| YouTube Channel

बुक्कं (bukkaM)

 
शब्दकल्पद्रुमः
Sanskrit
बुक्कं, त्रि, (बुक्कयति बुक्बुक् इत्यव्यक्तशब्दं करो-तीति बुक्क + पचाद्यच् ।) वक्षोऽभ्यन्तरमांस-विशेषः तत्पर्य्यायः अग्रमांसम् हृदयम् ३हृत् इत्यमरः ६४
केचित्तुबुक्कात् पृथगेव हृदयान्तर्गतमांसविशेषे पद्मा-कारे हृदयादिद्वयमाहुः धातोरनेकार्थत्वात्बुक्क्यते स्वादुत्वात् मृग्यते बुक्कं बुक्क किं श्वादि-शब्दे घञ् नान्तः पुंलिङ्गोऽप्ययम् स्त्रीलि-ङ्गाऽपीत्येके इति स्वामी
बुक्का स्त्री बुक्कःपुमानपि शोणितेषु स्त्रियां बुक्का बुक्कस्तुसमये द्वयोरिति रभसात् नदादित्वात् स्त्रियांबुक्वीत्यन्ये बुक्कनान्तं क्लीवमव्युत्पन्नमितिरुद्र-कलिङ्गादयः
उरस्यपि बुक्कायां हृदयंमानसेऽपि चेति त्रिकाण्डशेषः
बुक्कशब्दस्यउकारस्य ऋकारादेशे तथैव बृक्कादिरूपञ्च ।अग्रञ्च तन्मांसञ्चेति अग्रमांसं बुक्कस्याग्रंसंमुखीभूतं मांसं बुक्काग्रमांसमित्येकं नामे-त्यन्ये इति तट्टीकायां भरतः