| YouTube Channel

बुधः (budhaH)

 
Hindi
Hindi
मनस्वी
Apte Hindi
Hindi
बुधः
पुं*
- -
बुद्धिमान् या विद्वान् पुरुष
बुधः
पुं*
- -
देव
बुधः
पुं*
- -
बुध ग्रह
Wordnet
Sanskrit
Synonyms:
बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः
noun
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
"कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।"
Synonyms:
बुधः, रौहिणेयः, रोधनः, सौम्यः, सोमभूः, बोधनः, तुङ्गः, एकाङ्गः, श्यामाङ्गः, एकदेहः, प्रहर्षणः, पञ्चार्चिसः, सोमजः
noun
सौरमालायां सूर्यस्य निकटतमः खगोलीयपिण्डः।
"शास्त्रज्ञानां मतानुसारेण बुधे जीवनं सम्भवति।"
वैजयन्तीकोषः
Sanskrit
Word: बुधः
Root: बुध
Gender: पुं
Number: all
अर्थः बुधग्रहः
Meaning(s):
Planet Mercury
Shloka(s):
2|1|32|1 कर्षको रुधिरो भौमः प्रव्यालोऽप्यथ र्षुलः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
2|1|32|2 बुधः श्यामाङ्गः सौम्यश्चान्द्रमसायनि॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|32|1 हर्षुलः (हर्षुल) (पुं) Epithet of Budha बुधग्रहः
2|1|32|2 बुधः (बुध) (पुं) Planet Mercury बुधग्रहः
2|1|32|2 श्यामाङ्गः (श्यामाङ्ग) (पुं) Epithet of Bṛhaspati बुधग्रहः
2|1|32|2 एकाङ्गः (एकाङ्ग) (पुं) Epithet of Bṛhaspati बुधग्रहः
2|1|32|2 सौम्यः (सौम्य) (पुं) Epithet of Budha बुधग्रहः
2|1|32|2 चान्द्रमसायनिः (चान्द्रमसायनि) (पुं) Epithet of Bṛhaspati बुधग्रहः
Related word(s):
जातिः ग्रहः
Tamil
Tamil
பு3த4: : அறிவாளி, புதன் என்னும் க்ரஹம்.
अमरकोशः
Sanskrit
Word: बुधः
Root: बुध
Gender: पुं
Number: all
Meaning(s):
god
dog
sage
wise
clever
Mercury
awaking
wise man
learned man
intelligent
Mercury [planet]
author of rigveda
wise or learned man
Shloka(s):
1|3|26|1 रौहिणेयो बुधः सौम्यः समौ सौरिशनैश्चरौ। (दिग्वर्गः)
3|3|82|1 ख्याते हृष्टे प्रतीतोऽभिजातस्तु कुलजे बुधे। (नानार्थवर्गः)
3|3|131|2 प्राप्तरूपस्वरूपाभिरूपा बुधमनोज्ञयोः॥ (नानार्थवर्गः)
Synonym(s):
1|3|26|1 रौहिणेयः (रौहिणेय) (पुं)
1|3|26|1 बुधः (बुध) (पुं) god, dog, sage, wise, clever, Mercury, awaking, wise man, learned man, intelligent, Mercury [planet], author of rigveda, wise or learned man
1|3|26|1 सौम्यः (सौम्य) (पुं) mild, happy, bland, serum, placid, gentle, lovely, Brahman, likable, cheerful, northern, adherent, pleasant, left hand, agreeable, auspicious, worshipper, gastric juice, cool and moist, month mArgazIrSa, resembling the moon, name of the Vedic RSi budha, blood before it becomes red, particular class of deceased ancestors, cluster fig tree [Ficus Glomerata - Bot.], fifteenth cubit from the bottom or the third from the top of the sacrificial post
3|3|82|1 अभिजातः (अभिजात) (पुं) fit, born, noble, inbred, proper, handsome, produced, well-born, aristocrat, wise learned, obtained by birth, obtained in, at birth, born in consequence of
3|3|82|1 (अभिजात) (स्त्री) fit, born, noble, inbred, proper, handsome, produced, well-born, aristocrat, wise learned, obtained by birth, obtained in, at birth, born in consequence of
3|3|82|1 अभिजातम् (अभिजात) (नपुं) fit, born, noble, inbred, proper, handsome, produced, well-born, aristocrat, wise learned, obtained by birth, obtained in, at birth, born in consequence of
3|3|131|2 प्राप्तरूपः (प्राप्तरूप) (पुं) fit, wise, proper, learned, suitable, pleasant, beautiful
3|3|131|2 (प्राप्तरूप) (स्त्री) fit, wise, proper, learned, suitable, pleasant, beautiful
3|3|131|2 प्राप्तरूपम् (प्राप्तरूप) (नपुं) fit, wise, proper, learned, suitable, pleasant, beautiful
3|3|131|2 स्वरूपः (स्वरूप) (पुं) wise, like, learned, similar, handsome, pleasing, having a like nature or character, having one's own peculiar form or character
3|3|131|2 (स्वरूप) (स्त्री) wise, like, learned, similar, handsome, pleasing, having a like nature or character, having one's own peculiar form or character
3|3|131|2 स्वरूपम् (स्वरूप) (नपुं) wise, like, learned, similar, handsome, pleasing, having a like nature or character, having one's own peculiar form or character
3|3|131|2 अभिरूपः (अभिरूप) (पुं) moon, wise, learned, handsome, pleasing, beautiful, conformable to, corresponding with
3|3|131|2 (अभिरूप) (स्त्री) moon, wise, learned, handsome, pleasing, beautiful, conformable to, corresponding with
3|3|131|2 अभिरूपम् (अभिरूप) (नपुं) moon, wise, learned, handsome, pleasing, beautiful, conformable to, corresponding with
Related word(s):
परा_अपरासंबन्धः ग्रहः
जातिः ग्रहः
उपाधि नाम
शब्दकल्पद्रुमः
Sanskrit
बुधः,
पुं,
(बुध्यते यः “बुध् + इगुपधज्ञाप्रीकिरःकः ।” १३५ इति कः ।) पण्डितः ।तत्पर्य्यायः विद्वान् विपश्चित् दोषज्ञः ४सन् सुधीः कोविदः धीरः मनीषी ९ज्ञः १० प्राज्ञः ११ संख्यावान् १२ पण्डितः १३कविः १४ धीमान् १५ सूरिः १६ कृती १७कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूर-दर्शी २१ दीर्घदर्शी २२ इत्यमरः ।५
विदग्धः २३ दूरदृक् २४ सूरी २५ वेदी२६ वृद्धः २७ बुद्धः २८ विधानगः २९ प्रज्ञिलः३० इति शब्दरत्नावली
व्यक्तः ३१ प्राप्त-रूपः ३२ सुरूपः ३३ अभिरूपः ३४ बुधानः ३५कवितावेदी ३६ वप्ता ३७ विदितः ३८ कविः२९ इति जटाधरः
(यथा, नवरत्ने ।“अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि-र्बुधंविद्याभी रसिकं रसेन सकलं शीलेन कुर्य्या-द्वशम्
”)नवग्रहान्तर्गतचतुथग्रहः बृहस्पति-भार्य्यातारागर्भे चन्द्राज्जातः तत्पर्य्यायः ।रौहिणेयः सौम्यः इत्यमरः २६ ।हेमा वित् ज्ञः बोधनः इन्दुपुत्त्रः ।इति ज्योतिस्तत्त्वम्
*
तस्य जन्मादि-वृत्तान्तं यथा “मदावलेपाच्च सकलदेवगुरो-र्बृहस्पतेस्तारां नाम पत्नीं जहार बहुशस्तुबृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानःसकलैश्च देवर्षिभिर्याच्यमानोऽपि मुमोच ।तस्य बृहस्पतिद्बेषादुशना पार्ष्णिग्राहोऽभूत् ।अङ्गिरसश्च सकाशादुपलब्धविद्यो भगवान्रुद्रो बृहस्पतेः साहाय्यमकरोत् यतश्चोशनाततोहि जम्भकुम्भाद्याः समस्ता एव दैत्यदानव-निकाया महान्तमुद्यमञ्चक्रुः बृहस्पतेरपिसकलदेवसैन्यसहायः शक्रोऽभवत् एवं तयोरतीवोग्रः संग्रामस्तारानिमित्तस्तारकामय-नामाभवत् ततश्च समस्तशस्त्राण्यसुरेषु रुद्र-पुरोगमा देवाः देवेषु चाशेषदानवा मुमुचुः ।एवञ्च देवासुराहवक्षोभक्षुब्धहृदयमशेषमेवजगद् ब्रह्माणं शरणं जगाम ततश्च भगवान-प्युशनसं शङ्करमसुरान् देवांश्च निवार्य्य बृह-स्पतये तारामदात् ताञ्चान्तःप्रसवामवलोक्यबृहस्पतिराह नैष मम क्षेत्रे भवत्यान्यसुतोधार्य्यत उत्सृजैनं अलमलमतिधार्ष्ट्येनेति ।सा तेनैवमुक्ता पतिव्रता भर्त्तृवचनात्तमिषी-कास्तम्बे गर्भमुत्सर्ज चोत्सृष्टमात्र एवाति-तेजसा देवानां तेजांस्याचिक्षेप बृहस्पति-मिन्दुञ्च तस्य कुमारस्यातिचारुतया साभि-लाषौ दृष्ट्वा देवाः समुत्पन्नसन्देहास्तारांपप्रच्छुः सत्यं कथयास्माकमतिसुभगे ! कस्या-यमात्मजः सोमस्याथ बृहस्पतेरित्युक्तापि सातारा ह्निया किञ्चिदुवाच बहुशोऽप्य-भिहिता यदासौ देवेभ्यो नाचचक्षे ततः सकुमारस्तां शप्तुमुद्यतः प्राह दुष्टाम्ब !कस्मान्मम तातं नाख्यासि अद्यैव ते अलीक-लज्जावत्यास्तथा शास्तिमयमहं करोमि ।यथा नैवमन्याप्यतिमन्थरवचना भविष्यतीति ।अथ भगवान् पितामहस्तं कुमारं सन्निवार्य्यस्वयमपृच्छत्ताराम् कथय वत्से ! कस्याय-मात्मजः सोमस्याथ बृहस्पतेरित्येवमुक्ता लज्जा-जडमाह सोमस्येति ततः स्फुरदुच्छ्वसिता-मलकपोलकान्तिर्भगवानुडुपतिरालिङ्ग्य कुमारंसाधु साधु वत्स ! प्राज्ञोऽसीति बुध इति नामचक्रे इति विष्णुपुराणे अंशे अध्यायः
मत्स्यपुराणे चतुर्व्विंशाध्याये विशेषश्चायम् ।सूत उवाच ।“ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः ।दिव्यपीताम्बरधरः पीताभरणभूषितः
सर्व्वास्त्रशास्त्रविद्बिद्वान् हस्तिशास्त्रप्रवर्त्तकः ।राज्ञः सोमस्य पुत्त्रत्वाद्राजपुत्त्रो बुधः स्मृतः
जातमात्रः तेजांसि सर्व्वाण्येवाक्षिपद्बली ।ब्रह्माद्यास्तत्र ते जग्मुर्देवा देवर्षिभिः सह
बृहस्पतिगृहे सर्व्वं जातकर्म्मोत्सवं तदा ।पप्रच्छुश्च सुरास्तारां केन जातः कुमारकः
ततः सा लज्जिता तेषां किञ्चिदवदत्तदा ।पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना
सोमस्येति चिरादाह ततोऽगृह्णाद्बिधुः सुतम् ।बुध इत्यकरोन्नाम प्रादाद्राज्यञ्च भूतले
अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः ।ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः
पश्यतां सर्व्वभूतानां तत्रैवान्तरधीयत ।इलोदरे धर्म्मिष्ठं बुधः पुत्त्रमजीजनत्
”अन्यत् सर्व्वमाख्यानमेकमेव
*
अस्य वर्णःदूर्व्वाश्यामः उत्तरदिङ्नपुंसकशूद्र-जात्यथर्व्ववेदरजोगुणमिश्रितरसमिथुनराशिम-रकतमणिमगधदेशानामधिपतिः अस्य मित्रंआदित्यः शुक्रश्च अस्य शत्रुः शशी अस्यराशिभोगः अष्टादश दिनानि इति ज्योति-स्तत्त्वम्
*
तु मगधदेशोद्भवः अत्रि-वंशजातः द्व्यङ्गुलदीर्घः पीतवर्णः वैश्य-जातिः चतुर्भुजः वामोर्द्ध्वक्रमतश्चर्म्मवर-खड्गगदाधारी सूर्य्यास्यः सिंहवाहनः ।सौम्यः पीतवस्त्रः अस्याधिदेवता नारायणः ।प्रत्यधिदेवता विष्णुः धनिष्ठानक्षत्रयुक्तद्वादश्यांजातः इति ग्रहयज्ञतत्त्वम्
*
ग्राम-चारी शुभग्रहः नीलवर्णः सुवर्णद्रव्य-स्वामी वर्त्तुलाकृतिः शिशुः इष्टकागृह-सञ्चारी वातपित्तकफात्मकः स्त्रीग्रहः ।प्रातःकाले प्रबलः पक्षिस्वामी सकलरस-प्रियश्च इति ज्योतिषम् अस्य वारे जात-फलं यथा, --“गुणी गुणज्ञः कुशलः क्रियादौविलासशाली मतिमान् विनीतः ।मृदुस्वभावः कमनीयमूर्त्ति-र्बुधस्य वारे प्रभवो मनुष्यः
”इति कोष्ठीप्रदीपः
*
सूर्य्यवंशीयराजविशेषः यथा, --“तस्मात् कृतिरथस्तस्य देवामीढस्ततो बुधः ।बुधाच्च विबुधश्चैव तस्मान्महाधृतिस्ततः
”इत्यग्निपुराणम्
(वेगवतो राज्ञः पुत्त्रः यथा, भागवते ।२ ३० ।“तत्सुतः केवलस्तस्मात् बन्धुमान् वेगवांस्ततः ।बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः
”)