| YouTube Channel

बृहि (bRhi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
बृंह्
मूलधातुः:
बृहि
धात्वर्थः:
वृद्धौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
बृंहति
अनुबन्धादिविशेषः:
टिप्पनी: वृह, कि त्विषि इति कविकल्पद्रुमः (चुरा०- पक्षे भ्वा०-पर०-अक०-सेट् ।) सप्तमस्वरी इ, वृंह्यते कि, वृंहयति वृंहति इति दुर्गादासः
धातुः:
बृंह्
मूलधातुः:
बृहि
धात्वर्थः:
भाषायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
बृंहयति-ते
अनुबन्धादिविशेषः:
टिप्पनी: वृह, वृद्धौ इति कविकल्पद्रुमः (भ्वा०- आत्म०-अक०-सेट् ।) इ, वृंह्यते ङ, वृंहते इति दुर्गादासः
क्षीरतरङ्गिणी
Sanskrit
बृहिँ बृहि शब्दे
- बृंहति बृंहितम बृहिर् इति दुर्गः अबृहत्, अबर्हीत् बृंहेर्नलोपाद् बृहोऽद्यतनः (?)
कृदन्तरूपमाला
Sanskrit
1 {@“बृहि वृद्धौ शब्दे च”@} 2 3 अत्र शब्दः-गजशब्द एव, लोके तथैव प्रयोगात्।
‘बृहिर्--’ इति चन्द्रदुर्गौ।
‘… बृंहति बर्हति।
वृद्धौ, भाषार्थविषये बृंहयेत् बर्हयेदिति।।’ 4 इति देवः।
बृंहकः-बृंहिका, बृंहकः-बृंहिका, बिबृंहिषकः-षिका, बरीबृंहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकदर्हतिवत् 5 ज्ञेयानि।
6 परिबृढः- 7 उपबृंहितः, 8 बर्हिः, 9 ब्रह्म।
प्रासङ्गिक्यः
01
=>
(११२९)
02
=>
(१-भ्वादिः-७३६। अक। सेट्। पर।)
03
=>
[पृष्ठम्०९३१+ २६]
04
=>
(श्लो। १९८)
05
=>
(८६६)
06
=>
[[१। अत्रापि प्रभावभिधेये, ‘प्रभौ परिबृढः’ (७-२-२१) इति क्तप्रत्ययस्यानिट्त्वं तका- रस्य ढत्वं नकारहकारयोर्लोपश्च निपात्यते। अन्यत्र बृहितम् इत्येव। ‘बृंहितं = करिगर्जितम्।’ इति अमरः (२-८-१०७)।]]
07
=>
[[आ। ‘यानैरप्युपबृंहितो विहितवान् प्रातः प्रयातुं मनः।’ धा। का। १। ९२।]]
08
=>
[[२। ‘बृंहेर्नलोपश्च’ (द। उ। ९-३१) इतीसिप्रत्यये नलोपे रूपम्। पश्चात् गुणः। बर्हिः = वेद्यास्तरणम्।]]
09
=>
[[३। ‘बृंहिर्नोऽच्च’ (द। उ। ६-७४) इति मनिन्प्रत्यये धातूपधानकारस्य अकारे, पश्चाद् यणि रूपम्। ब्रह्म = परं तेजः, वेदश्च।]]
1 {@“बृहि भाषार्थः”@} 2 आस्वदीयः।
‘--भासार्थः’ इति क्षीरस्वामी।
‘वृद्धौ, भाषार्थविषये बृंहयेद् बर्हयेदिति।।’ 3 इति देवः।
बृंहकः-हिका, बिबृंहयिषकः-षिका, बृंहयिता-त्री, बिबृंहयिषिता-त्री
बृंहयन्-न्ती, बिबृंहयिषन्-न्ती, बृंहयिष्यन्-न्ती-ती, बिबृंहयिषिष्यन्-न्ती-ती
बृंहयमाणः, बिबृंहयिषमाणः, बृंहयिष्यमाणः, बिबृंहयिषिष्यमाणः
सुवृट्- सुबृड्-सुबृहौ-सुबृहः
-- -- -- बृंहितम्-तः-तवान्, बिबृंहयिषितः-तवान्, बृंहः, बिबृंहयिषुः
बृंहयितव्यम्, बिबृंहयिषितव्यम्
बृंहणीयम्, बिबृंहयिषणीयम्
बृंह्यम्, बिबृंहयिष्यम्, ईषद्बृंहः-दुर्बृंहः-सुबृंहः
बृंह्यमाणः, बिबृंहयिष्यमाणः, बृंहः, बिबृंहयिषः, बृंहयितुम्, बिबृंहयिषितुम्
बृंहणा, बिबृंहयिषा, बृंहणम्, बिबृंहयिषणम्, बृंहयित्वा, बिबृंहयिषित्वा
प्रबृंह्य, प्रबिबृंहयिष्य
बृंहम् २, बृंहयित्वा २, बिबृंहयिषम् २, बिबृंहयिषित्वा २। 4
प्रासङ्गिक्यः
01
=>
(११३०)
02
=>
(१०-चुरादिः-१७६९। सक। सेट्। उभ।)
03
=>
(श्लो। १९८)
04
=>
[पृष्ठम्०९३२+ २५]