बेभीयनीयम् (bebhIyanIyam)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“ञि भी भये”@} 2 भायकः-यिका, 3 भापकः- 4 भीषकः-षिका, 5 भायकः-यिका, 6 बिभीषकः-षिका, बेभीयकः-यिका
भेता-भेत्री, 7 भापयिता-भीषयिता-भाययिता-त्री, बिभीषिता-त्री, बेभीयिता-त्री
8 9 बिभ्यत्-बिभ्यतौ-बिभ्यतः, 10 11 भाययन्-न्ती, बिभीषन्-न्ती
-- 12 भेष्यन्-न्ती-ती, भाययिष्यन्-न्ती-ती, बिभीषिष्यन्-न्ती-ती
-- -- 13 14 भापयमानः, 15 16 भीषयमाणः, -- बेभीयमानः
-- भापयिष्यमाणः-भीषयिष्यमाणः -- बेभीयिष्यमाणः
भीः-भियौ-भियः
-- -- -- -- भीतः-भीतवान्, भापितः-भीषितः-भायितः, बिभीषितः, बेभीयितः-तवान्
17 भीतः, वृकभीतः, 18 भीरुः 19 -भीलुकः, 20 भीरुकः, 21 विभीषणः, 22 भापः-भीषः-भायः, बिभीषुः, बेभ्यः
भेतव्यम्, भापयितव्यम्-भीषयितव्यम्-भाययितव्यम्, बिभीषितव्यम्, बेभीयितव्यम्
23 प्रनिभयनीयम्-प्रणिभयनीयम्, भापनीयम्-भीषणीयम्-भायनीयम्, बिभीषणीयम्, बेभीयनीयम्
भेयम्, भाप्यम्-भीष्यम्-भाय्यम्, बिभीष्यम्, बेभीय्यम्
भायमानः, भाप्यमानः-भीष्यमाणः-भाय्यमानः, बिभीष्यमाणः, बेभीय्यमानः
ईषद्भयः-दुर्भयः-सुभयः
-- -- -- 24 25 भयम्-वृकभयम्, भापः-भीषः-भायः, बिभीषः, बेभीयः
भेतुम्, भापयितुम्-भीषयितुम्-भाययितुम्, बिभीषितुम्, बेभीयितुम्
भीतिः, वृकभीतिः, 26 भीः, भापना-भीषणा-भायना, 27 भीषा- 28 जातभीषा, बिभीषा, बेभीया
-- भापनम्-भीषणम्-भायनम्, बिभीषणम्, बेभीयनम्
भीत्वा, भापयित्वा-भीषयित्वा-भाययित्वा, बिभीषित्वा, बेभीयित्वा
प्रभीय, प्रभाप्य-प्रभीष्य-प्रभाय्य, प्रबिभीष्य, प्रबेभीय्य
भायम् २, भीत्वा २, भापम् २ -भीषम् २ -भायम् २, भापयित्वा २ -भीषयित्वा २ -भाययित्वा २, बिभीषम् २, बिभीषित्वा २, बेभीयम् २
बेभीयित्वा २
29 भेकः, 30 भयानकः, 31 भीमः-भीष्मः।
01 (११६१)
02 (३-जुहोत्यादिः-१०८४। अक। अनि। पर।)
03 [[६। ‘बिभेतेर्हेतुभये’ (६-१-५६) इति विकल्पेन णावात्वे, आदन्तलक्षणः पुगागमः।]]
04 [[७। आत्वाभावपक्षे, ‘भियो हेतुभये षुक्’ (७-३-४०) इति षुगागमः।]]
05 [[८। अहेतुभये तु (करणादिजन्ये भये तु) णिज्निमित्तकवृद्धौ, आयादेशे च रूपमेवम्। एवमेव ण्यन्ते रूपत्रयस्योपपत्तिर्ज्ञेया।]]
06 [[९। सन्नन्तात् ण्वुलि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वान्न गुणः। एवमुत्त- रत्रापि सन्नन्तेषु ज्ञेयम्।]]
07 [[आ। ‘विस्मापयित्री जनमुग्रसेनजं द्राग् भापयित्री भृशमस्य पञ्चताम्।’ वा। वि। १। ३८।]]
08 [[१०। शतरि शपो जुहोत्यादित्वात् श्लौ, द्विर्वचने, अभ्यासह्रस्वे, उत्तरखण्डे यणि ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुमो निषेधः।]]
09 (चोरात्)
10 [कुञ्जिकया एनं]
11 [[११। हेतुभये एवात्मनेपदविधानादत्र च अहेतु (करण) भयत्वात् ण्यन्ताच्छतैव।]]
12 [पृष्ठम्०९५५+ २४]
13 (जटिलो)
14 [[१। ‘भीस्म्योर्हेतुभये’ (१-३-६८) इति ण्यन्तादात्मनेपदम्।]]
15 (मुण्डो)
16 [[आ। ‘शत्रून् भीषयमाणं तं रामं विस्मापयेत कः।’ भ। का। ५-५८।]]
17 [[२। ‘ञीतः क्तः’ (३-२-१८७) इति वर्तमाने कर्तरि क्तप्रत्ययः। वृकभीतः इत्यत्र ‘भयभीतभीतिभीभिरिति वक्तव्यम्’ (वा। २-१-३७) इति वचनात् समासो बोध्यः।]]
18 [[३। तच्छीलादिषु कर्तृषु ‘भियः क्रुक्लुकनौ’ (३-२-१७४) इति क्रुः क्लुकन् च प्रत्ययौ भवतः। क्रमेण भीरुः, भीलुकः इति रूपे सिद्ध्यतः।]]
19 [[B। ‘अभीरुरवसं स्त्रीभिर्भास्वराभिरिहेश्वरः।।’ भ। का। ७-२५।]]
20 [[४। ‘क्रुकन्नपि वक्तव्यः’ (वा। ३-२-१७४) इति वचनात् क्रुकन्प्रत्यये रूपमेवम्। अयमपि ताच्छीलिकप्रत्ययः।]]
21 [[५। विशेषेण भीषयत इति विभीषणः। ण्यन्तात् नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। षुगागमः।]]
22 [[C। ‘बिभ्युर्बिडालेक्षणभीषणाभ्यो वैदूर्यकुड्येषु शशिद्युतिभ्यः।।’ शि। व। ३-४५।]]
23 [[६। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति उपसर्गस्थान्निमित्तात् परस्य नेः णत्वविकल्पः।]]
24 [पृष्ठम्०९५६+ २३]
25 [[१। ‘अज्विधौ-भयादीनामुपसंख्यानम्, नपुंसके क्तादिनिवृत्त्यर्थम्’ (वा। ३-३-५६) इति वचनादत्र ‘एरच्’ (३-३-५६) इति भावेऽच्प्रत्ययः। अच्प्रत्ययान्तस्य पुंलिङ्गत्वं तु प्रायिकम्। अतोऽत्र नपुंसकत्वम्। वार्तिकेऽत्र ‘क्तादिनिवृत्त्यर्थम्’ इत्युक्तत्वात् नपुंसके भावे विहितः ल्युट्प्रत्ययोऽप्यस्य धातोर्नेति ज्ञेयम्। वृकभयम् इत्यत्र ‘पञ्चमी भयेन’ (२-१-३७) इति समासः।]]
26 [[२। स्त्रियां भावे सम्पदादित्वात् (वा। ३-३-९४) क्विप्।]]
27 [[३। हेतुमण्ण्यन्तात् बाहुलकेन ‘अ प्रत्ययात्’ (३-३-१०२) इत्यकारप्रत्ययः, युजपवादः।]]
28 [[आ। ‘जगत्पतौ पश्यति जातभीषा प्रायस्तदालिङ्गनमभ्यनैषीत्।।’ या। अ। १३-५७।]]
29 [[४। ‘इण्भीका--’ (द। उ। ३-२१) इति कन्प्रत्यये रूपमेवम्। बिभेतीति भेकः।]]
30 [[५। ‘आनकः शीङ्भियः’ (द। उ। ३-२६) इत्यानकप्रत्ययः। बिभेति तस्मादिति भयानकः = भीषणः। ‘भीमादयोऽपादाने’ (३-४-७४) इति अपादानेऽयं प्रत्ययः।]]
31 [[६। ‘भियः षुग् वा’ (द। उ। ७-३५) इति मक्प्रत्ययः, पक्षे षुगागमश्च। बिभेत्यस्मा- ज्जन इति भीमः, भीष्मो वा। ‘भीमादयोऽपादाने’ (३-४-७४) इत्यपादानेऽयं प्रत्ययो ज्ञेयः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
