेभ्यो हि विशुद्धिःप्रत्यक्षा त्रिकर्म्मकृत् इज्याध्ययनदानानां कर्त्तातरति अतिक्रामति जन्म मृत्युञ्च जन्ममृत्यू ।किञ्च ब्रह्मजज्ञमिति ब्रह्मजज्ञं ब्रह्मणोहिरण्यगर्भाज्जातो ब्रह्मजः ब्रह्मजश्चासौज्ञश्चेति ब्रह्मजज्ञः सर्व्वज्ञो ह्यसौ तं देवं द्योतन-ज्ञानादिगुणवन्तं ईड्यं स्तुत्यं विदित्वा शास्त्रतःनिचाय्य दृष्ट्वा आत्मभावेन इमां स्वबुद्धि-प्रत्यक्षां शान्तिं उपरतिं अत्यन्तमेति अतिशये-नैति वैराजं पदं ज्ञानकर्म्मसमुच्चयानुष्ठानेनप्राप्नोतीत्यर्थः इति शङ्कराचार्य्यकृतभाष्यम्