| YouTube Channel

बोधनं (bodhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
बोधनं,
क्ली,
(बुध् + णिच् + ल्युट् ।) गन्धदी-पनम् इति मेदिनी ने, ९९
वेदनम् ।विज्ञापनम् इति बुधधात्वर्थदर्शनात्
(उद्दी-पनम् यथा माघे ३४ ।“समयेन तेन चिरसुप्तमनो-भवबोधनं समबोधिषत
”“मनोभवस्य कामस्य बोधनं उद्दीपनं यस्मिन् ।”इति तट्टिकायां मल्लिनाथः ज्ञानम् यथा, रघौ ४९ ।“परिचयं चललक्ष्यनिपातनेभयरुषोश्च तदिङ्गितवोधनम्
”“तेषां चललक्ष्याणां इङ्गितस्य चेष्टितस्यभयादिलिङ्गभूतस्य बोधनं ज्ञानं करोति ।”इति तट्टीकायां मल्लिनाथः
) दुर्गाया बोधनंयथा देवीपुराणे ।“इषे मास्यसिते पक्षे कन्याराशिगते रवौ ।नवम्यां बोधयेद्देवीं क्रीडाकौतुकमङ्गलैः
”अत्र कृष्णादित्वादिषे इत्यपि गौणाश्विनपरम् ।अतएव कालकौमुद्यादिधृतम् यथा, --“कर्किण्यर्के हरौ सुप्ते शक्रध्वजक्रियाश्विने ।तुलायां बोधयेद्देवीं वृश्चिके तु जनार्द्दनम्
”इति
बोधयेदिति शेषः तत्रापि नवमीबोधनंकन्यायामेव तथैव सम्भवात् तेन सिंहार्केतुलार्केऽप्याश्विनत्वेन वाक्यरचनां एवं प्रति-वर्षं कर्त्तव्यत्वादार्द्रादिनक्षत्रालाभेऽपि बोध-नादिकार्य्यम् नक्षत्रयोगस्तु फलातिशयाय ।तथा लिङ्गपुराणम् ।“मूलाभावेऽपि सप्तम्यां केवलायां प्रवेशयेत् ।तथा तिथ्यन्तरेष्वेवमृक्षेषु फलोच्चयः
”यथाह देवलः ।“तिथिनक्षत्रयोर्योगे द्वयोरेवानुपालनम् ।योगाभावे तिथिर्ग्राह्या देव्याः पूजनकर्म्मणि
”कृष्णनवम्यामार्द्रायोगो विधौ मन्त्रे श्रूयते ।तथा लिङ्गपुराणम् ।“कन्यायां कृष्णपक्षे तु पूजयित्वार्द्रभे दिवा ।नवम्यां बोधयेद्देवीं महाविभवविस्तरैः
”चतुर्थपादे गीतवादित्रनिः स्वनैरिति कालिका-पुराणे पाठः ।“इषे मास्यसिते पक्षे नवम्यामार्द्रयोगतः ।श्रीवृक्षे बोधयामि त्वां यावत् पूजां करोम्यहम्
ऐं रावणस्य वधार्थाय रामस्यानुग्रहाय ।अकाले ब्रह्मणा बोधो देव्यास्त्वयि कृतः पुरा
”इति मन्त्रलिङ्गम्
अकाल इति तु रात्रित्वेन दक्षिणायनस्य ।तथाच श्रुतिः तपस्तपस्यौ शैशिरावृतुः मधुश्चमाधवश्च वासन्तिकावृतुः शुक्रश्च शुचिश्चग्रैप्मावृतुः अथैतदुत्तरायणं देवानां दिनंनभाश्च नभस्यश्च वार्षिकावृतुः इषश्च ऊर्जश्चशारदावृतुः सहाश्च सहस्यश्च हैमन्तिकावृतुः ।अथैतद्दक्षिणायनं देवानां रात्रिरिति एवञ्च ।रात्रावेव महामाया ब्रह्मणा बोधिता पुरा ।तथैव नराः कुर्य्युः प्रतिसम्बत्सरं नृपेत्येत-द्बिषयम्
अतएव लिङ्गपुराणकालिकापुरा-णयोर्द्दिवेत्युक्तम् एवञ्च कालिकापुराणे बोधनेरात्रावितिपदं देवतारात्रिपरम् ततश्च पूर्व्वाह्णेनवम्यामार्द्रायुक्तायां बोधनं पूर्व्वाह्णेतरकालएव आर्द्रालाभे दिवेत्यत्र दिवापदात्तत्रापिबोधनं अन्यथा दिवापदं व्यर्थं स्यात् ज्योतिषा-र्णवे व्यक्तमुक्तं वराहेण ।“कन्यादिमीनपर्य्यन्तं यत्र संप्राप्यते शिवः ।तत्र बोधः प्रकर्त्तव्यो देव्या राज्ञां शुभप्रदः
”शिव आर्द्रा एवञ्चोभयदिने पूर्व्वाह्णे नवमी-लाभे परत्रार्द्रालाभे परत्र बोधनं तु युग्मात्पूर्व्वत्र युग्मबाधकपूर्व्वाह्णस्य बाधकनक्षत्रानु-रोधात् दिवा नक्षत्रालाभे तु पूर्व्वाह्ण एवनवम्यां उभयत्र पूर्व्वाह्णलाभे पूर्व्वदिन एवयुग्मात् अत्र केवलनवम्यां बोधनविधेर्नक्षत्र-स्यापि गुणफलत्वाच्च ।“माघेऽथ फाल्गुने वापि भवेद्वै माघसप्तमी ।माकरीति यत्प्रोक्तं तत्प्रायोवृत्तिदर्शनात्
”इति
सौरागमात् माकर्य्यादिवत् आर्द्रायोग इत्यस्यप्रायिकत्वेनाभिधानं प्रतीयते ततश्चार्द्रारहित-बोधने मन्त्रान्तरानुपदेशात् तन्मन्त्रः प्रणव-युक्तत्वेन प्रयुज्यते ।“यन्नयूनञ्चातिरिक्तञ्च यच्छिद्रं यदयज्ञियम् ।यदमेध्यमशुद्धञ्च यातयामञ्च यद्भवेत् ।तदोङ्कारप्रयुक्तेन सर्व्वञ्चाविफलं भवेत्
”इति योगियाज्ञवल्क्यात् षष्ठ्यां बोधनेऽप्येवम्
नवमीबोधनासामर्थ्ये तु षष्ठ्यां सायं बोधनम् ।तथा भविष्ये ।“षष्ठ्यां विल्वतरौ बाधं सायंसन्ध्यासुकारयेत्
”सन्ध्योक्ता वराहेण ।“अर्द्धास्तमयात् सन्ध्या व्यक्तीभूता तारकायावत्
”षष्ठ्यां बोधने तु प्रागुक्त ऐं रावणस्य वधार्था-येति अहमप्याश्विने षष्ठ्यां सायाह्ने बोधयाम्यतइति पठेत् यदा तु पूर्व्वदिने सायं षष्ठीलाभःपरदिने सायं विना षष्ठीलाभः तदा पूर्व्वेद्यु-र्बोधनं परदिने सायमामन्त्रणम् यदा तूभय-दिने सायं षष्ठ्यलाभस्तदा परेऽहनि पूर्व्वाह्णेषष्ठ्यां बोधनम् ।“बोधयेद्विल्वशाखायां षष्ठ्यां देवीं फलेषु ।षष्ठ्यां बोधने तु क्षत्रानुपदेशान्न तदादरः
”इति तिथ्यादितत्त्वम्