| YouTube Channel

ब्रह्मचारी (brahmacArI)

 
Wordnet
Sanskrit
Synonyms:
ब्रह्मचारी, प्रथमाश्रमी
noun
संयमेन ब्रह्मचर्यस्य पालनं यः करोति।
"सः जन्मतः एव ब्रह्मचारीणः जीवनस्य पालनं कुर्वन् अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मचारी, [न्]
पुं,
(ब्रह्म ज्ञानं तपो वा आच-रति अर्जयत्यवश्यम् ब्रह्म + चर + आवश्यकेणिनिः ।) प्रथमाश्रमी इति भरतः
उपनयनानन्तरं नियमं कृत्वा गुरोः सन्निधौस्थित्वा साङ्गवेदाध्ययनं करोति यः द्बिविधः ।उपकुर्व्वाणः नैष्ठिकश्च तस्य नियमा यथा, --“यद्यस्य विहितं चर्म्म यत् सूत्रं या मेखला ।यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि
सेवते मांस्तु नियमान् ब्रह्मचारी गुरौ वसन् ।संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः
नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम् ।देवताभ्यर्च्चनञ्चैव समिदाधानमेव
वर्जयेन्मधु मांसञ्च गन्धं माल्यं रसान् स्त्रियः ।शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम्
अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम् ।कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम्
द्यूतञ्च जनवादञ्च परिवादं तथानृतम् ।स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य
एकः शयीत सर्व्वत्र रेतः स्कन्दयेत् क्वचित् ।कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः ।स्नात्वार्कमर्च्चयित्वा त्रिः पुनर्मामितृचं जपेत्
उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् ।आहरेद्यावदर्थानि भैक्षञ्चाहरहश्चरेत्
वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु ।ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम्
गुरोः कुले भिक्षेत ज्ञातिकुलबन्धुषु ।अलाभे त्वन्यगेहानां पूर्व्वं पूर्व्वं विवर्ज्जयेत्
सर्व्वं वापि चरेद्ग्रामं पूर्व्वोक्तानामसम्भवे ।नियम्य प्रयतो वाचमभिशस्तांस्तु वर्ज्जयेत्
दूरादाहृत्य समिधः सन्निदध्याद्विहायसि ।सायं प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः
अकृत्वा भैक्षचरणमसमिध्य पावकम् ।अनातुरः सप्तरात्रमवकीर्णिव्रतञ्चरेत्
भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती ।भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता
व्रतवद्देवदैवत्ये पित्रे कर्म्मण्यथर्षिवत् ।काममभ्यर्थितोऽश्नीयाद्व्रतमस्य लुप्यते
ब्राह्मणस्यैव कर्म्मैतदुपदिष्टं मनीषिभिः ।राजन्यवैश्ययोस्त्वेवं नैतत् कर्म्म विधीयते
चोदितो गुरुणा नित्यमप्रचोदित एव वा ।कुर्य्यादध्ययने यत्नमाचार्य्यस्य हितेषु
शरीरञ्चैव वाचञ्च बुद्धीन्द्रियमनांसि ।नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम्
नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसयतः ।आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः
हीनान्नवस्त्रवेशः स्यात् सर्व्वदा गुरुसन्निधौ ।उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत्
प्रतिश्रवणसम्भाषे शयानो समाचरेत् ।नासीनो भुञ्जानो तिष्ठन्न पराङ् मुखः
आसीनस्य स्थितः कुर्य्यादभिगच्छंस्तु तिष्ठतः ।प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः
पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् ।प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः
नीचं शय्यासनञ्चास्य सर्व्वदा गुरुसन्निधौ ।गुरोस्तु चक्षुर्व्विषये यथेष्टासनो भवेत्
नोदाहरेदस्य नाम परोक्षमपि केवलम् ।न चैवास्यानुकुर्व्वीत गतिभाषितचेष्टितम्
गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते ।कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः
परीवादात् खरो भवति श्वा वै भवति निन्दकः ।परिभोक्ता कृमिर्भवति काटा भवति मत्सरी
दूरस्थो नार्च्चयेदेनं क्रुद्धो नान्तिके स्त्रियाः ।यानासनस्थश्चैवैनमवरुह्याभिवादयेत्
प्रतिवातेऽनुवाते नासीत गुरुणा सह ।असंस्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत्
गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु ।आसीत गुरुणा सार्द्धं शिलाफलकनौषु
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् ।न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत्
विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु ।प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि
श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् ।गुरुपुत्त्रेषु चार्य्येषु गुरोश्चैव स्वबन्धुषु
बालः समानजन्मा वा शिष्यो वा यज्ञकर्म्मणि ।अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति
उत्सादनञ्च गात्राणां स्नापनोच्छिष्टभोजने ।न कुय्याद्गुरुपुत्त्रस्य पादयोश्चावनेजनम्
गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः ।असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः
अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव ।गुरुपत्न्या कार्य्याणि केशानाञ्च प्रसाधनम्
गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः ।पूर्णविंशतिवर्षेण गुणदोषौ विजानता
स्वभाव एव नारीणां नराणामिह दूषणम् ।अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः
अषिद्बांसमलं लोके विद्बांसमपि वा पुनः ।प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम्
मात्रा स्वस्रा दुहित्रा वा विविक्तासनो भवेत् ।बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति
कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि ।विधिवद्वन्दनं कुर्य्यादसावहमितिब्रुवन्
विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् ।गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन्
यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति ।तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति
मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखा-जटः ।नैनं ग्रामेऽभिनिम्लोचेत् सूर्य्यो नाभ्युदियात्क्वचित्
तञ्चेदभ्युदियात् सूर्य्यः शयानं कामचारतः ।निम्लोचेद्बाप्यविज्ञानाज्जपन्नुपवसेद्दिनम्
सूर्य्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः ।प्रायश्चित्तमकुर्व्वाणो युक्तः स्यान्महतैनसा
आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः ।शुचौ देशे जपन् जप्यमुपासीत यथाविधि
”इति मानवे १७४-२२२
अपि श्रीऔर्व्व उवाच ।“बालः कृतोपनयनो वेदाहरणतत्परः ।गुरुगेहे वसेद्भूप ! ब्रह्मचारी समाहितः
शौचाचारवता तत्र कार्य्यं शुश्रूषणं गुरोः ।ब्रतानि चरता ग्राह्या वेदाश्च कृतबुद्धिना
उभे सन्ध्ये रविं भूप ! तथैवाग्निं समाहितः ।उपतिष्ठेत्तथा कुर्य्याद्गुरोरप्यभिवादनम्
स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासति ।शिष्यो गुरौ नृपश्रेष्ठ ! प्रतिकूलं संभजेत्
तेनैवोक्तः पठेद्वेदं नान्यचित्तः पुरःस्थितः ।अनुज्ञातञ्च भिक्षान्नमश्नीयाद्गुरुणा ततः
अवगाहेदपः पूर्व्वमाचार्य्येणावगाहिताः ।समिज्जलादिकञ्चास्य कल्यं कल्यमुपानयेत्
गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै ।गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः
”इति विष्णुपुराणे १-७
अपि गारुडे ४९ अध्याये ।“भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव ।सन्ध्याकर्म्माग्निकार्य्यञ्च धर्म्मोऽयं ब्रह्मचारिणः
”स तु द्बिविधः यथा, कौर्म्मे अध्याये ।“ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः ।योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत्
उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ।”(गन्धर्व्वविशेषः यथा महाभारते १२३ ५५ ।“ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः ।विश्वावसुर्भूमन्युश्च सुचन्द्रश्च शरुस्तथा
”)
कृदन्तरूपमाला
Sanskrit
1 {@“चर गत्यर्थः”@} 2 3।
‘यथा तु भक्षणेऽपि प्रयुज्यते चरिः’ इति मैत्रेयरक्षितः, तथा नायं पाठोऽस्ति।
अपि तु अर्थवशेन केनचित् प्रक्षिप्त इति गम्यते।” इति पुरुषकारग्रन्थो ऽत्रानुसन्धेयः।]] अयं धातुर्भक्षणार्थेऽपि प्रयुज्यते।
‘संशये चारयेत्, गत्यां चरति--’ 4 इति देवः।
चारकः-रिका, चारकः-रिका, चिचरिषकः-षिका, 5 चञ्चुरकः-रिका
चरिता-त्री, चारयिता-त्री, चिचरिषिता-त्री, चञ्चुरिता-त्री
चरन्-न्ती, 6 चारयन्-न्ती, चिचरिषन्-न्ती
-- चरिष्यन्-न्ती-ती, चारयिष्यन्-न्ती-ती, चिचरिषिष्यन्-न्ती-ती
-- 7 8 9 उच्चरमाणः, 10 11 12 सञ्चरमाणः, चारयमाणः, 13 14 उच्चिचरिषमाणः, 15 16 सञ्चिचरिषमाणः, 17 चञ्चूर्यमाणः 18
उच्चरिष्यमाणः, सञ्चरिष्यमाणः, चारयिष्यमाणः, उच्चिचरिषिष्यमाणः
19 सञ्चिचरिषिष्यमाणः, चञ्चुरिष्यमाणः
20 ग्रामचः-ग्रामचरौ-ग्रामचरः
-- -- चरितम्-तः, चारितः, चिचरिषितः, चञ्चुरितः-तवान्
21 चरः- 22 सहचरी, 23 चराचरः, 24 शुभाचारः-शुभाचारा 25 व्रताचारा, 26 कुरुचरः- कुरुचरी, 27 क्षणदाचरः, 28 वनेचरः, 29 निशाचरः, 30 भिक्षाचरः- सेनाचरः, 31 दुराचारः, आदायचरः, 32 चरिष्णुः, 33 34 ब्रह्मचारी, 35 36 37 गूढचारी 38 39 रात्रिञ्चरः- 40 रात्रिचरः, 41 अतिचारी-अपचारी, 42 चारः, 43 चरमाणः, 44 45 चरणः, 46 पाटच्चरः-पटच्चरः, 47 वार्चः48, चारः, चिचरिषुः, चञ्चुरः
चरितव्यम्, चारयितव्यम्, चिचरिषितव्यम्, चञ्चुरितव्यम्
चरणीयम्, चारणीयम्, चिचरिषणीयम्, चञ्चुरणीयम्
49 चर्यम्, उपर्चार्यम् 50 आचर्यः 51, आचार्यः 52, 53 आचार्यानी, आचार्या, 54 आश्चर्यम् 55, चार्यम्, चिचरिष्यम्, चञ्चूर्यम्
ईषच्चरः-दुश्चरः-सुचरः
-- -- -- 56 चर्यमाणः, चार्यमाणः, चिचरिष्यमाणः, चञ्चूर्यमाणः
आचारः, 57 सञ्चारः, प्रचारः, 58 गोचरः- 59 सञ्चरः, चिचरिषः, सञ्चुरः
चरितुम्, चारयितुम्, चिचरिषितुम्, चञ्चुरितुम्
60 चूर्तिः, 61 परिचर्या, परिचर्या- 62 चर्या, चारणा, चिचरिषा, चञ्चुरा, चरणम्, 63 चरित्रम्, 64 चारित्रम्, चारणम्, चिचरिषणम्, चञ्चुरणम्
चरित्वा, चारयित्वा, चिचरिषित्वा, चञ्चुरित्वा
आचर्य, प्रचार्य, सञ्चिचरिष्य, विचञ्चूर्य
चारम् २, चरित्वा २, चारम् २, चारयित्वा २, चिचरिषम् २, चिचरिषित्वा २, चञ्चुरम्
चञ्चुरित्वा
65 इत्यादिना ञुण् प्रत्ययः।
चरन्ति नेत्राण्य- त्रेत्यधिकरणे प्रत्ययः।
चारुः = दर्शनीयः।]] चारुः, 66 इत्यादिना उप्रत्ययः।
चरन्ति अस्मात् देवर्षिपित्रादयः इति ‘भीमादयोऽपादाने’ 67 इत्यपादाने कारके प्रत्ययः।
चरुः = देवाद्युद्देशक उपहारः।]] चरुः, 68 इति संज्ञायां वुन्।
चरकः = कश्चन ऋषिः।]] चरकः, 69 इति मनिन्।
चरितं = चर्म त्वक्।
‘भूतेऽपि दृश्यन्ते’ 70 इति भूतेऽयं प्रत्ययः।]] चर्म, 71 इति अमच्प्रत्ययः।
चरमः = अन्त्यः।]] चरमः।
72
प्रासङ्गिक्यः
01
=>
(५०३)
02
=>
(१-भ्वादिः-५५९। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(श्लो। १५३)
05
=>
[[१। गर्हितं चरतीत्यर्थे, ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति भावगर्हायां यङि, द्वित्वे, ‘चरफलोश्च’ (७-४-८७) इत्यभ्यासस्य नुगागमे, ‘उत् परस्यातः’ (७-४-८८) इत्युत्तरखण्डस्योत्वे, ‘हलि च’ (८-२-७७) इति दीर्घस्य त्रैपादिकत्वेनासिद्धत्वात् अल्लोपयलोपयोः एवं रूपम्। हलादिप्रत्ययभिन्ने यङन्ते सर्वत्र एवमेव बोध्यम्।]]
06
=>
[[२। भक्षणार्थत्वे, ‘निगरणचलनार्थेभ्यः--’ (१-३-८७) इति ण्यन्तात् परस्मैपदमेव। गत्यर्थकत्वे तु ण्यन्तात् शानजपि भवतीति विशेषः।]]
07
=>
[[३। ‘उदः चरः सकर्मकात्’ (१-३-५३) इति शानच्। गुरुवचनमतिलङ्घते इत्यर्थः। अतः सकर्मकत्वम्।]]
08
=>
[गुरुवचनं]
09
=>
[[आ। ‘इदं वचोऽनुच्चरमाण ईते तस्मिन् स्वमादाय शिशुं निकाय्यम्। आनाय्यपूज्यो, मधुरां प्रणाय्यस्तां नारदः स्मायति लोकपान्थः।।’ वा। वि। २-२०।]]
10
=>
[[४। ‘समस्तृतीयायुक्तात्’ (१-३-५४) इति शानच्।]]
11
=>
[रथेन]
12
=>
[[B। ‘अभ्रेण खे सञ्चरमाण आराद् बिलेशयद्वेषिसमानजूतिः। प्राह्णेतनादित्यकरोपतप्तः पुरीं ददृश्वान् गजतावृतां सः।।’ वा। वि। २-२३।]]
13
=>
[[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानच्।]]
14
=>
[गुरुवचनं]
15
=>
[[५। ‘पूर्ववत् सनः’ (१-३-६२) इति सन्नन्तात् शानच्।]]
16
=>
[हयेन]
17
=>
[[६। ‘हलि च’ (८-२-७७) इति दीर्घः। एवं यङन्ताद् यति, ल्यपि दीर्घो ज्ञेयः।]]
18
=>
[[C। ‘ध्वजपल्लविता सेना शस्त्रपुष्पा परागिणी। वभौ चञ्चूर्यमाणेव मृत्योरुपवनस्थली।।’ यादवाभ्युदये। २२-७४।]]
19
=>
[पृष्ठम्०४८६+ ३१]
20
=>
[[१। ‘क्विप् च’ (३-२-७६) इति क्विपि, सर्वलोपे, रेफस्य पदान्तत्वनिमित्तकः ‘खरवसानयोः--’ (८-३-१५) इति विसर्गः।]]
21
=>
[[२। पचादिषु (३-१-१३४) ‘चरट्’ इति पाठात् अच्। टित्त्वात् स्त्रियां ङीप्।]]
22
=>
[[आ। ‘सौमित्रे मामुपायंस्था कम्रामिच्छुर्वशंवदाम्। त्वद्भोगीनां सहचरीमशङ्कः पुरुषायुषम्।।’ भ। का। ४-२०।]]
23
=>
[[३। ‘चरिचलिपतिवदीनां वा द्वित्वम् अचि, आक् चाभ्यासस्य--’ (वा। ३-१-१३४) इति अच्प्रत्यये, द्वित्वे, अभ्यासस्यागागमे रूपम्।]]
24
=>
[[४। ‘शीलिकामिभक्ष्याचरिभ्यो णः’ (वा। ३-२-२१) इति कर्मण्युपपदेऽणपवादो ण- प्रत्ययः। अदन्तत्वेन स्त्रियां टाप्।]]
25
=>
[[B। ‘स्तुतिशीला हरिकामा फलभक्षा कानने व्रताचारा। तदनुग्रहप्रतीक्षा वसति द्वन्द्वक्षमा मुनिश्रेणी।।’ प्रक्रियासर्वस्वम्।]]
26
=>
[[५। ‘चरेष्टः’ (३-२-१६) इति अधिकरणे टः। एवं क्षणदाचरः वनेचरः निशाचर इत्यादिष्वपि बोध्यम्।]]
27
=>
[[C। ‘तेऽभाषिषत राजा त्वां दिदृक्षुः क्षणदाचर।’ भ। का। १५-६।]]
28
=>
[[ड्। ‘द्विषन् वनेचराग्र्याणां त्वमादायचरो वने।’ भ। का। ५-९७।]]
29
=>
[[E। ‘बाहूपपीडमाश्लिष्य जगाहे द्यां निशाचरः।।’ भ। का। ५-९४।]]
30
=>
[[६। ‘भिक्षासेनादायेषु च’ (३-२-१७) इति टः। अनधिकरणे उपपदेऽयं टः। आदाय- चरः इत्यत्र ‘आदाय’ इति ल्यबन्तम्। ‘अस्य कर्मसापेक्षत्वेऽपि वचनसामर्थ्यात् प्रत्ययः।’ इति प्रक्रियाकौमुदीव्याख्यायाम्।]]
31
=>
[[F। ‘मामपापं दुराचार किं निहत्याभिधास्यसि।।’ भ। का। ६-१२७।]]
32
=>
[[७। ‘अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच्’ (३-२-३६) इत्यनेन तच्छीलादिषु कर्तृषु इष्णुच् प्रत्ययः।]]
33
=>
[[ङ्। ‘अलङ्करिष्णवो भान्तस्तडित्वन्तश्चरिष्णवः।।’ भ। का। ७-३।]]
34
=>
[[८। ‘व्रते’ (३-२-८०) इति णिनिः। ब्रह्म = वेदः। तदध्ययनार्थ व्रतमपि ब्रह्म
\n\n तच्चरतीत्यर्थे णिनिः।]]
35
=>
[[ः। ‘आजन्मब्रह्मचारी विपुलभुजशिलास्तम्भविभ्राजमान- ज्याघातश्रेणिसंज्ञान्तरितवसुमतीचक्रजैत्रप्रशस्तिः।’ अनर्घराघवे--४-१८।]]
36
=>
[पृष्ठम्०४८७+ ३०]
37
=>
[[१। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छीलिको णिनिः। गूढचारी = चारः।]]
38
=>
[[आ। ‘सङ्गमाय निशि गूढचारिणं चारदूतिकथितं पुरोगता।’ रघुवंशे--१९-३३।]]
39
=>
[[२। रात्रौ चरतीति, अधिकरणे टः। ‘रात्रेः कृति विभाषा’ (६-३-७२) इति वा मुम्।]]
40
=>
[[B। ‘तं रत्नदायं जितमृत्युलोका रात्रिञ्चराः कान्तिभृतोऽन्वसर्पन्।’ भ। का। १२-११।]]
41
=>
[[३। ‘सम्पृचानुरुधाङ्यमाङयसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च’ (३-२-१४२) इति घिनुण्।]]
42
=>
[[४। पचाद्यचि (३-१-१३४) प्रज्ञादित्वात् (५-४-३८) स्वार्थेऽण्। चारः गूढपुरुषः।]]
43
=>
[[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इति सूत्रेण ताच्छील्ये चानश्।]]
44
=>
[[C। ‘सहैव चरमणौ द्वौ वहमानौ मितं धनुः। जयमानौ रक्षांसि राघवौ मुनिमन्वितौ।।’ प्रक्रियासर्वस्वे।]]
45
=>
[[६। ‘चलनशब्दार्थादकर्मकात्-- (३-२-१४८) इति ताच्छीलिकः युच्।]]
46
=>
[[७। पाटयन् = छिन्दन्-चरतीति पाटच्चरः = तस्करः। पृषोदरादित्वात् (६-३-१०९) साधुः। एवं पटच्चरः इत्यपि।]]
47
=>
[[८। वारि चरतीति वार्चः = हंसः। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डप्रत्यये साधुः--इति प्रक्रियासर्वस्वे।]]
48
=>
[हंसः]
49
=>
[[९। ‘गदमदचरयमश्चानुपसर्गे’ (३-१-१००) इति यति रूपम्। ‘अनुपसर्गे’ इत्यु- क्तत्वात् सोपसर्गात् ‘उपचार्यम्’ इत्येव।]]
50
=>
[[१०। ‘चरेराङि चागुरौ’ (वा। ३-१-१००) इति यत्। गुरौ तु ‘आचार्यः’ इति ण्यत्।]]
51
=>
[देशः]
52
=>
[गुरुः]
53
=>
[[११। आचार्यस्य स्त्री आचार्यानी। ‘इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातु- लाचार्याणामानुक्’ (४-१-४९) इति ङीष् आनुगागमश्च। ‘आचार्यादणत्वं च’ (वा। ४-१-४९) इति णत्वनिषेधः। यथा तु स्वयं व्याख्यात्री, तत्र आचार्या इत्येव भवति।]]
54
=>
[[१२। ‘आश्चर्यमनित्ये’ (६-१-१७४) इति आङ्पूर्वकात् चरेर्यति प्रत्यये, अद्भुत- त्वेनार्थे विवक्षिते सुडागमो निपात्यते। अन्यत्र आचर्यः।]]
55
=>
[अनित्यम्]
56
=>
[पृष्ठम्०४८८+ ३०]
57
=>
[[आ। ‘सञ्चारनिष्ठ्यूतनखेन्दुचन्द्रिकं लोके जयन्तं सकलैकजीवनम्।’ धा। का। १-७२।]]
58
=>
[[१। ‘गोचरसंचर--’ (३-३-११९) इत्यादिनाऽधिकरणे घप्रत्ययो निपातनात्। गावः = इन्द्रियाणि चरन्त्यस्मिन् इति गोचरः = विषयः। सञ्चरन्ते अनेन इति करणे घः, सञ्चरः = अध्वा।]]
59
=>
[[B। ‘पापगाचरमात्मानमशोचन् वानरा मुहुः।।’ भ। का। ७-८०।]]
60
=>
[[२। ‘ति च’ (७-४-८९) इत्युत्वे, ‘हलि च’ (८-२-७७) इति दीर्घः।]]
61
=>
[[३। ‘परिचर्यापरिसर्या--’ (वा। ३-३-१०१) इति स्त्रियां भावादौ शे यकि टाप्। ‘परि’ इत्युपसर्गस्याविवक्षितत्वात् ‘चर्या’ इत्यपि साधुः।]]
62
=>
[[C। ‘पापचर्यो मुनेः शापात् जात इत्यवदत् तम्।।’ भ। का। ६-४८।]]
63
=>
[[४। ‘अर्तिलूधूसूखनसहचर इत्रः’ (३-२-१८४) इति करणे इत्रः। चरित्रमेव चारित्रम्। स्वार्थिकः प्रज्ञादित्वात् (५-४-३८) अण्।]]
64
=>
[[ड्। ‘चित्रं चरित्रं जगतीतलेऽस्य श्लाघयामास नरेषु को वा। यत् स्वयं पाण्डुरपि स्वकेन गुणेन रक्तानकरोत् समस्तान्।।’ चम्पूभारते १-१३।]]
65
=>
[[५। ‘दॄसनिजनिचरि--’ [द। उ। १-८८]
66
=>
[[६। ‘भॄमृशीतॄचरि--’ [द। उ। १-९२]
67
=>
(३-४-७४)
68
=>
[[७। ‘कृञादिभ्यः संज्ञायां वुन्’ [द। उ। ३-४८।]
69
=>
[[८। ‘मनिन्’ [द। उ। ६-७३]
70
=>
(३-२-३)
71
=>
[[९। ‘चरेश्च’ [द। उ। ७-४७]
72
=>
[पृष्ठम्०४८९+ २७]