| YouTube Channel

बुधाष्टमी (budhASTamI)

 
Monier Williams Cologne
English
बुधाष्टमी
f.
‘the 8th (day) of B°’,
N.
of a festival,
Cat.
Aufrecht Catalogus Catalogorum
English
बुधाष्टमी dh. Oudh XIX, 98.
बुधाष्टमी dh. Oudh XX, 68. XXI, 104.
Indian Epigraphical Glossary
English
budh-āṣṭamī (IA 26), the eighth tithi on a Wednesday.
शब्दकल्पद्रुमः
Sanskrit
बुधाष्टमी,
स्त्री,
(बुधवारयुता अष्टमी शाक-पार्थिवादित्वात् समासः ।“अष्टमीबुधवारेण पक्षयोरुभयोर्यदा ।भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा
”इति वचनादस्यास्तथात्वम् ।)व्रतविशेषः यथा बुधाष्टमीव्रतं चैत्रपौषहरि-शयनादीतरकाले कर्त्तव्यम् यदाह राज-मार्त्तण्डः ।“पतङ्गे मकरे याते देवे जाग्रति माधवे ।बुधाष्टमीं प्रकुर्व्वीत वर्जयित्वा तु चैत्रकम्
प्रसुप्ते जगन्नाथे सन्ध्याकाले मधौ तथा ।बुधाष्टमीं कुर्व्वीत कृता हन्ति पुराकृतम्
”एतद्व्रतमारब्धमपि चैत्रादौ कर्त्तव्यमिति ।यथा स्मृतिः ।“मीने धनुषि देवेशे सुप्तेऽशुद्धदिने तथा ।बुधाष्टमीं कुर्व्वीत पूर्व्वविद्धामपि क्वचित्
”इति व्रतकालविवेकः
*
अपि ।“अष्टमी बुधवारेण पक्षयोरुभयोर्यदा ।भविष्यति तदा तस्यां व्रतमेतत् कथा पुरा
तस्यां नियमकर्त्तारो स्युर्दुर्गतिभाजनाः ।तण्डुलस्याष्टमुष्टीनां वर्जयित्वाङ्गुलीद्वयम्
भक्तं सद्भक्तिश्रद्धाभ्यां कामनायुक्तमानवः ।आम्रपत्रपुटे कृत्वा यो भुङ्क्ते कुशवेष्टिते
कलम्बिकाम्लिकोपेतं काम्यं तस्य फलं भवेत् ।बुघं पञ्चोपचारेण पूजयित्वा जलाशये
शक्तितो दक्षिणां दद्यात् कर्करीं तण्डुलान्विताम् ।बुं बुधायेति बीजार्णैः स्वार्णे वा कमलादिके
बाणचापधरं श्यामं दले चाङ्गानि मध्यतः ।बुधाष्टमीकथा पुण्या श्रोतव्या व्रतिभिर्ध्रुवम्
*
पुरे पाटलिपुत्त्राख्ये वीरो नाम द्बिजोत्तमः ।रम्भा भार्य्या तस्यासीत् कौशिकः पुत्त्रउत्तमः
दुहिता विजया नाम घनपालो वृषोऽभवत् ।गृहीत्वा कौशिकस्तञ्च ग्रीष्मे गङ्गागतोऽरमत्
गोपालकैर्वृषश्चौरैः क्रीडव्यपहृतो बलात् ।गङ्गातः उत्थाय वनं बभ्राम दुःखितः
जलार्थं विजया चागात् भ्रात्रा सार्द्धञ्च साप्य-गात् ।पिपासितो मृणालार्थी आगतोऽथ सरोवरम् ।दिव्यस्त्रीणाञ्च पूजादि दृष्ट्वा चाप्यथ विस्मितः
गत्वा ययाचेऽन्नं सानुजोऽहं बुभुक्षितः ।स्त्रियोऽब्रुवन् व्रतं कर्त्तुं दास्यामश्च कुरु व्रतम् ।पश्वर्थमन्नपानार्थं पूजयामासतुर्बुधम् ।पुटकद्वयं गृहीत्वान्नं बुभुजाते प्रदत्तकम्
स्त्रियो गता गतौ तौ तु धनपालमपश्यताम् ।चौरैर्हृतं गृहीत्वाथ प्रदोषे प्राप्तवान् गृहम्
वीरञ्च दुःखितं नत्वा रात्रौ सुप्त्वा यथासुखम् ।लग्नञ्च त्वरितं दृष्ट्वा कस्य देया सुता मया ।यमायेत्यब्रवीद्दुःखात् चायाद्व्रतसत्-फलात्
स्वर्गं गतौ पितरौ व्रतं राज्याय कौशिकः ।चक्रेऽयोध्यामहाराज्यं दत्त्वा भगिनीं यमे
यमोऽपि विजयामाह गृहस्था त्वं पुरान्तरम् ।नोद्धाटयान्यत्र गते यमे सा तथाकरोत्
अपश्यन्मातरं स्वां सा यामिकां पाशयातनाम् ।अथोद्बिग्ना कौशिकाय आचक्षाणा विमुक्ति-दम् ।व्रतं चक्रे ततो मुक्ता माता तस्माच्चरद्व्रतम्
”इति गारुडे बुधाष्टभ्यादि १३३ अध्यायः
*
विस्तरस्तु ब्रह्मपुराणोक्तबुधाष्टमीव्रतपद्धतौद्रष्टव्यः
वाचस्पत्यम्
Sanskrit
बुधाष्टमी स्त्री० बुधवारयुताष्टमी शाक० त० चैत्रपौमहरि-शयभादोतरत्र शुद्धकाले चुधवारयुतार्या शुक्लपक्षाष्टम्यां, तत्कर्त्तव्ये व्रते तस्याः पूर्व्वत्वहतुः हेमा० व्र०भविष्योत्तरे उक्तो यथा“पुरा कृतयुगस्यादौ इलो राजा बभूव बहुभृत्य-युतो मित्रमन्त्रिभिः परिवारितः जगाम हिमवत्-पार्श्वे महादेवाभिशापतः योऽसौ प्रविशते भूमौस स्त्री मवति निश्चितम् राजा मृगसङ्गेन प्रावि-शतदुमावने एकाकी तुरगोपेतः क्षणात् स्त्रीत्वंजगाम सा बभ्राम वने शून्ये पीनोन्नतपयोधरा ।का त्वं कस्य कुतः प्राप्ता अनुरोधोऽस्ति कश्चन तांददर्श बुधस्तन्वीं रूपौदार्य्यगुणान्विताम् अष्टम्यां बुध-तारेण तस्यां तुष्टो बुधो ग्रहः ददौ गृहाश्रमन्तस्या-मानीयत प्रतीषिताम् पुत्रमुत्पादयामास योऽसौ ख्यातःपुरूरवाः चन्द्रवंशकरो राजा आद्यः सर्वमही-क्षिताम् ततः प्रभृति पूज्ये थमष्टमी बुधसंयुता” ।सा सम्पूर्णा ग्राह्या भिन्ना यथोक्तं तत्रैव “बुधाष्टमीशुभा पूर्णा यथोक्तफलदायिनी” तच्च व्रतषष्टवर्षं कार्य्यंतत्र भक्ष्यभेदादिकं तत्रैवोक्तं यथा“अष्टम्यष्टविधानेन विचित्रान्नैः पृथक् पृथक् ।षथमा मोदकैर्भक्ष्यैः द्वितीया धानकैस्तथा तृतीयाघृतपूरैश्च चतुर्थी वटकैर्नृप! पञ्चमी शुम्रका-सारैः षष्ठी सोहालकैः शुभैः अशोकवर्त्तिभिः शुम्रैःसप्रवीं चातिवाहयेत् अष्टमी फाणितैः पूर्णेः खण्ड-वेष्टैर्युधिष्ठिर! ।” तत्र विहितनिषेधकालादि राज-मार्त्तण्डे उक्तं यथा “पतङ्गे मकरे जाते देवे जाग्रतिमाधवे बुधाष्टमीं प्रकुर्वी वर्जयित्वा तु चैत्रकम् ।प्रमुप्ते जगन्नामे सन्ध्याकाले मधौ तथा बुधाष्टमींन कुर्वीत कृता हन्ति पुराकृतमिति” एतद्व्रतमारब्ध-ग्रपि चैत्रादौ कर्त्तव्यं यथाह स्मृतिः “मीनेधनुषि देवेशे सुप्तेऽशुद्धेदिने तथा बुधाष्टमीं कुर्वीतपूर्वविद्धामपि क्वचित्” अशुद्धदिने समयाशुद्धियुक्तदिने