| YouTube Channel

बेलकः-लिका (belakaH-likA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बिल भेदने”@} 2 3 ‘बेलति इति शपि, अयं चुरादौ च।’ इति मा।
धा।
वृत्तौ आत्रेय- वाक्योपादानात् भ्वादिष्वपि कश्चन बिलधातुरस्तीति ज्ञायते।
क्षीरस्वामि- प्रमृतिभिरनुपादानादस्माभिर्न लिखितः।]] बेललः--लिका, बेलकः-लिका, बिबेलिषकः-बिबिलिषकः-षिका, बेबिलकः- 4 लिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 5 ज्ञेयानि।
6 बिलम्, 7 बिल्वम्, 8 बिल्मम्।
प्रासङ्गिक्यः
01
=>
(१११५)
02
=>
(६-तुदादिः-१३५९। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
[पृष्ठम्०९२५+ २६]
05
=>
(१९३)
06
=>
[[१। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्यये रूपमेवम्।]]
07
=>
[[२। बाहुलकात् औणादिके वक्प्रत्यये रूपमेवम्। प्रत्ययस्य कित्त्वान्न गुणः।]]
08
=>
[[३। बाहुलकात् औणादिके मक्प्रत्यये रूपमेवम्।]]
1 {@“बिल भेदने”@} 2 “भिल--’ इति कौशिकः।
भेलयति, भेलः, भिल्मम्।” इति क्षीरस्वामी।
‘बिल्मं भिल्मं भांसनमिति वा।’ इति निरुक्ते 3 प्रयोगोपलम्भात् ‘भिल--’ इत्येतस्यापि धातुपाठेषु पाठ उन्नीयते, इति युधिष्ठिरमीमांसक- मतम्।
बेलकः-लिका, बिबेलयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचेतयतिवत् 4 ज्ञेयानि।
बेलयन्-न्ती, बेलयिष्यन्-न्ती-ती, इति शतरि रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१११६)
02
=>
(१०-चुरादिः-१६०६। सक। सेट्। उभ।)
03
=>
(१-२०)
04
=>
(५२२)