| YouTube Channel

ब्रह्मकूर्च्चं (brahmakUrccaM)

 
शब्दकल्पद्रुमः
Sanskrit
ब्रह्मकूर्च्चं, श्ली, (ब्रह्मणो ब्राह्मणत्वस्य कूर्च्चामव ।)व्रतविशेषः यथा वृद्धशातातपः ।“रजस्वले तु ये नार्य्यावन्योन्यं स्पृशतो यदि ।सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतःपरम्
”पञ्चगव्यपानं व्रतरुपं तेनोपवासः ब्रह्मकूर्च्च-माह जावालः ।“अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतःपञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः
”तदशक्तौ पुराणैकं दातव्यम् इति प्रायश्चित्त-तत्त्वम्
(ब्रह्मपुराणेऽपि अस्य व्यवस्था यथा ।नरस्तु चतुर्द्दश्यां पूर्णिमायाममावास्यायाम्बापञ्चगव्यं हविष्यान्नं वा भक्षयेत् यस्तु पौर्ण-मासीषु ब्रह्मकूच्चें कुर्य्यात् तस्य सर्व्वपापक्षयोभवेत् यस्तु मासेन द्बिःकुर्य्यात् यथेष्टाङ्गति-माप्नुयात्
)