| YouTube Channel

बोबुदकः-दिका (bobudakaH-dikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“उ बुन्दिर् निशामने”@} 2 ‘उ बुन्धिर् 3 --’ इति नन्दी।
‘उ बेदिर्--’ इत्यन्ये।’ इति क्षीरस्वामी।
‘उ चुन्दिर्--’ इति काशकृत्स्नचन्द्रौ पेठतुरिति क्षीरतरङ्गिणीटीका।
4 बुन्दकः-न्दिका, बुन्दकः-न्दिका, बुबुन्दिषकः-षिका, बोबुदकः-दिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतुम्पतिवत् 5 ज्ञेयानि।
6 बुन्दमानः-बुन्दिष्यमाणः, 7 बुन्नम्-बुन्नः-बुन्नवान्, 8 बुन्दित्वा-बुत्त्वा, 9 बुद्बुदः इत्यादीनि रूपाण्यस्य धातोः विशेषेण सम्भवन्तीति विशेषः।
10 प्रबुन्द्यः।
प्रासङ्गिक्यः
01
=>
(११२४)
02
=>
(१-भ्वादिः-८७६। सक। सेट्। उभ।)
03
=>
[[८। “… आचार्यप्रवृत्तिर्ज्ञापयति-- ‘नैवंजातीयकानामिदिद्विधिर्भवति’ इति
\n\n यदयमि- रितः कांश्चिन्नुमनुषक्तान् पठति-- ‘उ बुन्दिर् निशामने’…।” इति भाष्य- (१-३-७) वचनप्रामाण्यात् धकारपाठोऽप्रामाणिक इति ज्ञेयम्। अनेनैव भाष्य- वाक्येन कुत्रचिद्धातुषु अर्थनिर्देशः पाणिनीय एवेत्यपि बोध्यम्।]]
04
=>
[पृष्ठम्०९२९+ २६]
05
=>
(७४२)
06
=>
[[१। अस्य धातोरुभयपदित्वात् शानजपि भवतीति विशेषः।]]
07
=>
[[२। उदित्त्वेन क्त्त्वायामिड्विकल्पनात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठा- यामिण्निषेधे, उपधानकारलोपे, निष्ठातकार-धातुदकारयोर्नत्वे रूपमेवम्।]]
08
=>
[[३। ‘उदितो वा’ (७-२-५६) इति क्त्वायामिड्विकल्पः। इट्पक्षे ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधादुपधानकारलोपो न। इडभावपक्षे तु नकारलोपे, धातुदकारस्य चर्त्वे बुत्त्वा इति द्वितकारकं रूपमिति ज्ञेयम्।]]
09
=>
[[४। घञर्थे कप्रत्यये, ‘कृञादीनां के द्वे भवतः’ (वा। ६-१-१२) इति द्विर्वचने, पृषोदरादित्वात् (६-३-१०९) हलादिशेषाभावे रूपमेवम्।]]
10
=>
[[आ। ‘प्रबुन्द्यवेणीजववेनमाना खातान्तिका चीवरिभिर्निषादैः।’ धा। का। २। २७।]]