| YouTube Channel

बोबुधकः-धिका (bobudhakaH-dhikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बुध अवगमने”@} 2 3 ‘तत्त्वं बुध्यते’ इति धर्मकीर्त्ति प्रयोगात्, ‘क्रमादमुं नारद इत्यबोधि सः।।’ 4 इति माघप्रयोगाच्च सकर्मकत्वमप्यस्यास्तीति ज्ञायते।
परं तु ‘अत्र बुधादीनां चतुर्णाम्, ‘अणावकर्मकात्--’ 5 इत्येव सिद्धे, वचनमिदम् अचित्तवत्कर्तृकार्थम्।’ इति प्रतिपादयतो वृत्तिकारादेरेतदनभिमत- मिति ज्ञायते।
मा।
धा।
वृत्तौ तु ‘अयमर्थभेदेन सकर्मकोऽकर्मकश्च।’ इति समाहितम्।]] ‘बुध्यते बोधतीत्येवं बुधेरवगमे द्वयम्।’ 6 इति देवः।
7 बोधकः-धिका, बोधकः-धिका, 8 बुभुत्सकः-त्सिका, बोबुधकः-धिका
इत्यादीनि सर्वाण्यपि रूपाणि दैवादिकक्षुध्यतिवत् 9 ज्ञेयानि।
10 बुद्धः, 11 बुधानः, 12 बुबुधानः।
प्रासङ्गिक्यः
01
=>
(११२२)
02
=>
(४-दिवादिः-११७२। अक। अनि। आत्म।)
03
=>
[[[अ]
04
=>
(शि। व। १। ३)
05
=>
(१-३-८८)
06
=>
(श्लो। ११९)
07
=>
[पृष्ठम्०९२८+ २९]
08
=>
[[१। सन्नन्ताण्ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे, भष्भावे चर्त्वे रूपम्।]]
09
=>
(३१५)
10
=>
[[२। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायाम् क्तप्रत्ययः। बुध्यतीति बुद्धः = सिद्धार्थः।]]
11
=>
[[३। ‘युधिबुधिदृशेः किच्च’ (द। उ। ५-३३) इत्यानच्प्रत्ययः, किच्च। कित्त्वान्न गुणः। बुधानः = आचार्यः।]]
12
=>
[[४। ‘मुचिबुधिभ्यां सन्वच्च’ इति मा। धा। वृत्त्युपात्तेन औणादिकसूत्रेण आनच्प्रत्यये, तस्य सन्वद्भावात् द्वित्वे, कित्त्वे रूपम्। बुबुधानः = बोद्धुमिच्छुः।]]
1 {@“बुधिर् बोधने”@} 2 ‘बुधिरो बोधनार्थस्य बोधते बोधतीत्यपि।।’ 3 इति देवः।
चान्द्राः, क्षीरस्वामी ‘बुध--’ इत्यनिरितं पठन्ति।
बोधकः-धिका, बोधकः-धिका, बुबोधिषकः-बुबुधिषकः-षिका, बोबुधकः-धिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोलतिवत् 4 ज्ञेयानि।
5 बोधयमानः, 6 विबोध्यः, 7 तत्त्वबोधः- 8 तत्त्वबोधिनी।
प्रासङ्गिक्यः
01
=>
(११२३)
02
=>
(१-भ्वादिः-८७५। सक। सेट्। उभ।)
03
=>
(श्लो। ११९)
04
=>
(२३१)
05
=>
[[५। ‘बुधयुध--’ (१-३-८६) इत्यत्र, अकर्मकैः युध-नश-जनैः साहचर्यात् तादृशस्या- कर्मकस्यैव ग्रहणमिति, सकर्मकोऽयं तत्र विवक्षितः। तेनास्मात् ‘णिचश्च’ (१-३-७४) इत्यस्य प्रवृत्त्या यथासम्भवं ण्यन्तात् शता शानच्च भवतीति विशेषः।]]
06
=>
[[आ। ‘या नेदितोर्वीपरिशर्धिवीचीविमृद्धवृक्षादिविबोध्यशैत्या।।’ धा। का। २। २६।]]
07
=>
[[६। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपमेवम्।]]
08
=>
[[७। ताच्छील्ये णिनिप्रत्यये रूपमेवम्। स्त्रियां ङीप्।]]