| YouTube Channel

बुभूर्षकः-र्षिका (bubhUrSakaH-rSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“डु भृञ् धारणपोषणयोः”@} 2 3 ‘भृञो बिभर्ति बिभृते भरते भरतीत्यपि।
ऋदन्तस्य भृणातीति भर्त्सने श्नि तथा भरः।।’ 4 इति देवः।
भारकः-रिका, भारकः-रिका, 5 बुभूर्षकः-र्षिका, बेभ्रीयकः-यिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकभरतिवत् 6 ज्ञेयानि।
7 बिभ्रत्- बिभ्रतौ-बिभ्रतः, बिभ्राणः, 8 भृत्रिमम्, 9 भरथुः, 10 11 बिभ्राणः, 12 विश्वंभरः- 13 विश्वम्भरा, 14 भार्यम्, 15 इषुभृत्-देहभृत्, 16 उदरंभरिः, 17 भृतिः, 18 भृङ्गारः इत्यादीनि रूपाण्यस्य भवन्तीति विशेषः।
19
प्रासङ्गिक्यः
01
=>
(११७१)
02
=>
(३-जुहोत्यादिः-१०८७। सक। अनि। उभ।)
03
=>
[पृष्ठम्०९७३+ ३०]
04
=>
(श्लो। २८)
05
=>
[[१। ‘सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम्’ (७-२-४९) इत्यत्र भर इति शपा निर्देशात्, अस्य ग्रहणम्। तेनात्र नेड्विकल्पः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वात्, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युत्वम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
(११७०)
07
=>
[[२। शतरि शपः, ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लुः। ‘श्लौ’ (६-१-१०) इति द्विर्वचनम्। ‘भृञामित्’ (७-४-७६) इत्यभ्यासस्येकारः। उत्तरखण्डे यणादेशः। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः। एवमेव शानजन्तेऽपि प्रक्रियोह्या।]]
08
=>
[[३। भावे, ‘ड्वितः क्त्रिः’ (३-३-८८) इति क्त्रिप्रत्ययः। तस्य, ‘तेन’ इति वर्तमाने निर्वृत्तार्थे, ‘क्त्रेर्मम्नित्यम्’ (४-४-२०) इति नित्यं मप् तद्धितः।]]
09
=>
[[४। धातुममुं द्रमिडाः ‘टु भृञ्’ इति पठन्तीति क्षीरस्वामिवाक्यादवगम्यते। तदानीम्, ‘ट्वितोऽथुच्’ (३-३-८९) इति भावेऽथुच्प्रत्ययः। भरथुः = भारः। “सुधाकरः पुनरथुज्विधौ ‘टु भृञ्’ इत्युक्त्वा, ‘टु भृञ्’ इति द्रमिडाः पठन्ति। तेन भृत्रिमम्, भरथुः इति द्वयमिच्छति नन्दी।’ इति। ‘टु डु भृञ्’ इत्यनुबन्धद्वयमिति शाकटायनः।” इति पुरुषकारवचनमिह ध्येयम्।]]
10
=>
[कवचं]
11
=>
[[५। ‘ताच्छील्यवयोवचनशक्तिषु चानश्’ (३-२-१२९) इत्यनेनात्र वयोवचने चानश्- प्रत्ययः। कवचधारणयोग्यं वयः प्राप्तवान् इत्यर्थः।]]
12
=>
[[६। ‘संज्ञायां भृतॄ--’ (३-२-४६) इत्यादिना खच्प्रत्ययः। विश्वं बिभर्तीति विश्वंभरः विष्णुः।]]
13
=>
[[आ। ‘ततो बलिन्दमप्रख्यं कपिर्विश्वम्भराधिपम्।’ भ। का। ६। १०८।]]
14
=>
[[७। ‘ऋहलोः--’ (३-१-१२४) इति कर्मणि ण्यत्।]]
15
=>
[[८। ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्। तुगागमः।]]
16
=>
[[B। ‘उञ्छवृत्तिरुदरम्भरिरासीत् तादृशेन तपसैव कृतान्तः।।’ या। अ। २१। ६३।]]
17
=>
[[९। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। भृतिः = वेतनम्।]]
18
=>
[[१०। ‘शृङ्गारभृङ्गारौ’ (द। उ। ८-६६) इति आरन्प्रत्ययः, नुगागम-गुगागमौ गुणाभावश्च निपात्यन्ते। बिभर्त्युदकं मङ्गलार्थिभिरिति भृङ्गारः = उदककलशः।]]
19
=>
[पृष्ठम्०९७४+ २८]
1 {@“भॄ भर्त्सने”@} 2 प्वादिः, ल्वादिश्च।
‘--भरणे’ इत्यप्येके।
‘भॄ भर्जने च’ इति क्षीरस्वामी।
‘ॠदन्तस्य भृणातीति भर्त्सने श्नि, तथा भरः।।’ 3 इति देवः।
तत्र भरणार्थे, भर्जनार्थे सकर्मकोऽयमिति ज्ञेयम्।
भारकः-रिका, भारकः-रिका, बुभूर्षकः-र्षिका, बिभरिषकः-बिभरीषकः-षिका, बोभुरकः-रिका
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना जौहोत्यादिकपिपर्तिवत् 4 ज्ञेयानि।
5 भृणन् 6 -ती, 7 भूर्णम्-भूर्णः-भूर्णवान्, भावेऽप्प्रत्यये भरः इति रूपाण्यस्य भवन्तीति विशेषः।
8
प्रासङ्गिक्यः
01
=>
(११७६)
02
=>
(९-क्र्यादिः-१४९१। अक। सेट्। पर।)
03
=>
(श्लो-२८)
04
=>
(१०५५)
05
=>
[[३। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। तस्य शित्त्वेन सार्वधातुकत्वम्। तेन ङित्त्वात् गुणवृद्धिनिषेधः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति प्रकृतेः ह्रस्वः। ‘ऋवर्णा- न्नस्य--’ (वा। ८-४-१) इति णत्वम्।]]
06
=>
[[B। ‘तत्र स्परीतुमनसं रुषमावृणन्तम् अम्बष्ठमुन्मदभरं भृणन् बभाषे।’ धा। का। ३। ७।]]
07
=>
[[४। निष्ठायाः कित्त्वात्, ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युकारे, रपरत्वे, दीर्घे णत्वे रूपमेवमिति ज्ञेयम्।]]
08
=>
[पृष्ठम्०९७६+ ३२]