| YouTube Channel

बुद्धीन्द्रियं (buddhIndriyaM)

 
शब्दकल्पद्रुमः
Sanskrit
बुद्धीन्द्रियं,
क्ली,
(बुद्धेर्बुद्ध्यात्मकं वा इन्द्रियम् ।)ज्ञानेन्द्रियम् यथा, --“मनः कर्णौ तथा नेत्रे रसना त्वक् नासिके ।बुद्धीन्द्रियमिति प्राहुः शब्दकोशविचक्षणाः
”इति शब्दरत्नावली
(यथा मनुः ९०-९२ ।“श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैवपञ्चमी ।पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता
बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्व्वशः ।कर्म्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते
एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् ।यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ