| YouTube Channel

बुबोधिषकः-बुबुधिषकः-षिका (bubodhiSakaH-bubudhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बुधिर् बोधने”@} 2 ‘बुधिरो बोधनार्थस्य बोधते बोधतीत्यपि।।’ 3 इति देवः।
चान्द्राः, क्षीरस्वामी ‘बुध--’ इत्यनिरितं पठन्ति।
बोधकः-धिका, बोधकः-धिका, बुबोधिषकः-बुबुधिषकः-षिका, बोबुधकः-धिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोलतिवत् 4 ज्ञेयानि।
5 बोधयमानः, 6 विबोध्यः, 7 तत्त्वबोधः- 8 तत्त्वबोधिनी।
प्रासङ्गिक्यः
01
=>
(११२३)
02
=>
(१-भ्वादिः-८७५। सक। सेट्। उभ।)
03
=>
(श्लो। ११९)
04
=>
(२३१)
05
=>
[[५। ‘बुधयुध--’ (१-३-८६) इत्यत्र, अकर्मकैः युध-नश-जनैः साहचर्यात् तादृशस्या- कर्मकस्यैव ग्रहणमिति, सकर्मकोऽयं तत्र विवक्षितः। तेनास्मात् ‘णिचश्च’ (१-३-७४) इत्यस्य प्रवृत्त्या यथासम्भवं ण्यन्तात् शता शानच्च भवतीति विशेषः।]]
06
=>
[[आ। ‘या नेदितोर्वीपरिशर्धिवीचीविमृद्धवृक्षादिविबोध्यशैत्या।।’ धा। का। २। २६।]]
07
=>
[[६। ‘कर्मण्यण्’ (३-२-१) इत्यणि रूपमेवम्।]]
08
=>
[[७। ताच्छील्ये णिनिप्रत्यये रूपमेवम्। स्त्रियां ङीप्।]]