बौद्धं (bauddhaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritबौद्धं, (बुद्धेन प्रणीतम् । बुद्ध + अण् ।)बुद्धकृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्रकारैः खण्डितं अग्राह्यम् । इति श्रीभागवतम् ।बौद्धशास्त्रसंस्थापनकर्त्ता बृहस्पतिः । यथा, --“प्राह वाचस्पतिं देवः पीडितोऽस्मि रजेः सुतैः ।न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते ! ।राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ! ॥
ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् ।ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥
गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः ।जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥
वेदत्रयीपरिम्रष्टांश्चकार धिषणाधिपः ।वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् ।जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥
”इति मात्स्ये २४ अध्यायः ॥
(बौद्धदर्शनं यथा, सर्व्वदर्शनसंग्रहे । “अत्रबौद्धैरभिधीयते यदभ्यध्यायि अविनाभावोदुर्बोध इति तदसाधीयः तादात्म्यतदुत्पत्तिभ्या-सविनाभावस्य सुज्ञानत्वात् । तदुक्तम्, “कार्य्यकारणभावाद्वा स्वभावाद्वा नियामकात् ।अविनाभावनियमो दर्शनान्तरदर्शनात् ॥
”इति ॥
अन्वयव्यतिरेकावविनाभावनिश्चायकावितिपक्षेसाध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत्भूते भविष्यति वर्त्तमाने अनुपलभ्यमानेऽपिव्यभिचारशङ्काया अनिवारणात् । ननु तथा-विधस्थले तावकेऽपि मते व्यभिचारशङ्कादुष्परिहरेति चेत् मैवं वोचः विनापि कारणंकार्य्यमुत्पद्यतामिमेवंविधायाः शङ्काया व्याघा-तावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्क्येतयस्मिन्नाशङ्क्यमाने व्याघातादयो नावतरेयुःतदुक्तं व्याघातावधिराशङ्केति । तस्मात्तदुत्पत्ति-निश्चयेन अविनाभावो निश्चीयते तदुत्पत्ति-निश्चयश्च कार्य्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भ-पञ्चकनिबन्धनः । कार्य्यस्योत्पत्तेः प्रागनुपलम्भःकारणोपलम्भे सत्युपलम्भः उपलब्धस्य पश्चात्कारणानुपलम्भादनुपलम्भ इति पञ्चकारण्याधूमधूमध्वजयोः कार्य्यकारणभावो निश्चीयतेतथा तादात्म्यंनिश्चयेनाप्यविनाभावो निश्चीयतेयदि शिंशपा वृक्षत्वमतिपतेत् स्वात्मानमेवजह्यादिति विपक्षे बाधकप्रवृत्तेः अप्रवृत्ते तुबाधके भूयः सहभावोपलम्भेऽपि व्यभिचार-शङ्कायाः को निवारयिता । शिंशपावृक्षयोश्चतादात्म्यनिश्चयो वृक्षोऽयं शिंशपेति सामाना-धिकरण्यबलादुपपद्यते । न ह्यत्यन्ताभेदे तत्सम्भवति पर्य्यायत्वेन युगपदपि प्रयोगायोगात्नाप्यत्यन्तभेदे गवाश्वयोरनुपलम्भात् । तस्मात्कार्य्यात्मानौ कारणमात्मानमनुमापयत इतिसिद्धम् ।यदि कश्चित् प्रामाण्यमनुमानस्य नाङ्गीकुर्य्यात्तं प्रति ब्रूयात् अनुमानं प्रमाणं न भवतीत्ये-तावन्मात्रमुच्यते तत्र न किञ्चन साधनमुप-न्यस्यते उपन्यस्यते वा । न प्रथमः एकाकिनीप्रतिज्ञा हि प्रतिज्ञातं न साधयेदिति न्यायात् ।नापि चरमः अनुमानं प्रमाणं न भवतीतिब्रुवाणेन त्वया अशिरस्कवचनस्योपन्यासे मममाता बन्ध्येतिवद्व्याघातापातात् । किञ्च प्रमाण-तदाभासव्यवस्थापनं तत्समानजातीयत्वादितिवदता भवतैव स्वीकृतं स्वभावानुमानम् । पर-गता विप्रतिपत्तिस्तु वचनलिङ्गेनेति ब्रुवताकार्य्यलिङ्गकमनुमानम् अनुपलब्ध्या कञ्चिदर्थंप्रतिषेधयतानुपलब्धिलिङ्गकमनुमानम् । तथा-चोक्तं तथागतैः ।“प्रमाणान्तरसामान्यस्थितिरन्यधियां गतेः ।प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ॥
”इति ॥
पराक्रान्तञ्चात्र सूरिभिरिति ग्रन्थभूयस्त्वभया-दुपरम्यते ।ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थंकथयन्ति । ते च माध्यमिकयोगाचारसौत्रा-न्तिकवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथा-क्रमं सर्व्वशून्यत्व-वाह्यशून्यत्व-बाह्यार्थानुमेयत्व-वाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते । यद्यपि भग-वान् बुद्ध्व एक एव बोधयिता तथापि बोद्ध-व्यानां बुद्धिभेदाच्चातुर्विध्यं यथा गतोऽस्तमर्कइत्युक्ते जारचौरानूचानादयः स्वेष्टानुसारेणा-भिसरणपरस्वहरणसदाचरणादिसमयं बुध्यन्ते ।सर्व्वं क्षणिकं क्षणिकं दुःखं दुःखं स्वलक्षणंस्वलक्षणं शून्यं शून्यमिति भावनाचतुष्टयमुप-दिष्टं द्रष्टव्यम् । तत्र क्षणिकत्वं नीलादिक्षणानांसत्त्वेनानुमातव्यं यत् सत् तत् क्षणिकं यथाजलधरपटलं सन्तश्चामी भावा इति । न चाय-मसिद्धो हेतुः अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्यनीलादिक्षणानां प्रत्यक्षासिद्धत्वात् व्यापक-व्यावृत्त्या व्याप्यव्यावृत्तिन्यायेन व्यापकक्रमा-क्रमव्यावृत्तावक्षणिकात् सत्त्वव्यावृत्तेः सिद्ध-त्वाच्च । तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यांव्याप्तं न च क्रमाक्रमाभ्यामन्यः प्रकारः समस्तिपरस्परविरोधे हि न प्रकारान्तरस्थितिः ।नैकतापि विरुद्धानामुक्तिमात्रविरोधत इतिन्यायेन व्याघातस्योद्भटत्वात् । तौ च क्रमाक्रमौस्थायिनः सकाशाद्व्यावर्त्तमानौ अर्थक्रियामपिव्यावर्त्तयन्तौ क्षणिकत्वपक्ष एव सत्त्वं व्यवस्था-पयत इति सिद्धम् ।नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादितिचेत् तदयुक्तं विकल्पासहत्वात् तथा हि वर्त्त-मानार्थक्रियाकरणकाले अतीतानागतयोःकिमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति नो वा ।आद्ये तयोरनिराकरणप्रसङ्गः समर्थस्य क्षेपा-योगात् यत् यदा यत्करणसमर्थं तत् तदा तत्-करोत्येव यथा सामग्री स्वकार्य्यं समर्थश्चायंभाव इति प्रसङ्गानुमानाच्च । द्वितीयेऽपिकदापि न कुर्य्यात् सामर्थ्यमात्रानुबन्धित्वादर्थ-क्रियाकारित्वस्य यत् यदा यन्न करोति तत् तदातत्रासमर्थं यथा हि शिलाशकलमङ्कुरे न चैषवर्त्तमानार्थक्रियाकरणकाले वृत्तवर्त्तिष्य माणेअर्थक्रिये करोतीति तद्विपर्य्ययाच्च । ननु क्रम-वत्सहकारिलाभात् स्थायिनः अतीतानागतयोःक्रमेण क्रमणमुपपद्यते इति चेत् तत्रेदं भवान्पृष्टो व्याचष्टां सहकारिणः किं भावस्योप-कुर्व्वन्ति न वा न चेत् नापेक्षणीयास्ते अकि-ञ्चित् कुर्व्वतां तेषां तादात्म्यायोगात् । उप-कारकत्वपक्षे सोऽयमुपकारः किं भावाद्भिद्यतेन वा भेदपक्षे आगन्तुकस्यैव तस्य कारणत्वंस्यात् न भावस्याक्षणिकस्य आगन्तुकातिशया-न्वयव्यतिरेकानुविधायित्वात् । कार्य्यस्य । तदु-क्तम् ।“वर्षातपाभ्यां किं व्योम्नश्चर्म्मण्यस्ति तयोःफलम् ।चर्म्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलः ॥
”इति ।अथ भावस्तैः सहकारिभिः सहैव कार्य्यं करो-तीति स्वभाव इति चेत् अङ्ग तर्हि सहकारिणोन जह्यात् प्रत्युत पलायमानानपि गले पाशेनबद्ध्वा कृत्यं कार्य्यं कुर्य्यात् स्वभावस्यानपायात् ।किञ्च सहकारिजन्योऽतिशयः किमतिशया-न्तरमारभते न वा उभयथापि प्रागुक्तदूषण-पाषाणवर्षणप्रसङ्गः । अतिशयान्तरारम्भपक्षेबहुमुखानवस्थादौस्थ्यमपि स्यात् अतिशयेजनयितव्ये सहकार्य्यन्तरापेक्षायां तत्परम्परा-पात इत्येकानवस्थाऽऽस्थेया तथाहि सह-कारिभिः सलिलपवनादिभिः पदार्थसार्थैराधी-यमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम्अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् बीज-ञ्चातिशयमादधानं सहकारिसापेक्षमेवाधत्तेअन्यथा सर्व्वदोपकारापत्तौ अङ्कुरस्यापि सदो-दयः प्रसज्येत । तस्मादतिशयार्थमपेक्षमाणैःसहकारिभिरतिशयान्तरमाधेयं बीजे तस्मिन्न-प्युपकारे पूर्व्वन्यायेन सहकारिसापेक्षस्यबीजस्य जनकत्वे सहकारिसम्पाद्यबीजगताति-शयानवस्था प्रथमा व्यवस्थिता । अथोपकारःकार्य्यार्थमपेक्षमाणोऽपि बीजादिनिरपेक्षं कार्य्यंजनयति तत्सापेक्षो वा । प्रथमे बीजादेरहेतु-त्वमापतेत् । द्बितीये अपेक्ष्यमाणेन बीजादिनाउपकारे अतिशय आधेयः एवं तत्र तत्रा-पीति बीजादिजन्यातिशयनिष्ठातिशयपरम्परा-पात इति द्वितीयानवस्था स्थिरा भवेत् । एव-मपेक्ष्यमाणेनोपकारेण बीजादौ धर्म्मिण्युप-कारान्तरमाधेयमित्युपकाराधेयबीजातिशया-श्रयातिशयपरम्परापात इति तृतीयानवस्थादुरवस्था स्यात् । अथ भावादभिन्नोऽतिशयःसहकारिभिराधीयत इत्यभ्युपगम्यते तहिप्राचीनो भावोऽनतिशयात्मा निवृत्तः अन्यश्चा-तिशयात्मा कुर्व्वद्रूपादिपदवेदनीया जायत इतिफलितं ममापि मनोरथद्रुमेण ।तस्मादक्षणिकस्यार्थक्रिया दुर्घटा नाप्यक्रमेणघटते विकल्पासहत्वात् । तथाहि युगपत-सकलकार्य्यकरणसमर्थः स भावस्तदुत्तरकालमनु-वर्त्तते न वा । प्रथमे तत्कालवत् कालान्तरेऽप्रितावत् कार्य्यकारणमापतेत् । द्बितीये स्थायि-त्ववृत्त्याशा मूषिकभक्षितबीजादावङ्कुरादि-जननप्रार्थनामनुहरेत् । यद् विरुद्धधर्म्माध्यस्तंतन्नाना यथा शीतोष्णे । विरुद्धधर्म्माध्यस्त-श्चायमिति जलधरे प्रतिबन्धसिद्धिः । न चाय-मसिद्धो हेतुः स्थायिनि कालभेदेन सामर्थ्यासा-मर्थ्ययोः प्रसङ्गतद्विपर्य्ययसिद्धत्वात्तत्रासामथ्य-साधकौ प्रसङ्गतद्विपर्य्ययौ प्रागुक्तौ सामर्थ्य-साधकावभिधीयेते यद्यदा यज्जननासमर्थंतत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम्असमर्थश्चायं वर्त्तमानार्थक्रियाकरणकालेअतीतानागतयोरथक्रिययोरिति प्रसङ्गः यद्-यदा यत् करोति तत्तदा तत्र समर्थं यथा सामग्रीस्वकार्य्ये करोति चायमतीतानागतकाले तत्-कालवर्त्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययःविपर्य्ययः । तस्माद्विपक्षे क्रमयौगपद्यव्यावृत्त्याव्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्ग-तद्विपर्य्ययबलात् ग्रहीतान्वयव्याप्तिकं सत्त्वंक्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम् ।तदुक्तं ज्ञानश्रिया ।“यत् सत्तत् क्षणिकं यथा जलधरः सन्तश्चभावा अमीसत्ताशक्तिरिहार्थकर्म्मणि मितेः सिद्धेषु सिद्धान सा ।नाप्येकैव विधान्यथा परकृतेनापि क्रियादिर्भवेत् ।द्वेधापि क्षणभङ्गसङ्गतिरतः साध्ये च विश्रा-म्यति ॥
” इति ॥
न च कणभक्षाक्षचरणादिपक्षकक्षीकारेणसत्तासामान्ययोगित्वमेव सत्वमिति मन्तव्यंसामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न चतत्र स्वरूपसत्तानिबन्धनः सद्व्यवहारः प्रयो-जकगौरवापत्तेः अनुगतत्वाननुगतत्वविकल्प-पराहतेश्च सर्षपमहीधरादिषु विलक्षणेषुक्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद्भूतकणेषुगुणवच्चाप्रतिभासनाच्च । किञ्च सामान्यं सर्व्व-गतं स्वाश्रयसर्व्वगतं वा प्रथमे सर्व्ववस्तुसङ्कर-प्रसङ्गः अपसिद्ध्वान्तापत्तिश्च यतः प्रोक्तं प्रशस्त-पादेन स्वविषयसर्व्वगतमिति । किञ्च विद्यमानेघटे वर्त्तमानं सामान्यमन्यत्र जायमानेनसम्बध्यमानं तस्मादागच्छत् सम्बध्यते अनाग-च्छद्वा आद्ये द्रव्यत्वापत्तिः द्वितीये सम्बन्धानुप-पत्तिः । किञ्च विनष्टे घटे सामान्यमवतिष्ठतेविनश्यति स्थानान्तरं गच्छति वा प्रथमे निरा-धारत्वापत्तिः द्वितीये नित्यत्ववाचो युक्त्ययुक्तिःष्टतीये द्रव्यत्वप्रसक्तिः इत्यादि दूषणग्रहग्रस्त-त्वात् सामान्यमप्रामाणिकम् । तदुक्तम् ।“अन्यत्र वर्त्तमानस्य ततोऽन्यस्थानजन्मनि ।तस्मादचलतः स्थानाद्वृत्तिरित्यतियुक्तता ॥
यत्रासौ वर्त्तते भावस्तेन सम्बध्यते न तु ।तद्देशिनञ्च व्याप्नोति किमप्येतन्महाद्भुतम् ॥
न याति न च तत्रासीदस्ति पश्चान्नचांशवत् ।जहाति पूर्व्वं नाधारमहो व्यसनसन्ततिः ॥
”इति ॥
अनुवृत्तप्रत्ययः किमालम्बन इति चेत् अङ्गअन्यापोहालम्बन एवेति सन्तोष्टव्यमायुष्मतेतिअलमतिप्रसङ्गेन ।सर्व्वस्य संसारस्य दुःखात्मकत्वं सर्व्वतीर्थकर-सम्मतम् अन्यथा तन्निविवृत्सूनां तेषां तन्निवृत्त्यु-पाये प्रवृत्त्यनुपपत्तेः । तस्मात् सर्व्वं दुःखंदुःखमिति भावनीयम् । ननु किंवदिति पृष्टेदृष्टान्तः कथनीय इति चेन्मैवं स्वलक्षणानांक्षणानां क्षणिकतया सालक्षण्याभावात् नैतेनसदृशमपरमिति वक्तुमशक्यत्वात् । ततः स्वल-क्षणं स्वलक्षणमिति भावनीयम् एवं शून्यंशून्यमित्यपि भावनीयं स्वप्ने जागरणे च नमया दृष्टमिदं रजतादीति विशिष्टनिषेधस्यो-पलम्भात् । यदि दृष्टं सत् तदा तद्विशिष्टस्यदर्शनस्येदन्ताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्यरजतत्वादेस्तत्सम्बन्धस्य च समवायादेः सत्त्वंस्यात् न चैतदिष्टं कस्यचिद्वादिनः । न चार्द्धजरतीयमुचितं न हि कुक्कुट्या एको भागःपाकाय अपरो भागः प्रसवाय कल्प्यतामितिकल्प्यते । तस्मादध्यस्ताधिष्ठानतत्सम्बन्धदर्शन-द्रष्टॄणां मध्ये एकस्यानेकस्य वा असत्त्वे निषेध-विषयत्वेन सर्व्वस्यासत्त्वं बलादापतेदिति भग-वतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थम-चीकथन् भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्य-भिधानमुखेन स्थायित्वानुकूलवेदनीयत्वानुगत-सर्व्वसत्यत्वभ्रमव्यावर्त्तनेन सर्व्वशून्यतायामेव पर्य्यवसानम् । अतस्तत्त्वं सदसदुभयानुभयात्मक-चतुष्कोणविनिर्मुक्तं शून्यमेव तथाहि यदिघटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैय-र्थ्यम् । असत्त्वं स्वभाव इति पक्षे प्राचीन एवदोषः प्रादुःस्यात् । यथोक्तम् ।“न सतः कारणापेक्षा व्योमादेरिव युज्यते ।कार्य्यस्यासम्भवो हेतुः खपुष्यादेरिवासत ॥
”इति ॥
विरोधादितरौ पक्षावनुपपन्नौ तदुक्तं भगवताअलङ्कारावतारे“बुद्ध्या विविच्यमानानां स्वभावो नावधार्य्यते ।अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥
”इति ॥
“इदं वस्तुवलायातं यद्वदन्ति विपश्चितः ।यथा यथार्थाश्चित्यन्ते विशीर्य्यंन्ते तथा तथा ॥
”इति च ॥
न क्वचिदपि पक्षे व्यवतिष्टत इत्यर्थः । दृष्टार्थ-व्यवहारश्च न स्वप्नव्यवहारवत् संवृत्या सङ्ग-च्छते । अत एवोक्तम्“परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ।कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पना ॥
”इति ॥
तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौपरनिर्व्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्थाःनास्माकमुपदेश्यं किञ्चिदस्तीति । शिष्यैस्ताब-द्योगश्चाचारश्चेति द्वयं करणीयम् । तत्राप्राप्त-स्यार्थस्य प्राप्तये पर्य्यनुयोगो योगः गुरूक्त-स्यार्थस्याङ्गीकरणमाचारः गुरूक्तस्याङ्गीकर-णादुत्तमाः पर्य्यनुयोगस्याकरणादधमाश्च अत-स्तेषां माध्यमिका इति प्रसिद्धिः । गुरूक्त-भावनाचतुष्टयं वाह्यार्थस्य शून्यत्वं चाङ्गीकृत्या-न्तरस्य शून्यत्वञ्चाङ्गीकृतं कथमिति पर्य्यनु-योगस्य करणात् केषाञ्चिद् योगाचारप्रथा ।एषा हि तेषां परिभाषा स्वयं वेदनं तावदङ्गी-कार्य्यम् अन्यथा जगदान्ध्यं प्रसज्येत । तत्कीर्त्तितं धर्म्मकीर्त्तिना ।“अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यतीति ॥
”वाह्यं ग्राह्यं नोपपद्यत एव विकल्पानुपपत्तेः ।अर्थो ज्ञानग्राह्यो भावादुत्पन्नो भवति अनुत्पन्नोवा न पूर्व्वः उत्पन्नस्य स्थित्यभावात् नापरःअनुत्पन्नस्यासत्त्वात् । अथ मन्येथाः अतीतएवार्थो ज्ञानग्राह्यः तज्जनकत्वादिति तदपिबालभाषितं वर्त्तमानतावभासविरोधात् इन्द्रि-यादेरपि ग्राह्यत्वप्रसङ्गाच्च । किञ्च ग्राह्यः किंपरमाणुरूपोऽर्थः अवयविरूपो वा । न चरमःकृत्स्नैकदेशविकल्पादिना तन्निराकरणात् । नप्रथमः अतीन्द्रियत्वात् षट्केन युगपद्योगस्यबाधकत्वाच्च । यथोक्तम्“षट्केन युगपद्योगात् परमाणोः षडंशता ।तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥
”इति ॥
तस्मात् स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिकाबुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाश-वदिति सिद्धम् । तदुक्तम्“नान्योऽनुभाव्यो बुद्ध्यास्ति तस्या नानुभवोऽ-परः ।ग्राह्यग्राहकवैधुर्य्यात् स्वयं सैव प्रकाशते ॥
”इति ॥
ग्राह्यग्राहकयोरभेदश्चानुमातव्यः यद्वेद्यते येनवेदनेन तत्ततो न भिद्यते यथा ज्ञानेनात्मावेद्यन्ते तैश्च नीलादयः । भेदे हि सत्यधुनाअनेनार्थस्य सम्बन्धित्वं न स्यात् तादात्म्यस्यनियमहेतोरभावात् तदुत्पत्तेरनियामकत्वात्यश्चायं ग्राह्यग्राहकसंवत्तीनां पृथगवभासः सएकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः अत्रा-प्यनादिरविच्छिन्नप्रवाहाभेदवासनैव निमित्तम् ।यथोक्तम् ।“सहोपलम्भनियमादभेदो नीलतद्धियोः ।भेदश्च भ्रान्ति विज्ञानैर्दृ श्येतेन्दाविवाद्वयः ॥
” इति ॥
“अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
”इति च ॥
न च रसवीर्य्यविपाकादि समानमाशामोदको-पार्जितमोदकानां स्यादिति वेदितव्यं वस्तुतोवेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरि-ज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूप-वत्तया तिमिराद्युपहताक्ष्णं केशेन्द्रनाडी-ज्ञानभेदवदनाद्युपप्लववासनासामर्थ्याद्व्यवस्थोप-पत्तेः पर्य्यनुयोगायोगात् । यथोक्तम्“अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते ।विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् ।यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणा ॥
”इति ॥
तस्माद्बुद्धिरेवानादिवासनावशादनेकाकाराव-भासत इति सिद्धम् । ततश्च प्रागुक्तभावना-प्रचयबलान्निखिलवासनोच्छेदविगलितविविध-विषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदयइति । अन्ये तु मन्यन्ते यथोक्तं वाह्यं वस्तुजातंनास्तीति तदयुक्तं प्रमाणाभावात् । न चसहोपलम्भनियमः प्रमाणमिति वक्तव्यं वेद्यवेद-कयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजक-त्वेन सन्दिग्धविपक्षव्यावृत्तिकत्वात् । ननु भेदेसहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्नज्ञानस्यान्तर्मुखतया च भेदेन प्रतिभासमान-तया एकदेशत्वैककालत्वलक्षणसहत्वनियमा-सम्भवाच्च नीलाद्यर्थस्य ज्ञानाकारत्वे अहमितिप्रतिभासः स्यात् नत्विदमिति प्रतिपत्तिः प्रत्ययादव्यतिरेकात् । अथोच्यते ज्ञानस्वरूपोऽपिनीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासतइति न च तत्राहमुल्लेख इति । तथोक्तम् ।“परिच्छेदान्तराद्योऽयं भागो बहिरिव स्थितः ।ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः ॥
”इति ॥
“यदन्तर्ज्ञेयतत्त्वं तद्वहिर्वदवभासते ॥
”इति च ॥
तदयुक्तं वाह्यार्थाभावे तदुत्पत्तिरहिततयाबहिर्वदित्युपमानोक्तेरयुक्तेर्न हि वसुमित्रोबन्ध्यापुत्त्रवदवभासत इति प्रेक्षावानाचक्षीतभेदप्रतिभासस्य भ्रान्तत्वे अभेदप्रतिभासस्यप्रामाण्यं तत्प्रामाण्ये भेदप्रतिभासस्य भ्रान्तत्व-मिति परस्पराश्रयप्रसङ्गाच्च अविसंवादान्नील-तादिकमेव संविदाना वाह्यमेवोपाददते जगत्यु-पेक्षन्तेऽवान्तरमिति व्यवस्थादर्शनाच्च । एव-ञ्चायमभेदसाधको हेतुर्गोमयपायसीयन्यायवदा-भासतां भजेत अतोबहिर्वदिति वदता वाह्यंग्राह्यमेवेति भावनीयमिति भवदीय एव बाणोभवन्तं प्रहरेत् ।ननु ज्ञानाभिन्नकालस्यार्थस्य वाह्यत्वमनुपपन्न-मिति चेत् तदनुपपन्नम् इन्द्रियसन्निकृष्टस्यविषयस्योत्पाद्ये ज्ञाने स्वाकारसमर्पकतयासमर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेःअतएव पर्य्यनुयोगपरिहारौ समग्राहिषाताम् ।“भिन्नकालं कथं ग्राह्यमिति चेत् ग्राह्यतां विदुः ।हेतुत्वमेव च व्यक्तेर्ज्ञानाकारार्पणक्षमम् ॥
”इति ॥
तथाच यथा पुष्ट्या भोजनमनुमीयते यथा चभाषया देशः यथा वा सम्भ्रमेण स्नेहः तथाज्ञानाकारेण ज्ञेयमनुमेयम् । तदुक्तम्“अर्द्धेन घटयत्येनां न हि मुक्त्वार्द्धरूपत्राम् ।तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता ॥
”इति ॥
न हि वित्तिसत्तैव तद्बेदना युक्ता तस्याःसर्व्वत्राविशेषात् तान्तु सारूप्यमाविशत् सरूप-यितुं घटयेदिति च । तथाच बाह्यार्थसद्भावेप्रयोगः ये यस्मिन् सत्यपि कादाचित्काः तेसर्व्वे तदतिरिक्तसापेक्षाः यथा अविवक्षत्यजि-गमिषति मयि वचनगमनप्रतिभासा विवक्षु-जिगमिषुपुरुषान्तरसन्तानसापेक्षाः तथाचविवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालय-विज्ञाने कदाचिदेव नीलाद्युल्लेखना इति ।तत्रालयविज्ञानं नामाहमास्पदं विज्ञानंनीलाद्युल्लेखि च प्रवृत्तिविज्ञानम् । यथोक्तम्“तत् स्यादालयविज्ञानं यद्भवेदहमास्पदम् ।तत् स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥
”इति ॥
तस्मादालयविज्ञानसन्तानातिरिक्तः कादाचित्कःप्रवृत्तिविज्ञानहेतुर्वाह्योऽर्थो ग्राह्य एव नवासनापरिपाकप्रत्ययः कादाचित्कत्वात् कदा-चिदुत्पाद इति वेदितव्यम् । विज्ञानवादिनयेहि वासनानामेकसन्तानवर्त्तिनामालयविज्ञा-नानां तत्तत्प्रवृत्तिजननशक्तिः तस्याश्च स्वका-र्य्योत्पादं प्रत्याभिसुख्यं परिपाकः तस्य चप्रत्ययः कारणं स्वसन्तानवर्त्तिपूर्व्वक्षणः कक्षी-क्रियते सन्तानान्तरनिबन्धनत्वानङ्गीकारात् ।ततश्च प्रवृत्तिज्ञानजननालयविज्ञानवर्त्तिवासना-परिपाकं प्रति सर्व्वेऽप्यालयविज्ञानवर्त्तिनःक्षणाः समर्था एवेति वक्तव्यं न चेदेकोऽपि नसमर्थः स्यादालयविज्ञानसन्तानवर्त्तित्वाविशेषात् । सर्व्वे समर्था इति पक्षे कार्य्यक्षेपानुप-पत्तिः ततश्च कादाचित्कत्वनिर्व्वाहाय शब्द-स्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपिप्रत्ययाश्चतुरः प्रत्ययान् प्रतीत्योत्पद्यन्ते इतिचतुरेणानिच्छताप्यच्छमतिना स्वानुभवमना-च्छाद्य परिच्छेत्तव्यम् । ते चत्वारः प्रत्ययाःप्रसिद्धाः आलम्बनसमनन्तरसहकार्य्यधिपति-रूपाः तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासस्यचित्तस्य नीलालम्बनप्रत्ययात् नीलाकारताभवति समनन्तरप्रत्ययात् प्राचीनज्ञानाद्बोध-रूपता सहकारिप्रत्ययादालोकाच्चक्षुषोऽधि-पतिषत्ययाद्विषयग्रहणप्रतिनियमः विदितस्यज्ञानस्य रसादिसाधारण्यप्राप्तेर्नियामकं चक्षुर-धिपतिर्भवितुमर्हति लोके नियामकस्याधिप-तित्वोपलम्भात् । एवं चित्तचेत्यात्मकानां सुखा-दीनां चत्वारि कारणानि द्रष्टव्यानि एवं चित्त-चैत्यात्मकस्कन्धः पञ्चविधः रूपविज्ञानवेदना-संज्ञा संस्कारसंज्ञकः । तत्र रूप्यन्त एभिर्विषयाइति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रि-याणि रूपस्कन्धः । आलयविज्ञानप्रवृत्तिविज्ञान-प्रवाहो विज्ञानस्कन्धः । प्रागुक्तस्कन्धद्बयसम्बन्ध-जन्यः सुखदुः खादिप्रत्ययप्रवाहो वेदनास्कन्धः ।गौरित्यादिशब्दोल्लेखिसविज्ञानप्रवाहः संज्ञा-स्कन्धः । वेदनास्कन्धनिबन्धना रागद्वेषादयःक्लेशा उपक्लेशाश्च मदमानादयो धर्म्माधर्म्मौ चसंस्कारस्कन्धः ।तदिदं सर्व्वं दुःखं दुःखायतनं दुःखसाधन-ञ्चेति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानंसम्पादयेत् । अत एवोक्तं दुःखसमुदायनिरोध-मार्गाश्चत्वारः आर्य्यस्य बुद्धाभिमतानि तत्त्वानि ।तत्र दुःखं प्रसिद्धं ससुदायो दुःखकारणं तद्द्वि-विधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च । तत्रप्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम् इदं कार्य्यंये अन्ये हेतवः प्रत्ययन्ति गच्छन्ति तेषामय-मानानां हेतूनां भावः प्रत्ययत्वं कारणसमवायःतन्मात्रस्य फलं न चेतनस्य कस्यचिदितिसूत्रार्थः यथा बीजहेतुरङ्कुरो धातूनां षण्णांसमवायाज्जायते । तत्र पृथिवी धातुरङ्कुरस्यकाठिन्यं गन्धञ्च जनयति अब्धातुः स्नेहं रसञ्चजनयति तेजोधातू रूपमौष्ण्यञ्च वायुधातुःस्पर्शनं चलनञ्च आकाशधातुरवकाशं शब्दञ्चऋतुधातुर्यथायोगं पृथिव्यादिकम् । हेतूपनिव-न्धनस्य च संग्राहकं सूत्रम् तत्पादाद्वा तथा-गतानामनुत्पादाद्बा स्थितैवैषां धर्म्माणां धर्म्मताधर्म्मस्थितिता धर्म्मनियामकता च प्रतीत्यसमुत्पादानुलोमतेति । तथागतानां बुद्धानांमते धर्म्माणां कार्य्यकारणरूपाणां या धर्म्मताकार्य्यकारणभावरूपा एषोत्पादादनुत्पादाद्बास्थिता यस्मिन् सति यदुत्पद्यते तत्तस्य कारणस्यकार्य्यमिति धर्म्मतेत्यस्य विवरणं धर्म्मस्य कार्य्यस्यकारणानतिकमेण स्थितिः स्वार्थिकस्तल्प्रत्ययःधर्म्मस्य कारणस्य कार्य्यं प्रति नियामकता ।नन्वयं कार्य्यकारणभावश्चेतनमन्तरेण न सम्भव-तीति अत उक्तं कारणे सति तत्प्रतीत्य प्राप्यसमुत्पादे अनुलोमता अनुसारिता या सैवधर्म्मता उत्पादादनुत्पादाद्बा धर्म्माणां स्थितान चात्र कश्चिश्चेतनोऽधिष्ठातोपलभ्यत इतिसूत्रार्थः । यथा प्रतीत्य समुत्पादस्य हेतूप-निबन्धः बीजादङ्कुरोऽङ्कुरात् काण्डं काण्डान्नालोनालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलं न चात्रवाह्ये समुदाये कारणं बीजादि कार्य्यमङ्कुरादिवा चेतीयते अहमङ्कुरं निर्वर्त्तयामि अहं बीजेननिर्वर्त्तित इति । एवमाध्यात्मिकेष्वपि कारण-द्वयमवगन्तव्यम् । पुरःस्थिते प्रमेयाब्धौ ग्रन्थ-विस्तरभीरुभिरुपरम्यते । तदुभयनिरोधः तद-नन्तरं विमलज्ञानोदयो वा मुक्तिः तन्निरोधोपायो मागः स च तत्त्वज्ञानं तच्च प्राचीन-भावनाबलाद्भवतीति परमं रहस्यं सूत्रस्यान्तंपृच्छतां कथितं भवन्त्रश्च सूत्रस्यान्तं पृष्टवन्तःसौत्रान्तिका भवन्त्विति भगवताभिहिततयासौत्रान्तिकसंज्ञा सञ्जातेति । केचन बौद्धावाह्येषु गन्धादिषु आन्तरेषु रूपादिस्कन्धेषुसत्स्वपि तत्रानास्थामुत्पादयितुं सर्व्वं शून्य-मिति प्राथमिकान् विनेयानचीकथत् भगवान्द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान् विज्ञान-मेवैकं सदिति तृतीयानुभवं सत्यमित्यास्थितान्विज्ञेयमनुमेयमिति सेयं विरुद्धा भाषेति वर्ण-यन्तो वैभाषिकाख्यया ख्याताः । एषा हितेषां परिभाषा समुन्मिषति विज्ञेयानुमेयत्ववादेप्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन व्याप्ति-संयेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तेःसकललोकानुभवविरोधश्च । ततश्चार्थो द्विविधःग्राह्योऽध्यवसेयश्च तत्र ग्रहणं निर्विकल्पकरूपंप्रमाणं कल्पनापोढत्वात् अध्यवसायः सविक-ल्पकरूपोऽप्रमाणं कल्पनाज्ञानत्वात् । तदुक्तम् ।“कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् ।विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः ॥
”इति ॥
“ग्राह्यं वस्तुप्रमाणं हि ग्रहणं यदितोऽन्यथा ।न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥
”इति च ॥
ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्त-स्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेन्नतद्भद्रं मणिप्रभाविषयमणिविकल्पन्यायेन पार-पम्पर्य्येणार्थप्रतिलम्भसम्मवेन तदुपपत्तेः । अव-शिष्टं सौत्रान्तिकप्रस्तावे प्रपञ्चितमिति नेहप्रतन्यते । न च विनेयाशयानुरोधेनोपदेशभेदःसाम्प्रदायिको न भवतीति भणितव्यं यतो भणितंबोधचित्तविवरणे“देशना लोकनाथानां सत्त्वाशयवशानुगाः ।भिद्यन्ते बहुधा लोके उपायैर्बहुभिः किल ॥
गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः ।भिन्ना हि देशना भिन्ना शून्यताऽद्बयलक्षणा ॥
”इति ॥
द्वादशायतनपूजा श्रेयस्करीति वौद्धनये प्रसि-द्धम् ।“अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै ।परितः पूजनीयानि किमन्यैरिह पूजितैः ॥
ज्ञानेन्द्रियाणि पञ्चैव तथा कर्म्मेन्द्रियाणि च ।मनो वुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥
”इति ॥
विवेकबिलासे बौद्धमतमित्थमभ्यधायि ।“बौद्धानां सुगतो देवो विश्वञ्च क्षणभङ्गुरम् ।आर्य्यसत्त्वाख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥
दुःखमायतनञ्चैव ततः समुदयो मतः ।मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ॥
दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्त्तिताः ।विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ॥
पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् ।धर्म्मायतनमेतानि द्वादशायतनानि तु ॥
रागादीनां गणोऽयं स्यात् समुदेति नृणां हृदि ।आत्मात्मीयस्वभावाख्यः स स्यात् समुदयः पुनः ॥
क्षणिकाः सर्व्वसंस्कारा इति या वासनास्थिरा ।स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥
प्रत्यक्षमनुमानञ्च प्रमाणद्वितयं तथा ।चतुःप्रस्थानिका बौद्धाः ख्याता वैभाषिकादयः ॥
अर्थो ज्ञानान्वितो वैभाषिकेण बहु मन्यते ।सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः ॥
आकारसहिता बुद्धिर्योगाचारस्य सम्मता ।केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥
रागादिज्ञानसन्तानवासनाच्छेदसम्भवा ।चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्त्तिता ॥
कृत्तिः कमण्डलुर्मौण्ड्यं चीरं पूर्व्वाह्णभोजनम् ।सङ्घो रक्ताम्बरत्वञ्च शिश्रिये बौद्धभिक्षुभिः ॥
”इति ॥
इति सर्व्वदर्शनसंग्रहे बौद्धदर्शनम् ॥
)(बुद्धेरिदमिति व्युत्पत्त्या वाच्यलिङ्गः । बुद्ध-सम्बन्धि वस्तु ॥
)
वौ(बौ)द्धं, (बुद्धेन कृतम् । वुद्ध + अण् ।) वुद्ध-कृतनिरीश्वरशास्त्रम् । तत् सर्व्वैः शास्त्रकारैःखण्डितं अतएवाग्राह्यम् । जिनधर्म्मः । यथा, “ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् ।ग्रहशान्तिविधानेन पौष्टिकेन च कर्म्मणा ॥
गत्वाथ मोहयामास राजपुत्त्रान् बृहस्पतिः ।जिनधर्म्मं समास्थाय वेदवाह्यं स वेदवित् ॥
वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः ।वेदवाह्यान् परिज्ञाय हेतुवादसमन्वितान् ।जघान शक्रो वज्रेण सर्व्वधर्म्मबहिष्कृतान् ॥
”इति मात्स्ये सोमवंशानुकीर्त्तनं नाम २४ अः ॥
बुद्धसम्बन्धिनि, त्रि ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
