| YouTube Channel

बृहस्पतिः (bRhaspatiH)

 
Apte
English
बृहस्पतिः [bṛhaspatiḥ], [बृहतः वाचः पतिः पारस्करादि˚]
N.
of the preceptor of the gods
सन्त्यन्ये$पि बृहस्पतिप्रभृतयः संभाविताः पञ्चषाः
Bh.*
1.34
(for the abduction of his wife Tārā by the moon, see under तारा and सोम).
The planet Jupiter
बुधबृहस्पतियोगदृश्यः
R.*
18.76.
N.
of the author of a Smṛiti
Y.*
1.4.
Comp.
चक्रम् a period of sixty saṁvatsaras.
an astrological diagram. -पुरोहितः an epithet of Indra. -वारः, -वासरः Thursday. -सवः
N.
of a sacrifice offered to Bṛihaspati
बृहस्पतिसवं नाम समारेभे क्रतूत्तमम्
Bhāg.*
4.3.3.
Apte 1890
English
बृहस्पतिः [बृहतः वाचः पतिः पारस्करादि°] 1 N. of the preceptor of the gods
(for the abduction of his wife Tārā by the moon, see under तारा to सोम.)
2 The planet Jupiter
बुधबृहस्पतियोगदृश्यः R. 18. 76.
3 N. of the author of a Smṛti
Y. 1. 4.
Comp.
पुरोहितः an epithet of Indra.
वारः,
वासरः Thursday.
Hindi
Hindi
देवता के शिक्षक सचमुच "बृहस्पति" कहा जाता है
Apte Hindi
Hindi
बृहस्पतिः
पुं*
- बृहतः वाचः पतिः-पारस्करादि*
देवों के गुरु
बृहस्पतिः
पुं*
- -
बृहस्पति ग्रह
बृहस्पतिः
पुं*
- -
एक स्मृतिकार का नाम
Shabdartha Kaustubha
Kannada
बृहस्पतिः
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದೇವತೆಗಳ ಗುರು/ದೇವತೆಗಳ ಪುರೋಹಿತ
निष्पत्तिः - > सुडागमः तलोपश्च (वा० ६-१-१५७)
बृहस्पतिः
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದು ಗ್ರಹ
विस्तारः - > ಬೃಹಸ್ಪತಿಗೆ ಧನಸ್ಸು ಮತ್ತು ಮೀನರಾಶಿಗಳು ಕ್ಷೇತ್ರ. ಕರ್ಕಾಟಕ ರಾಶಿಯು, ಉಚ್ಚ, ಮಕರ ರಾಶಿ ನೀಚಸ್ಥಾನ. ರವಿ ಚಂದ್ರ ಮತ್ತು ಕುಜರು ಮಿತ್ರರು. ಶನಿ ಸಮ ಬುಧ, ಶುಕ್ರರು ಶತ್ರುಗಳು. ಗುರುವು ಶುಭ ಗ್ರಹ. ಶ್ವೇತ ವರ್ಣದ ದೇಹ ಉಳ್ಳವನು. ಪುರುಷ ಗ್ರಹ. ಬೃಹಸ್ಪತಿ ಗ್ರಹದ ದಶಾಕಾಲ ೧೬ ವರ್ಷಗಳು
Wordnet
Sanskrit
Synonyms:
बृहस्पतिः
noun
पौराणिकः ऋषिविशेषः यः अङ्गिरसः पुत्रः इति मन्यते।
"भरद्वाजः बृहस्पतेः पुत्रः इति मन्यते।"
Synonyms:
बृहस्पतिः, देवाचार्यः, देवगुरुः, ताराधिपः, ताराधीशः, तारानाथः, धिषणाधिपः, धीपतिः, धीमान्
noun
देवतानां गुरुः।
"विपत्तिकाले बृहस्पतिः देवतानां साहाय्यं करोति।"
Synonyms:
बृहस्पतिः, गुरुः, ग्रहराजः
noun
खगोलीयपिण्डः यः सौरमालायाः पञ्चमः ग्रहः यः पृथिव्याः दूरे अस्ति।
"बृहस्पतिः सौरमालायाः महत्तमः ग्रहः अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: बृहस्पतिः
Root: बृहस्पति
Gender: पुं
Number: all
अर्थः बृहस्पतिग्रहः
Meaning(s):
Planet Jupiter
Shloka(s):
2|1|33|1 वाचस्पतिरनिर्वापः सुराचार्यो बृहस्पतिः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|33|2 गीष्पत्याङ्गिरसौ चक्षाश्चारुश्चित्रशिखण्डिजः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|34|1 प्रचक्षा दीदिविश्चाथ शुक्रो दूतो दिवाचरः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|33|1 वाचस्पतिः (वाचस्पति) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|33|1 अनिर्वापः (अनिर्वाप) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|33|1 सुराचार्यः (सुराचार्य) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|33|1 बृहस्पतिः (बृहस्पति) (पुं) Planet Jupiter बृहस्पतिग्रहः
2|1|33|2 गीष्पतिः (गीष्पति) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|33|2 आङ्गिरसः (आङ्गिरस) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|33|2 चक्षः (चक्षस्) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|33|2 चारुः (चारु) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|33|2 चित्रशिखण्डिजः (चित्रशिखण्डिज) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|34|1 प्रचक्षः (प्रचक्षस्) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
2|1|34|1 दीदिविः (दीदिवि) (पुं) Epithet of Bṛhaspati बृहस्पतिग्रहः
Related word(s):
जातिः ग्रहः
अमरकोशः
Sanskrit
Word: बृहस्पतिः
Root: बृहस्पति
Gender: पुं
Number: all
Meaning(s):
lord of prayer or devotion name of a deity
Shloka(s):
1|3|24|1 बृहस्पतिः सुराचार्यो गीष्पतिर्धिषणो गुरुः। (दिग्वर्गः)
1|3|24|2 जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः॥ (दिग्वर्गः)
Synonym(s):
1|3|24|1 बृहस्पतिः (बृहस्पति) (पुं) lord of prayer or devotion name of a deity
1|3|24|1 सुराचार्यः (सुराचार्य) (पुं)
1|3|24|1 गीष्पतिः (गीष्पति) (पुं)
1|3|24|1 धिषणः (धिषण) (पुं) seat, wise, hymn, abode, praise, speech, knowledge, intelligent, intelligence, dwelling-place, any Guru or spiritual preceptor
1|3|24|1 गुरुः (गुरु) (पुं) big, hard, Jain, Guru, long, heavy, large, great, proud, master, priest, serious, teacher, haughty, violent, weighty, chief of, valuable, grievous, vehement, extended, pregnant, bRhaspati, excessive, important, momentous, venerable, difficult, respectable, considerate, highly prized, planet Jupiter, high in degree, pregnant woman, high in respect, wife of a teacher, author of a mantra, difficult to digest, heavy in the stomach, preceptor of the gods, 9th astrological mansion, long by nature or position, spiritual parent or preceptor, any venerable or respectable person, velvet bean [Mucuna Pruritus - Bot.], honorific appellation of a preceptor, parents and other venerable persons [pl.]
1|3|24|2 जीवः (जीव) (पुं) soul, karNa, alive, vivid, living, healthy, existing, living by, vivifying, bRhaspati, existence, vital breath, causing to live, principle of life, living or personal soul
1|3|24|2 आङ्गिरसः (आङ्गिरस) (पुं) particular magical implement, planet bRhaspati i.e. Jupiter
1|3|24|2 वाचस्पतिः (वाचस्पति) (पुं) orator, master of speech, lord of voice or speech
1|3|24|2 चित्रशिखण्डिजः (चित्रशिखण्डिज) (पुं)
Related word(s):
परा_अपरासंबन्धः ग्रहः
जातिः ग्रहः
उपाधि नाम
शब्दकल्पद्रुमः
Sanskrit
वृ(बृ)हस्पतिः,
पुं,
(वृहतां वाचां पतिः “पार-स्करेति ।” १५७ इति सुट् निपात्यते ।)अङ्गिरसः पुत्त्रः देवानां गुरुः धर्म्मशास्त्र-प्रयोजकः नवग्रहमध्ये पञ्चमग्रहश्च तत्-पर्य्यायः सुराचार्य्यः गीष्पतिः धिषणः ४गुरुः जीवः आङ्गिरसः वाचस्पतिः ८चित्रशिखण्डिजः इत्यमरः
उतथ्या-नुजः १० गोविन्दः ११ चारुः १२ द्बादश-रश्मिः १३ गिरीशः १४ दिदिवः १५ पूर्व्व-फल्गुनीभवः १६ इति जटाधरः
सुरगुरुः१७ वाक्पतिः १८ वचसांपतिः १९ इन्द्रेज्यः २०देवेज्यः २१ वृहताम्पतिः २२ इज्यः २३वागीशः २४ चक्षाः २५ दीदिविः २६ द्बादश-करः २७ प्राक्फाल्गुनः २८ गीरथः २९ ।इति शब्दरत्नावली
पीतवर्णः ईशान-कोणपुरुषब्राह्मणजातिऋग् वेदसत्त्वगुण-मधुर-रसधनुर्मीनराशिपुष्यनक्षत्रवस्त्रपुष्परागमणि-सिन्धुदेशानां अधिपतिः षडङ्गुलशरीरः ।पद्मस्थः चतुर्भुजः अक्षवरकमण्डलुदण्डधारी ।अस्याधिदेवता ब्रह्मा प्रत्यधिदेवता इन्द्रः सतु सूर्य्यास्यः अङ्गिरोमुनिपुत्त्रः प्रातःकालेप्रबलः शुभग्रहः देवगृहस्वामी वृद्धः ।रक्तद्रव्यस्वामी वातपित्तकफात्मकः बणिक्-कर्म्मकर्त्ता अङ्गिरोगोत्रः इति ग्रहयाग-तत्त्वादयः
*
तद्वारजातफलम् ।“नृपेन्द्रमन्त्री नृपलब्धकामोविद्याविनोदो चतुरः प्रगल्भः ।आचार्य्यपूज्यो मधुरस्वभावोवारे भवेद्देवगुरोर्मनुष्यः
”इति कोष्ठीप्रदीपः
*
शिवस्य गुरुपुत्त्रः यथा, --महेन्द्र उवाच ।“कथं वा देवकर्त्तुश्च सिद्धानां योगिनां गुरोः ।मृत्युञ्जयस्य शम्भोश्च गुरुपुत्त्रो बृहस्पतिः ।ततो ज्ञानी महादेवः कथं शिष्यो गुरोः पितुः
ब्रह्मोवाच ।कथेयमतिगुप्ता पुराणेषु पुरन्दर ।इमां पुरा प्रवृत्तिञ्च कथयामि निशामय
मृतवत्सा कर्म्मदोषाद्भार्य्या अङ्गिरसः पुरा ।व्रतं चकार मद्बाक्यात् कृष्णस्य परमात्मनः
व्रतं पुंसवनं नाम वर्षमेकं चकार सा ।सनत्कुमारो भगवान् कारयामास तां व्रतम्
स्वेच्छामयः परं ब्रह्म भक्तानुग्रहवग्रहः ।तदागत्य गोलोकात् परमात्मा कृपामयः
व्रतानशनक्षीणां तामुवाच कृपानिधिः ।प्रणतां साश्रुनेत्राञ्च विनीताञ्च तया स्तुतः
श्रीकृष्ण उवाच ।गृहाणेदं यज्ञफलं मम तेजःसमन्वितम् ।भुङ्क्ष्व मद्वरपुत्त्रस्ते भविष्यति मदंशतः
पतिर्गुरुश्च देवानां वृहतां ज्ञानिनां वरः ।पुत्त्रस्ते भविता साध्वि ! मद्वरेण भविष्यति
मद्वरेण भवेद्यो हि मद्वरपुत्त्रकः ।त्वद्गर्भे मम पुत्त्रोऽयं चिरजीवी भविष्यति
वरजो वीर्य्यजश्चैव क्षेत्रजः पालकस्तथा ।विद्यामन्त्रसुतानाञ्च गृहीतः सप्तमः सुतः
इत्युक्त्वा राधिकानाथः स्वर्लोकञ्च ययौ पुरा ।श्रीकृष्णवरपुत्त्रोऽयं ज्ञानी सुरगुरुः स्वयम्
मृत्युञ्जयं महाज्ञानं शिवाय प्रददौ पुरा ।दिव्यं वर्षत्रिलक्षञ्च तपःकर्त्रे हिमालये
सुयोगज्ञानममलं तेजः स्वात्मा समं परम् ।स्वशक्तिविष्णुमायाञ्च स्वांशञ्च वाहनं वृषम्
स्वशूलञ्च स्वकवचं स्वमन्त्रं द्वादशाक्षरम् ।कृपामयः स्तुतस्तेन श्रीकृष्णश्च परात्परः
शिवलोके शिवा सा विष्णुमाया शिव-प्रिया ।शक्तिर्नारायणस्येयं तेन नारायणी स्मृता
तेजःसु सर्व्वदेवानां साविर्भूता सनातनी ।जघान दैत्यनिकरं देवेभ्यः प्रददौ पदम्
कल्पान्ते दक्षकन्या सा मूलप्रकृतिः सती ।पितृयज्ञे तनुं त्यक्त्वा योगेन सिद्धयोगिनी
बमूव शैलकन्या सा साध्वी भर्त्तृनिन्दया ।कालेन कृष्णतपसा शङ्करं प्राप शङ्करी
श्रीकृष्णो हि गुरुः शम्भोः परमात्मा परात्परः ।कृष्णस्य वरपुत्त्रोऽयं स्वयमेव वृहस्पतिः ।अतो हेतोः सुरगुरुर्गुरुपुत्त्रः शिवस्य
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५६ अध्यायः
(पुरोहितः मन्त्रपालके तु त्रि यथा, ऋग्वेदे ।४ ५० ।“वृहस्पतिं यः सुभृतं बिभर्त्ति
”“वृहस्पतिं वृहतां महतां मन्त्राणां पालयितारंदेवं उक्तलक्षणं पुरोहितं वा ।” इति तद्भाष्येसायणः
)