| YouTube Channel

बुक्ककः-क्किका (bukkakaH-kkikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बुक्क भषणे”@} 2 भषणम् = श्वरवः।
क्षीरस्वामी तु ‘--भाषणे’ इति पठित्वा, ‘भषणे इत्येके।’ इत्याह।
‘--आभाषणे।’ इति शाकटायनः।
‘णिचि बुक्कयतीति स्यात्, भाषणे शपि बुक्कति।’ 3 इति देवः।
अत्र देवमतेऽपि भाषणमेवार्थ इति ज्ञायते।
4 बुक्ककः-क्किका, बुक्ककः-क्किका, बुबुक्किषकः-षिका, बोबुक्ककः-क्किका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककखतिवत् 5 ज्ञेयानि।
अप्रत्यये--बुक्का 6 इति।
प्रासङ्गिक्यः
01
=>
(१११८)
02
=>
(१-भ्वादिः-११९। अक। सेट्। पर।)
03
=>
(श्लो। ४२)
04
=>
[पृष्ठम्०९२६+ २५]
05
=>
(१४१)
06
=>
[[आ। ‘अफक्कताऽतक्यगुणेन तङ्कता खलश्वबुक्कापरुषे पुरेऽमुना।’ धा। का। १। १७।]]
1 {@“बुक्क भाषणे”@} 2 ‘-- भषणे’ इति धा।
का।
3 व्याख्यादृष्टः प्राठः।
‘णिचि बुक्कयतीति स्यात्, भाषणे शपि बुक्कति।’ 4 इति देवः।
बुक्ककः-क्किका, बुबुक्कयिषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- कुट्टयतिवत् 5 ज्ञेयानि।
6 बुक्कयिष्णुः 7।
प्रासङ्गिक्यः
01
=>
(१११९)
02
=>
(१०-चुरादिः-१७१४। अक। सेट्। उभ।)
03
=>
(३-३८)
04
=>
(श्लो। ४२)
05
=>
(२०७)
06
=>
[[१। छान्दसा अपि प्रत्ययाः क्वचिद् भाषायां क्वस्वादिवत् भवन्तीति, ‘णेश्छन्दसि’ (३-२-१३७) इति ताच्छीलिक इष्णुच्प्रत्यये णेरयादेशे रूपमेवमिति ज्ञेयम्।]]
07
=>
[[B। ‘सञ्चर्चयन् अपनयानथ बुक्कयिष्णुः श्वेवोग्रशब्दनपरः कररुद्धकाणः।’ धा। का। ३-३८।]]