| YouTube Channel

बुद्धः (buddhaH)

 
Apte Hindi
Hindi
बुद्धः
पुं*
- -
"बुद्धिमान् या विद्वान् पुरुष, ऋषि"
बुद्धः
पुं*
- -
(बौद्धों के साथ) बुद्धिमान या ज्ञानज्योति से प्रकाशमान पुरुष जो सत्य के प्रत्यक्ष ज्ञानद्वारा जन्म-मरण से छुटकारा पा चुका है तथा जो स्वयं मुक्त होने से पूर्व संसार की मोक्ष या निर्वाण प्राप्त करने की रीति बतलाता है
बुद्धः
पुं*
- -
शाक्यसिंह का नाम ‘बुद्ध’ जो बौद्धधर्म का प्रसिद्ध प्रवर्तक था
बुद्धः
पुं*
- बुध्+क्त
विद्वान पुरुष
बुद्धः
पुं*
- बुध्+क्त
वह व्यक्ति जिसने ‘सत्य ज्ञान’ जान लिया है तथा जो स्वयं निर्वाण प्राप्त करने से पूर्व संसार को मोक्ष का मार्ग बतलाता हैं
बुद्धः
पुं*
- बुध्+क्त
परमात्मा
Wordnet
Sanskrit
Synonyms:
बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः
noun
बौद्धधर्मस्य प्रवर्तकः यं जनाः ईश्वरं मन्यन्ते।
"कुशीनगरम् इति बुद्धस्य परिनिर्वाणस्थलं इति ख्यातम्।"
वैजयन्तीकोषः
Sanskrit
Word: बुद्धः
Root: बुद्ध
Gender: पुं
Number: all
अर्थः विष्णोः बुद्धावतारः
Meaning(s):
Buddha
Shloka(s):
1|1|31|1 दत्तात्रेयश्च कल्की बुद्धश्चेत्येवमादयः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|32|2 बुद्धस्तु श्रीघनः शास्ता बोधिसत्त्वो विनायकः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|33|1 समन्तभद्रः सर्वज्ञो मारजिल्लोकजिज्जिनः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|33|2 षडभिज्ञो दशबलो धर्मराजस्तथागतः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|34|1 मुनीन्द्रः सुगतः शाक्यो मुनिरद्वयवाद्यपि। (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
1|1|31|1 बुद्धः (बुद्ध) (पुं) Buddha - Incarnation of Viṣṇu विष्णोः बुद्धावतारः
1|1|32|2 बुद्धः (बुद्ध) (पुं) Buddha विष्णोः बुद्धावतारः
1|1|32|2 श्रीघनः (श्रीघन) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|32|2 शास्ता (शास्तृ) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|32|2 बोधिसत्त्वः (बोधिसत्त्व) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|32|2 विनायकः (विनायक) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|1 समन्तभद्रः (समन्तभद्र) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|1 सर्वज्ञः (सर्वज्ञ) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|1 मारजित् (मारजित्) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|1 लोकजित् (लोकजित्) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|1 जिनः (जिन) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|2 षडभिज्ञः (षडभिज्ञ) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|2 दशबलः (दशबल) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|2 धर्मराजः (धर्मराज) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|33|2 तथागतः (तथागत) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|34|1 मुनीन्द्रः (मुनीन्द्र) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|34|1 सुगतः (सुगत) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|34|1 शाक्यः (शाक्य) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|34|1 मुनिः (मुनि) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
1|1|34|1 अद्वयवादी (अद्वयवादिन्) (पुं) Epithet of Buddha विष्णोः बुद्धावतारः
Related word(s):
अवतारः शाक्यसिंहः
जातिः ऋषिः
अमरकोशः
Sanskrit
Word: बुद्धः
Root: बुद्ध
Gender: पुं
Number: all
Meaning(s):
Buddha
Shloka(s):
1|1|13|1 सर्वज्ञः सुगतो बुद्धो धर्मराजस्तथागतः। (स्वर्गवर्गः)
1|1|13|2 समन्तभद्रो भगवान्मारजिल्लोकजिज्जिनः॥ (स्वर्गवर्गः)
1|1|14|1 षडभिज्ञो दशबलोऽद्वयवादी विनायकः। (स्वर्गवर्गः)
1|1|14|2 मुनीन्द्रः श्रीघनः शास्ता मुनिः शाक्यमुनिस्तु यः॥ (स्वर्गवर्गः)
Synonym(s):
1|1|13|1 सर्वज्ञः (सर्वज्ञ) (पुं)
1|1|13|1 सुगतः (सुगत) (पुं) buddha, Buddhist, going well, well-bestowed, Buddhist teacher, one who has fared well
1|1|13|1 बुद्धः (बुद्ध) (पुं)
1|1|13|1 धर्मराजः (धर्मराज) (पुं) buddha, any king or prince, just or righteous king, Law conceived as a king
1|1|13|1 तथागतः (तथागत) (पुं) Buddhist, gautama buddha, of such a quality or nature, being in such a state or condition, he who comes and goes in the same way
1|1|13|2 समन्तभद्रः (समन्तभद्र) (पुं) buddha or a jina, wholly auspicious, one of the four main Bodhisattvas of Mahayana Buddhism
1|1|13|2 भगवान् (भगवत्) (पुं) God, holy, happy, divine, lordly, blessed, heavenly, adorable, glorious, fortunate, venerable, prosperous, illustrious, name of ziva, possessing fortune, divine or adorable one, name of a buddha or a bodhisattva or a jina
1|1|13|2 मारजित् (मारजित्) (पुं)
1|1|13|2 लोकजित् (लोकजित्) (पुं) sage, winning Heaven, conqueror of the world, winning or conquering any region
1|1|13|2 जिनः (जिन) (पुं) viSNu, arhat, buddha, Victor, very old, number 24, victorious, metrically for jaina
1|1|14|1 षडभिज्ञः (षडभिज्ञ) (पुं) buddha, Buddhist, possessed of the six abhijJAs
1|1|14|1 दशबलः (दशबल) (पुं)
1|1|14|1 अद्वयवादी (अद्वयवादिन्) (पुं) jaina, buddha, or identity, one who teaches advaya
1|1|14|1 विनायकः (विनायक) (पुं) guide, buddha, leader, Remover, obstacle, removing, impediment, Guru or spiritual preceptor, particular class of demons [pl.], taking away [removing, impediment, obstruction]
1|1|14|2 मुनीन्द्रः (मुनीन्द्र) (पुं)
1|1|14|2 श्रीघनः (श्रीघन) (पुं)
1|1|14|2 शास्ता (शास्तृ) (पुं) ruler, father, teacher, punisher, commander, chastiser, instructor
1|1|14|2 मुनिः (मुनि) (पुं)
Related word(s):
जातिः ऋषिः
शब्दकल्पद्रुमः
Sanskrit
बुद्धः,
पुं,
(बुध्यते स्म इति बुध + क्त यद्वा भावेक्त बुद्धं ज्ञानमस्यास्तीति अर्शआद्यच् ।)भगवदवतारविशेषः तु दशावतारान्तर्गत-नवमावतारः यथा, --“ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् ।बुद्धो नाम्नाञ्जनमुतः कीकटेषु भविष्यति
”इति श्रीभागवते स्कन्धे अध्यायः
अञ्जनस्य सुतः अजिनसुत इति पाठे अजि-नोऽपि एव कीटकेषु मध्ये गयाप्रदेशे ।इति श्रीधरस्वामी
तत्पर्य्यायः सर्व्वज्ञः २सुगतः धर्म्मराजः तथागतः समन्त-भद्रः भगवान् मारजित् लोकजित् ९जिनः १० षडभिज्ञः ११ दशबलः १२ अद्वय-वादी १३ विनायकः १४ मुनीन्द्रः १५ श्रीघनः १६शास्ता १७ मुनिः १८ इत्यमरः १३
धर्म्मः १९ त्रिकालज्ञः २० धातुः २१ बोधि-सत्त्वः २२ महाबोधिः २३ आर्य्यः २४ पञ्च-ज्ञानः २५ दशार्हः २६ दशभूमिगः २७ चतु-स्त्रिंशज्जातकज्ञः २८ दशपारमिताधरः २९द्वादशाक्षः ३० त्रिकायः ३१ संगुप्तः ३२ दया-कूर्च्चः ३३ खजित् ३४ विज्ञानमातृकः ३५महामैत्रः ३६ इति हेमचन्द्रः १४६
धर्म्मचक्रः ३७ महामुनिः ३८ असमः ३९खसमः ४० मैत्री ४१ बलः ४२ गुणाकरः ४३अकनिष्ठः ४४ त्रिशरणः ४५ बुधः ४६ वक्री ४७वागाशनिः ४८ जितारिः ४९ अर्हणः ५०अर्हन् ५१ महासुखः ५२ इति शब्दरत्ना-वली
महाबलः ५३ इति जटाधरः
*
ईश्वरनिरूपणे बुद्धविशेषाणां मतमाह सर्व्वज्ञइति सौगताः निरावरण इति दिगम्बराः ।लोकव्यवहारसिद्ध इति चार्व्वाकाः शरीराण्येवचेतनानि गौरोऽहं जानामीत्यादिज्ञानेन गौरवत्त्वज्ञानवत्त्वयोः सामानाधिकरण्यानुभवा-दिति चार्व्वाकाणां मतञ्च तेषां मते जगतःक्षणभङ्गुरत्वं नन्वस्तु क्षणभङ्गः पूर्व्वपुञ्जाच्चोत्तर-पुञ्जोत्पत्तिस्तथा पुञ्जनिष्ठ एव कुर्व्वद्रूप-त्वाख्यजातिविशेषः स्मरणजनकतावच्छेदकइति दोषः इति कुसुमाञ्जलिप्रथमस्तवक-टीकायां रामभद्रः
*
बुद्धानां दशविधमतभेदमाह ।“वदन्ति पुत्त्र आत्मेति दृढप्राकृतबुद्धयः ।देह आत्मेति चार्व्वाका इन्द्रियाण्यपरे ३च ते
तेऽन्ये प्राण स्ततोऽन्ये ते मन आत्मेतिवादिनः ।बुद्धिरात्मेति बौद्धा वै शून्यमात्मेति तेऽपरे
याज्ञिका यज्ञपुरुषं सर्व्वज्ञं स्रौगता विदुः ।निरावरण माहुर्यं दिगम्बरमतानुगाः
चार्वाकाश्चापि लोकानां व्यवहारप्रसिद्ध-कम् १०
”इत्यात्मप्रकाशः
*
पण्डितः बुधिते, त्रि इति मेदिनी धे, १०
(बुद्धावतारस्य विवरणं यथा, --इह खलु बौद्धशास्त्रसमूहेषु सम्प्रोक्ताःपञ्चविंशतिर्बुद्धा दृश्यन्ते तेषां शुद्धोदनौरसात्मायादेवीगर्भजातः शाक्यसिंहसर्व्वार्थसिद्धार्क-बन्धुगौतमेति नामचतुष्टयेन प्रसिद्धोऽन्तिम-तमः लोकविश्रुतो बुद्धः कपिलवस्तुनगरेकलेश्चतुःशतषडशीत्यधिकद्विसहस्रमितेषु गते-ष्वब्देषु शुक्रवासरे सुरद्विषां सम्मोहनायसाक्षाद् विवेकमूर्त्तिः स्वेच्छाविग्रहेण प्रादुर्बभूव ।अथ वयसा सह क्रमेण शीलगुणसाहस-रूपौदार्य्यबलवीर्य्यादिभिर्वर्द्धते स्म उदिते यौधनेपित्राज्ञया शाक्यान्वयजां मनोज्ञां रूप-लावण्यवतीं दण्डपाणितनयां गोपानाम्नीमनु-मतामुपयेमे ।जननसमयेऽस्य गणकाच्छ्रुतवान् नरेश्वरःशुद्धोदनः व्याधिग्रस्तजराजर्ज्जरसन्न्यासिमृतजन-दर्शनाज्जातवैराग्यः पुत्त्रस्ते गृहं सन्त्यक्ष्य-तीति तस्मात् सञ्जातशङ्को राजा शिल्पिभि-रुपवनपरिवृतं सुगुप्तं रम्यं हर्म्म्यत्रयं भूभूषणंनिर्म्मापयामास तत्रासौ युवतीजनपरिवेष्टित-मुपच्छन्दितं विषयविमुग्धचेतसं तनयं निवृत्त-निर्गमनम् स्वच्छन्देनान्ववासयत् अथ गच्छतिकालेऽस्य शिथिलीबभूव भोगसन्तर्षः ततःकारागारमिव प्रतीयमानं निष्कुटनिकेतं विहा-यास्य धरण्या नानास्थानं द्रष्टुमिच्छा सञ्जाता ।ततः सोऽस्मै पित्रे शुद्धोदनाय सम्बोधया-मास पर्य्यट्य नगरं प्रजानामृद्धिमवस्थाञ्च विलो-कयितुं वासना मे बलवतीति राजा प्रथमंनिवारयितुमियेष प्रलोभनेन नैव तुततो विरराम अथ विज्ञाय निर्बन्धं पुत्त्रस्यमन्त्रिणमादिदेश, कुमारे शाक्यसिंहे भ्रमितु-मारब्धे राष्ट्रे मे जरातुरसन्न्यासिमृतमानवाःकेनापि कारणेन राजवर्त्मनि नोपतिष्ठन्तामितिविघोषयेति तथानुष्ठिते कुमारः रथमारुह्यसारथिना सह बहिर्निगत्य भ्रमितुमारब्ध-वान् ततश्चतुर्दिक्षु प्रकृतिभिस्तारस्वरैर्जयोऽस्यप्राघोषि नगरं वीक्ष्यासौ मनसि परां मुदंप्राप्तवान् ।अथ जरया जर्ज्जरतनुं मानवमेकं दृष्ट-वान् इतः प्राक् कदाचिदपि शाक्यसिंहोजगतो दुःखं नानुभूतवान् इदानीं निरीक्ष्यप्रथमं तं जराग्रस्तं विवरणमस्य विज्ञातुं कुतू-हली सारथिं पप्रच्छ तदुक्तं यथा, --“किं सारथे ! पुरुष दुर्ब्बल अल्पस्थामउच्छुष्कमांस रुधिरत्वचस्नायुनद्धः ।श्वेतशिरो विरलदन्तकृशाङ्गरूपआलम्ब्य दण्ड व्रजतेऽसुखं स्खलन्त
सारथिराह ।एषो हि देव ! पुरुषो जरयाभिभूतःक्षीणेन्द्रियः सुदुःखितो बलवीर्य्यहीनो ।बन्धुजनेन परिभूत अनाथभूतःकार्य्यासमर्थ अपविद्ध वनेव दारुः
वोधिसत्त्व आह ।कुलधर्म्म एष अयमस्य हितं भणाहिअथवापि सर्व्वजगतोऽस्य ह्यवस्था ।शीघ्रं भणाहि वचनं यथभूतमेत-च्छ्रुत्वा तथार्थमिह योनि सञ्चिन्तयिष्ये
सारथिराह ।नैतस्य देव ! कुलधर्म्म राष्ट्रधर्म्मःसर्व्वे जगस्य जरयौवनधर्षयाति ।तुभ्यंपि मातृपितृबान्धवज्ञातिसंघोजरया अमुक्तं हि अन्यगतिर्जनस्य
”बोधिसत्त्व आह ।धिक् सारथे ! अबुधबालजनस्य बुद्धि-र्यद्यौवनेन मदत्त जरां पश्यी ।आवर्त्तयाश्विह रथं पुनरहं प्रवेक्ष्येकिं मह्य क्रीडरतिभिर्जरयाश्रितस्य
”इति ललितविस्तरे १४ अध्याये ।अथ शाक्यसिंहः सारथिं सन्दिदेश रथंसञ्चालयेति गत्वा नगरस्य दक्षिणे द्वारिव्याधिग्रस्तं यातनापरीतपुरुषमेकमीक्षाञ्चक्रे ।ततः सारथिं पप्रच्छ तदुक्तं यथा, --“किं सारथे ! पुरुष रूपविवर्णगात्रःसर्व्वेन्द्रियेभि विकलो गुरु प्रश्वसन्तः ।सर्व्वाङ्गशुष्क उदराकुल प्राप्तकृच्छ्रामूत्रे पुरीष स्वकि तिष्ठति कुत्सनीये
”सारथिराह ।एषो हि देवपुरुषः परमं गिलानोव्याधीभयं उपगतो मरणान्तप्राप्तः ।आरोग्यतेजरहितो बलविप्रहीनोअत्राणवीप्रशरणो ह्यपरायणश्च
”बोधिसत्त्व आह ।“आरोग्यता भवते यथ स्वप्नक्रीडाव्याधिर्भयञ्च इम ईदृश घोररूपम् ।को नाम विजपुरुषो इम दृष्ट्व यस्थांक्रोडारतिञ्च जनयेच्छुभसंज्ञितां वा
”अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्त्यरथवरं पुनरपि पुरवरे प्राविशत् ।इति हि भिक्षवो बोधिसत्त्वोऽपरेण कालसम-येन पश्चिमेन नगरद्वारेणोद्यानभूमिमभिनिष्क्रमन्महता व्यूहेन सोऽद्राक्षीत् पुरुषं मृतंकालगतं मार्गे समारोपितं चेलवितानीकृतंज्ञातिसङ्घपरिवृतं सर्व्वैरुदद्भिः क्रन्दद्भिः परि-देवमानैः प्रकीर्णकेशैः पार्श्वावकीर्णशिरोभि-रुरांसि ताडयद्भिरुत्क्रोशद्भिः पृष्ठतोऽनुग-च्छद्भिः दृष्ट्वा पुनर्बोधिसत्त्वो जानन्नेवसारथिमिदमवोचत् ।“किं सारथे ! पुरुष मञ्चोपरिगृहीतोउद्वूत केशनख पांशु शिरे क्षिपन्ति ।परिचारयित्व विहरन्तुरस्ताडयन्तोनानाविलापवचनानि उदीरयन्तः
”सारहिराह ।“एषो हि देवपुरुषो मृतु जम्बुद्बीपेन हि भूय मातृपितृ द्रक्ष्यति पुत्त्रदाराम् ।अपहाय भोगगृहमातृपितृमित्रज्ञातिसङ्घंपरलोक प्राप्तु हि द्रक्ष्यति भूय ज्ञातिम्
”बोधिसत्त्व आह ।“धिग्यौवनेन जरया समभिद्रुतेनआरोग्य धिग्विविधव्याधिपराहतेन ।धिग्जीवितेन पुरुषो चिरस्थितेनधिक्पण्डितस्य पुरुषस्य रतिप्रसङ्गैः
यदि जर भवेया नैव व्याधिर्न मृत्यु-स्तथपि महदुःखं पञ्चस्कन्धं धरन्तोकिं पुन जरव्याधिमृत्यु नित्यानुबद्धाःसाधु प्रतिनिवर्त्त्य चिन्तयिष्ये प्रमोचम्
अथ खलु भिक्षवो बोधिसत्त्वः प्रतिनिवर्त्त्य तंरथवरं पुनरपि पुरं प्राविशत्
इति हिभिक्षवो बोधिसत्त्वस्यापरेण कालसमयेनोत्तरेणनगरद्वारेणोद्यानभूमिमभिनिष्क्रामतस्तरेव देवपुत्त्रैर्बोधिसत्त्वस्यानुभावेनैव तस्मिन् मार्गेभिक्षुरभिनिर्म्मितोऽभूत्
अद्राक्षीद्बोधिसत्त्वस्तंभिक्षुं शान्तं दान्तं संयतं ब्रह्मचारिणमनतिक्षिप्तचक्षुर्युगमात्रप्रेक्षिणं प्रासादिकेनेर्ष्यापथेनसम्पन्नं प्रासादिकेनाभिक्रमप्रतिक्रमेण सम्पन्नंप्रासादिकेनालोकितव्यवलोकितेन प्रासादिकेनसङ्घाटीपिण्डपात्रचीवरधारणेन मार्गे स्थितम् ।दृष्ट्रा पुनर्बोधिसत्त्वो जानन्नेव सारथिमिद-मवोचत् ।“किं सारथे ! पुरुष शान्त प्रशान्तचित्तोनोत्क्षिप्तचक्षु व्रजते युगमात्रदर्शी ।काषायवस्त्रवसनो सुप्रशान्तचारीपात्रं गृहीत्व उद्धत उन्नतो वा
सारथिराह ।एषो हि देवपुरुष इति भिक्षुनामाअपहाय कामरतयः सुविनीतचारी ।प्रव्रज्यप्राप्तः सममात्मन एषमाणोसंरागद्वेषविगतो तिष्ठति पिण्डचर्य्या
बोधिमत्त्व आह ।साधु सुभाषितमिदं मम रोचते चप्रव्रज्य नाम विदुभिः सततं प्रशस्ता ।हितमात्मनश्च परमत्त्वहितञ्च यत्रसुखजीवितं सुमधुरममृतं फलञ्च
”इति ललितविस्तरे १४ अः ।ततः संक्षुब्धचित्तोऽसौ स्वकीयं शुद्धान्तंविवेश दिवसेऽस्मिन् राहुलनामा पुत्त्रोऽस्यसमजनि राजा शुद्धोदनः स्वाङ्गजस्य भ्रमण-वृत्तान्तं सर्व्वं निशम्यास्य सन्न्यासग्रहणं शङ्क-मानः चतुर्षु नगरद्वारेषु सेनाव्यूहान् सन्निवेश-यति स्म तस्य परिरक्षणार्थम् ।रतिरसाभिज्ञान् युवतिजनानन्तःपुरेषु बहु-तरान् प्रेषयामास बोधिसत्त्वस्य प्रमोहनाय ।अथागता रजनी, सिद्धार्थस्य तु चित्तं व्याकु-लितमतीव गेहात् प्रव्रज्य भैक्ष्यग्रहणार्थम् ।ततो नृत्यादिप्रमोदात् परं निद्रिताः सर्व्वा युवतीर्विलोक्य शयनात् शनैः शनैरुत्थितो व्यलोकयत् ।“तत्र काश्चिद्व्यपकृष्टवस्त्राः काश्चिद्-विधुतकेश्यः काश्चिद्विकीर्णाभरणाः काश्चिद्-विभ्रष्टमुकुटाः काश्चिद्बिहतैरंशैर्विगोपितगात्र्यःकाश्चिद्विसंस्थितमुखाः काश्चिद्बिपरिवर्त्तित-नयनाः काश्चित् प्रस्रवन्त्यो लालाभिः काश्चि-द्धसन्त्यः काश्चित् प्रहसन्त्यः काञ्चित्प्रलपन्त्यःकाश्चिद्दन्तान् कटकटायन्त्यः काश्चिद्बिवर्ण-वदनाः काश्चिद्विसंस्थितरूपाः काश्चित् प्रल-म्बितबाहवः काश्चिद्विक्षिप्तवदनाः काश्चिदुद्-घाटितशीर्षाः काश्चिदवगुण्ठितशीर्षाः काश्चि-द्विपरीतवर्त्तितमुखमण्डलाः काश्चित् प्रध्वस्त-शरीराः काश्चिद्बिभग्नगात्र्यः काश्चिन्निकुब्जाःखुरुखुरायमानाः काश्चिन्मृदङ्गमुपगुह्य परि-वर्त्तितशीर्षशरीराः काश्चिद्बीणावल्लक्याद्यपरि-बुद्धपाणयः काश्चिद्वेणुं दन्तैः कटकटायन्त्यःकाश्चित् किम्पलनकुलसम्पताडावकर्षितवाद्य-भाण्डाः काश्चिन्निमेषोन्मेषपरिवर्त्तनयनाः काश्चि-द्विवृत्तास्या एवं तद्विकृतं धरणीतलगतमन्तः-पुरं निरीक्षमाणो बोधिसत्त्वः श्मशानसंज्ञा-मुत्पादयति स्म ।” तत्रेदमुच्यते ।“तां दृष्ट्व उद्विग्न लोकनाथःकरुणं विनिश्वस्य इदं जगाद ।अहो वता कृच्छ्रगता व्रजेयंकथं रतिं बिन्दति राक्षसीगणैः
अतिमोहतमावृते दुर्म्मति-कामगुणैर्निर्गुणसंज्ञिनः ।विहगपञ्जरगत्रा यथा नहिलभन्ति कदाचिद् विनिःसृतम्
”इति ललितविस्तरे १५ अध्याये
अतीतेऽथ निशीधे सिद्धार्थाऽश्वपालमाहूयाह“जरामरणपञ्जरनियतसत्त्वपरिमोचनस्य सम-यो ह्युपस्थितो मे ।” अतएव ग्रहीष्यामिसन्न्यासम् विस्मितोऽश्वपालोऽब्रवीत् राज-पुत्त्रस्य ते सन्न्यासग्रहणमनुचितं समर्थोऽसिसन्न्यासाश्रमस्य कष्टानि सोढुम् ।सिद्धार्थ आह ।“विवर्जिताः सर्पशिरा यथा बुधै-र्विगर्हिता मीढघटा यथाशुचिः ।विनाशकाः सर्व्वसुखस्य छन्दकज्ञात्वा हि कामान्न विजायते रतिः
”छन्दक शृणु यानि दुःखशतामार्षिता पूर्व्व-जन्मान्तरे ।बन्धनारुन्धनास्ताडनास्तर्ज्जनाः कामहेतो-र्मया नो निर्व्विदभूत्
संस्कृतमानसं प्रमदवसगतञ्चमोहाकुलं दृष्टिजालावृतम् ।अन्धभूतं पुरा आत्मसंज्ञा-ग्रहाकारका वेदनावीतिवृत्ता इमे
घर्म्माज्ञानतः सम्भूता चलचपलाऽ-नित्यमेघैः समा विद्युद्भिः सदृशाः ।ओसबिन्दूपमा ऋक्ततुच्छा असाराःअनात्मा शून्यस्वभावा इमे सर्व्वशः
स्वयमहमभिरुह्य नावामिमात्मानाऽवतीर्य्यसंसार ओघैरहं तारयिष्येऽनन्तं जगत् ।शोकसंसारकान्ताररोषोर्म्मिरागग्रहा-व्याकुले वैराकुले दुस्तरे एव चित्तं मम
तदात्मनोत्तीर्य्य इदं भवार्णवंसर्वैरदृष्टिर्ग्रहक्लेशराक्षसम् ।स्वयं तरित्वा अनन्तरं जगत्स्थलेऽन्तरीक्षे अजरामरे शिवे
”ललितविस्तरे १५ अध्याये ।अतश्छन्दक ! प्रव्रजाम्यधुनैव सत्वरमानयाश्वम् ।तथानुष्ठिते सिद्धार्थोऽसौ स्त्रीतनयगुरुजनान्सर्व्वान् राज्यमैश्वर्य्यञ्च विहायाश्वमारुह्यनिर्गतः निजनगराद्द्वादशयोजनदूरस्थितंमल्लराज्यं प्राप्य तत्रैव वशिष्ठाश्रमसन्निधौछन्दकमश्वसहितं विसृज्य कौषेयमपहायपिधाय बल्कलवाससमेकाकी वैशालीं नाम-नगरीमुपतस्थे तत्र आराढकालामनामाजिनपुरुषस्त्रिशतकशिष्यैरवात्सीत्, सिद्धार्थो-ऽस्य शिष्योऽभूत् आहैकदा गुरुः, पवित्रचेताऋजुर्भक्तिमान् पुरुष एवालं ब्रह्मचर्य्यं ग्रहीतुम्, लब्धुञ्च सर्व्वमैश्वर्य्यम् हृदि यस्य विमलोनिर्व्वाणप्रदीपः प्रदीप्तस्तमः स्तोमग्रसनपटुर्भवस्य ।न तस्य सुखदमैश्वर्य्यविजृम्भितगुरुवचनम् ।ततः सप्तशतीं शिष्यततिन्दधानस्य रुद्रकनाम्नःसाधोः समीपं गत्वा कृत्वानेन सम्भाषणं गय-शीर्षं जगाम तत्रोद्भावितमनेन यद् ब्राह्मणाःश्रमणाश्च बोधस्वरूपं लब्घुमविशुद्धं कायमानसंनियोजयन्ति तदग्निमुत्पादयितुमार्द्रकाष्ठद्बय-घर्षणमिव वैफल्यं भजते शुष्ककाष्ठखण्डद्वय-घर्षणेन यथा लब्धमनोरथा मानवास्तद्वत्कायमनसोर्विशुद्धयोः सतोः स्वतश्च बोध-लाभः शक्यः ततःपरमसौ बोधिसत्त्वो गत्याग्राममुरुविल्वाख्यं विजनं तत्रैवोषितुं मनोदघे परमयत्नेनात्रैव कायशुद्धिं चित्तशुद्धिञ्चविधाय आस्फालनाख्यं दुर्द्धरं ध्यानं दधार ।अत्रासौ कस्मिंश्चिद्दिवसे वदरीमेकिकां कस्मिं-श्चिद्वा तण्डुलमेकं कदाचिद्बैकमात्रं कलायंभक्षयित्वा कस्मिंश्चिदुपोषणेन वा कालंविलङ्घ्य शुष्कच्छविर्मसीवर्णो बभूव ततोऽसौदेहमित्थं निभज्य लब्धुं सम्बोधं समर्थोभवेय-मिति विचिन्त्य पोषणकरमाहारं जग्राह ।दिवसेऽस्मिन् शुद्धोदनः स्वप्नं ददर्श प्रियः पुत्त्रोमे मणिमुक्तादिविभूषितवारणरूपेण उदुम्बर-तरुमारुरोह त्रैलोक्यलोकाः पूजनायास्या-गच्छन्तीव, यशोघरापि गोपापरनाम्नी ददर्शस्वप्नं विविधम् स्वयं शाक्यसिंहश्च पञ्च, यथा जगदखिलं शय्या मे, विम्बफलमिव सुमेरु-शिखरमुपधानीभूतं मे, वामदक्षिणकरद्वयं मेप्राच्यपश्चिमसमुद्रोपरि पादावुभौ मे दक्षि-णाब्धौ प्लवन्ते, नाभिकमलान् मे समुत्थितैःस्थिरिकातृणैश्चापूरितमखिलं नभः ततश्चो-त्थायासौ ऊरुविल्वोषितायाः सुजातानामि-काया नार्य्याः सकाशात् भिक्षां जग्राह ।इतः सिद्धार्थो ध्यानं दधार, निर्व्वाणे पथि तस्यसततं परिपन्थी सन्नपि दुर्निवारो मारः परा-जितो ध्यानवीरेण योगिसिंहेन पलायनं चक्रे ।ततस्तस्यैव कन्दर्पस्य तनये यतेते तन्द्रा रतिश्चयोगिप्रवरस्य मोहनाय, विफलानि तु जाता-न्यनयोर्मनोरथानि ततः सर्व्वेभ्यः कृच्छ्रेभ्योविसुक्तः सिद्धार्थो बोधञ्च विमलं लेभे तदासा-वधिरूढयोगः मनस्यस्य मुकुरे प्रतिफलितंसकारणमखिलं जगत् ततश्च चिन्तयामास सःजीवानां जन्म, तेषु जीषस्य संयोगो वियोग-श्चैव दुःखदुःखान्येतानि जानीते मानवस्तन्मोहजालेनावृतो दुर्व्विषहं दुःखं सहत इति ।ततः कस्मादागतं जरामरणमिति चेतसा कृतेप्रश्नेतेनैव निश्चिनोति सः, यज्जन्मन एवागच्छतिजरामरणमिति, कुतस्तर्हि ह्यागतं जन्मकिमस्य वा कारणम् ? संसारादस्माज्जाति-रतएव भव एव कारणमत्र भवस्तर्हि कुतआयतः किमस्य वा कारणं ? उपादानादागतोभवस्तदुपादानमेवास्य कारणम् कस्मादुपा-दानमायातन्तर्हि किमस्य वा कारणं ? तृष्णायाआगतमुपादानमतस्तृष्णैव कारणमस्येति तर्हिकुत आयाता तृष्णा कारणं वा किमस्याः ?वेदनाया आगता तृष्णा अतो वेदनव कारण-मस्याः कुत आयाता वेदना, अस्या वा किंकारणम् ? स्पर्शादायाता वेदना, अतः स्पर्शएव कारणं वेदनाया इति स्पर्शस्तर्हि कुतआयातः किं वा कारणमस्य ? षडायतनादागतः स्पर्शस्ततोऽस्य कारणं एवेति ।कुत आयातं षडायतनं कारणं वा किमस्य ?नामरूपाभ्यामागतं षडायतनम् अतएवास्यकारणमेव तैति कुतस्तर्ह्यायाते नामरूपेकारणं वा किमनयोः ? विज्ञानादागते नाम-रूपेऽतोऽनयोः कारणं विज्ञानमिति कुतआयतं विज्ञानन्तर्हि कारणं वा किमस्य ?संस्कारादागतं विज्ञानमतोऽस्य कारणं सएवेति संस्कारस्तर्हि कुत आयातः कारणंवा किमस्य ? अविद्याया आगतः संस्कारस्ततोऽस्य कारणमविद्यैवेति ।स्फुटमिदानीमविद्यैव कारणं जगतोऽखिलस्य ।ततो विलोमेन प्रकटीभूतं यत् अविद्यायाःसंस्कारः संस्काराद् विज्ञानम्, विज्ञानान्नाम-रूपे ताभ्यां नामरूपाभ्यां षडायतनम्, षडाय-तनात् स्पर्शः, स्पर्शाद् वेदना, वेदनायास्तृष्णातृष्णाया उपादानम् उपादानात् संसारःसंसाराज्जातिः जातेर्जरामरणमिति ।प्रकारेणानेनोत्पन्नो दुःखद्रुमो जीवानाम् ।तदिदानीं प्रतिभातं अविद्यैव मूलमस्य पाद-पस्य निरस्तायामविद्यायां कुतो दुःखप्रसङ्गःक्रमेण तस्मात् जन्मजरामरणं दुःखं चिन्ता-क्लेशः पीडा सर्व्वे दूरे पलायन्ते एवंजीवानामुदेति चित्ताकाशे धर्म्मालोकः ।उदिते तस्मिन् मनःसंयोगेन ज्ञानं दर्शनं विद्यास्मृतिर्बुद्धिश्च सर्व्वं प्रत्यक्षीभवति तत इदानींसिद्ध्वार्थो बुद्धः सञ्जातः ।ततश्चागतोऽत्र म्बकानगर्य्या राजा बुद्धस्यश्रीपादपद्मसन्दर्शनाय सोऽस्मै ह्युपदिदेश“अहिंसा परमो धर्म्मः ।” इत्यतस्त्वमनुतिष्ठतद्धर्म्मं निर्व्वाणमोक्षञ्चान्विष्येति ।ततोऽसौ बुद्धो नैरञ्जननाम्नीं नदीं क्षिरिका-वनञ्च त्यक्त्वा उज्ज्वलमुपवनं प्रतस्थे अत्र सऊनपञ्चाशद्वासरानुपोषणमङ्गीकृतवान् ततस्तस्मात् स्थानान्निर्गत्य गयां नाहालं बुन्दद्विरंलोहितवस्तुकं गन्धपुरं सारथिपुरञ्च क्रमेणगत्वा त्यक्त्वा काशिकामुपतस्थे, अत्रास्यकौण्डिन्यः सिद्धः शिष्योऽभूत् बुद्धस्तं नाम्नाज्ञानकौण्डिन्यं चकार कालेऽस्मिन् बहु-संख्यका लोका आगत्यागत्य बुद्धस्य शिष्याअभवन् ।ततः काशीघाम्नः ऊरुविल्वास्थितं सेनानी-नामकं ग्रामं प्रययौ तत्र नैरञ्जनतीरे नाम्नाउरुविल्वाकाश्यपः शताधिकविंशतिवयाः पञ्च-शतशिष्यैरनुगतः प्रतिवसति स्म लोका जान-न्त्यमुमहन्निति बुद्धो गत्वास्य समीपं प्रदा-यास्मै ज्ञानोपदेशं विमलं शिष्यं तं चकार ।दृष्ट्वा शक्तिमलौलिकीं बहवो लोका विस्मिताधर्म्मं बौद्धं गृहीतवन्तः ।तदा विम्बसारो मगधराजः शुश्राव गयशीर्षंबुद्धदेवः प्राप्त इति गत्वा समीपं प्रपूज्य चपरमया भक्त्यास्य शिष्यत्वं स्वीचकार ततोमागधो स्वीयां नगरीं गन्तुं निमन्त्रयामासतम् जग्राहास्य प्रणयं बुद्धः शारीपुत्त्रोऽत्रमौद्गलायनोऽस्य शिष्योऽभवत् ।श्रुतवान् कोशलपतिः प्रसेनजित् बुद्धो देवोराजगृहे जेतवने प्रतिषसत्यधुनेति गत्वा चतत्र त्वरितं बुद्धसन्निधिमुवाच, पूर्णकाश्यपःपरिव्राजकगोशालः वैरापुत्त्रसञ्जयः अजितकेशःकम्बल इत्यते अन्ये बहवो बुद्धर्षयस्तिष्ठन्ति, ते लोके कदापि बुद्धनाम्ना परिचाययितुंशेकुस्तर्हि भवान् किं लज्जते अहं बुद्धइत्यात्मानं परिचाययितुम् बुद्धस्तम् ‘कुमार-दृष्टान्तसूत्रं, श्रावयामास तेनोन्मीलितचक्षुःशिष्योऽभूत्तस्य ततः प्रसेनजित् कोशलराजः ।दीक्षिते राज्ञि कोशलेश्वरे बुद्धः शुद्धोदनायसंवादं प्रेषयामास “राजन् ! पुत्त्रस्ते पपावि-दानीं मृत्युनिवारणममृतम् तेनैव सोऽखिलस्यजगतस्तृष्णां पापीयसीं वारयामास, शुद्धोदनःशाक्यपतिराकर्ण्य वृत्तान्तं परां मुदमवाप ।आनेतुं पुत्त्रं कपिलवस्तुनगर्य्यामस्मै दूतं पुनःपुनः प्रेषितवान् यो यः प्रयाति दूतोऽस्यसकाशं पुनः प्रतिनिवृत्तः स्थितोऽस्यदोक्षितस्तत्रैव शुद्धोदनः साधुं कालुदायीति-नामानं पत्रेण सह प्रेषितवान् उदायीप्राग्गमनादङ्गीचकार यदि चाहं दीक्षितोऽप्य-भविष्यम् वारमेकमपि प्रतिन्यवर्त्तिष्ये उदायीबुद्धस्य समीपं गत्वैव दीक्षितः बुद्धस्तं प्रतिज्ञा-परिपूरणाय शुद्धोदनस्यान्तिकं प्रेषयामास ।उदायी गत्वाह राजानं भो भूप ! देवो बुद्धोऽत्राजिगमिषुर्नत्ववस्थातुमिच्छुर्नगर्य्याम् विहारे-ऽवस्थातुमियेष सः राजा जेतवनस्थमिवन्यग्रोधारामं कपिलवस्तुनगरे विरचय्यागमन-मस्य प्रतीक्षाञ्चक्रे तत्रागत्य बुद्ध्वो न्यग्रोधारामेतस्मिन्नुवास अत्रागत्य पितृव्यौ शुद्धोदनोऽमृ-तोदनश्चास्य लक्षं लक्षं शाक्यसन्ततयश्च शिष्याअभूवन् तत्रावस्थानसमये बुद्धस्य पालयित्रीगौतमी वनिता यशोधरा भैक्षाश्रमं गृहीत-वत्यौ पुत्त्रोऽपि राहुलोऽजातकनिष्ठो जनकेनदीक्षितः ।ततो बुद्धो गृध्रकूटमागत्य वसतिञ्चक्रे समये-ऽस्मिन् देवदत्तोऽस्य ज्ञातिजः शत्रुः शिल्पिनंदाक्षिणात्यादानिनाय तेन निहन्तुं बुद्धंकूटयन्त्रं निरमायि अनेनाहतो बुद्धो व्यथांप्राप निक्षेपणावसरे यन्त्रस्य तं बुद्धं रिरक्षिषुःकुम्भीरस्तत्प्रहारेण प्राणांस्त्यत्याज ।कालेऽस्मिन् विम्बसारे मागधे पञ्चत्वं गतेअजातशत्रुर्लुब्धो दुर्द्दान्तो मगधं शशास, देव-दत्तोऽस्य मित्रमासीत् एकदाजातशत्रुर्बुद्ध-सन्निधावागत्य पप्रच्छ तं “नानाकर्म्मसु व्यासक्तोमनुष्यो धनमभीष्टमुपार्ज्जयितुं यतते, प्राप्यतु वाञ्छितं धनं सुखी भवति, धर्म्मे तथा तुनिधाय मनस्तद्रूपं मुखं प्रत्यक्षमाप्नुयात् किम् ?बुद्धः प्रत्युवाच किं कर्म्मणा यागेन होमेन वा ।न्यायान्यायौ विफलौ अधमानामुत्तमानाञ्चतिरस्कारपुरस्कारौ तद्बन् निष्फलौ पितरौनात्मीयौ योऽस्मिन् जगति प्राप्तवान् महा-सत्यम्, सत्ये पथि प्रविष्टवांश्च जानाति एवजन्मैव मृत्युरिति सोऽस्मिन् जन्मन्येवाक्षयो-ऽव्ययो निर्व्वाणं मोक्षं लभते पुनरायाति सः ।पृथिव्यादिभूतचतुष्टयेऽस्य यथाक्रमं भूतान्ये-कीभवन्ति इत्थमुपदेशेन बुद्धस्य अजातशत्रो-र्मानसं तत् क्षणादेव प्रवणं बभूव योऽस्यजुगुप्सापात्रमासीत् इदानीं भक्तिपात्रमस्या-भूत् अजातशत्रुर्बुद्धाद् दीक्षां जग्राह ।गृध्रकूटाद्बुद्धः पाटलीग्राममाजगाम कपि-लनामात्र साधुर्बाह्मणोऽनेन व्यलोकि सम्भाष्यतं पथि गच्छन्नसौ चतुर्द्दिशं निरीक्षाञ्चक्रे, आनन्दोऽस्य परिचरो जिज्ञासयामास किमित्थंनिरीक्षसे व्यापारयंश्चक्षुषीति बुद्ध आहआनन्द ! परिहास्येऽहमिमं लोकमिदानीम् ।ततः आम्रग्रामं जम्बुग्रामं भण्डग्रामं हस्ति-ग्रामम् अन्यांश्च वृजिनां मल्लानाञ्च ग्रामा-नतिक्रम्य भोजनगरं प्राप्तः स्थानादस्माज्ज-लुकाख्यमहावनमागत्यावस्थितः अत्र कुण्ड-नाम्नो धातुगालकाद् बणिग्विशेषादाहार्य्यंगृहीतवान् ।ततोऽसावानन्दं सम्बोघयामास भो नगरीं कुशींगन्तास्मि अतःपरं तथागतो नगरीं पावा-मतिक्रम्य नदीं हिरण्वतीं तीर्त्वा निविडं वनमेकंप्राप्तः अत्रानन्दं प्राह पार्श्वयोरहन्तीव्रवेदनयासमाक्रान्तोऽस्मि, अतोऽहमत्रैव तिष्ठामीति ।आनन्दो जलमानिनाय प्रक्षाल्य पादौ बुद्धोध्यानं समाललम्बे कालेऽस्मिन्नागत्य पुक्कशोमल्लराजः पादौ बुद्धस्य प्रपूजयामास बुद्धोऽस्यदीक्षां चकार सोऽस्मै दत्तवान् सौवर्णानल-ङ्कारान् प्रणम्य प्रस्थितः गते मल्लराजेआनन्दं प्राह बुद्धः प्रेयान् मे आनन्द ! त्वं परि-धापयालङ्कारान् सौवर्णानङ्गेष्विति तथानु-ष्ठिते तदानीं देहस्य ज्योतिषास्याखिलं जगद्व्यालोकितमिवासीत् भक्तिभरेणानन्दः प्राहभगवन् ! दृष्टं कदापि मयात्रभवतामेतादृश-मौज्ज्वल्यं देहस्य दयस्व तावत् कथयकारणञ्चात्रेति चकार प्रत्युत्तरं बुद्धो देवोनिबोध आनन्द ! निर्व्वास्यतः प्रदीपस्य शिखे-वाङ्गकान्तिर्मे व्युत्क्रान्तेत्यत्र कारणम् ।अनन्तरमुभौ मिलित्वा हिरण्वत्यास्तीरे आज-ग्मतुः बुद्धस्तत्र स्वीयं समस्तं परिच्छदं परि-हायैकवसनो नद्या हिरण्वत्याः कुश्याश्चनगर्य्या उभययोर्मध्यदेशस्थं वनं विविक्तं विवेश ।पथि प्राह चानन्दं क्लान्तस्य मे शय्यां विधत्-स्वेति आनन्दः शय्यां सज्जीचकार, सुप्तो-त्थितो बुद्ध आनन्दाय भिक्षुकाणां कर्त्तव्यंसूत्रान्तं विनयं मातृकादीनि धर्म्मतत्त्वाम्युप-दिदेश आनन्दस्तत्सर्व्वं समाहितेन मनसाजग्राह तत आनन्दमादिदेश सालमहि-रुहयोर्मध्ये शय्यां स्थापय निशीथेऽद्य मे शेषंविजानीहीति ततो बुद्धस्तत्रैव समाधिमाधायह्यपार्थिवं ज्योतिरवलोकयामास ततोऽसौचिन्तयति स्म निर्व्वाणम् ।भक्तः परमानन्दो रुरोद गण्डं संप्लाव्यास्यविगलितश्चाश्रुप्रवाहोऽविरलधारया तमाहबुद्ध आनन्द ! संसारोऽयमसारः सारो निर्व्वाण-मेव तदर्थं यतस्वेति इत्थं परमकृपालुर्बुद्धदेवोनिर्व्वाणं प्राप ।इत्थं हरेरवतारः --“विकीर्य्य विज्ञानमयीं प्रभां प्रभु-र्जगत्प्रदीपः प्रथितः प्रभाकरः ।बुद्धः राशिर्महसां महोज्ज्वलोज्वलंश्च निर्व्वाणपदं परं गतः
प्रक्षाल्य त्रैलोक्यमलं मलीमसंप्रवृद्धहिंसारसदूषितं विभुः ।प्रबोधधाराधरभूरिवारिभीरराज देवो भुवि बोधभास्करः
”कुशीनगरस्थिते मुकुटबन्धनचैत्येऽस्य शिष्याःदेहं भस्मीभूतं चक्रुः शिष्यव्यूहेनास्य पवित्र-देहस्मावशेषार्थं विवदमानेन निरणाभस्मभिरेभिरष्टप्रदेशेव्वष्टौ चैत्या निर्म्मिताभवन्त्विति
)