| YouTube Channel

ब्रह्मचर्य्यं (brahmacaryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मचर्य्यं,
क्ली,
(ब्रह्मणे वेदार्थं चर्य्यं आचरणीयम् ।)आश्रमविशेषः यथा, गारुडे ९४ अष्याये ।“ब्रह्यचर्य्यस्थितो नैकमन्नमद्यादनापदि ।ब्राह्मणः काममश्नीयात् श्राद्धे व्रतमपीडयन्
मधु मांसं तथाश्लीनमित्यादि परिवर्जयेत् ।प्रतिवेदं ब्रह्मचर्य्यं द्वादशाब्दानि पञ्च वा
ग्रहणान्तिकमित्येके केशान्तञ्चैव षोडश
”(ब्रह्मचर्य्ये अष्टाङ्गमैथुनप्रतिषेधः यदुक्तम् ।“स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेवच
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम्
”एतच्च स्त्रीपुरुषयोः साधारणम् पुंसः स्त्रीस्मरणादि शून्यत्वम् स्त्रियाश्च पुरुषस्मरणादि-राहित्यम् अतएवाह मनुः १६०
“मृते भर्त्तरि साध्वी स्त्री ब्रह्मचर्य्ये व्यवस्थिता ।स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः
”“ब्रह्मचर्य्ये व्यवस्थिता अकृतपुरुषान्तरमैथुना
”इति कुल्लूकभट्टः
यमभेदः यथा, पातञ्जले ३० ।“अहिंसासत्यास्तेय ब्रह्मनर्य्यापरिग्रहा यमाः
”“ब्रह्मचर्य्यमुपस्थनियमः ।” वीर्य्यधारणम्बा इतिभाष्यम्
एतत्तु कलियुगे नास्ति यथाहमहानिर्व्वाणतन्त्रे ।“ब्रह्मचर्य्याश्रमो नास्ति वानप्रस्थोऽपि प्रिये ! ।गार्हस्थो भैक्षुकश्चैव आश्रमौ द्वौ कलौ युगे
”)