| YouTube Channel

बीभत्सः (bIbhatsaH)

 
Apte Hindi
Hindi
बीभत्सः
पुं*
- -
"जुगुप्सा, घिनौनापन, गर्हणा"
बीभत्सः
पुं*
- -
"बीभत्सरस, काव्य के आठ या नौ रसों में से एक"
बीभत्सः
पुं*
- -
अर्जुन का नामान्तर
Wordnet
Sanskrit
Synonyms:
बीभत्सः, बीभत्सरसः
noun
साहित्यशास्त्रे वर्तमानेषु नवरसेषु सप्तमः रसः यः रक्तमांसास्थिमेदमृतशरीरादीन् घृणितान् पदार्थान् दृष्ट्वा तेषां वर्णनं श्रुत्वा वा मनसि उत्पाद्यमानया घृणया उत्पद्यते।
"युद्धस्थलस्य वर्णनं बीभत्सरसस्य उत्तमम् उदाहरणं वर्तते।"
Tamil
Tamil
பீ3ப4த்ஸ: : வெறுப்பு, நிந்தனை, ஒரு காவியச் சுவை, அர்ஜுனின் ஒரு பெயர்.
शब्दकल्पद्रुमः
Sanskrit
बीभत्सः,
पुं,
(बीभत्स्यतेऽनेन वध + सन् + करणेघञ् ।) अर्ज्जुनः इति मेदिनी से, २९
बीभत्सः, त्रि, (बीभत्सा घृणास्त्यत्र अर्श-आद्यच् ।) क्रूरः
(यथा महाभारते ।१ २१० ।“यदाश्रौषं द्रोणपुत्त्रादिभिस्तै-र्हतान् पाञ्चालान् द्रौपदेयांश्च सुप्तान् ।कृतं बीभत्समयशस्यञ्च कर्म्मतदा नाशंसे विजयाय सञ्जय !
”)घृणात्मा
(यथा, मार्कण्डेये १६ १८ ।“तथापि प्रणता भार्य्या तममन्यत दैवतम् ।तं तथाप्यतिबीभत्सं सर्व्वश्रेष्ठममन्यत
”)विकृतिः इति मेदिनी से, २९
(यथा, --“दुष्टेर्दोषैः पृथक्सर्व्वैर्बीभत्सालोकनादिभिः ।”इति माधवकरकृतरुग्विनिश्चये छर्द्द्यधिकारे
बीभत्सालोकनं विकृतिदर्शनमिति तट्टीकायांविजयरक्षितेनोक्तम्
) पापी इत्यजयः
शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः तत्पर्य्यायः ।विकृतम् इत्यमरः
तस्य लक्षणादि यथा, साहित्यदर्पणे २६३ ।“जुगुप्सा स्थायिभावस्तु बीभत्सः कथ्यते रसः ।नीलवर्णो महाकालदैवतोऽयमुदाहृतः
दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् ।तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम्
निष्ठीवनास्यबलननेत्रसङ्कोचनादयः ।अनुभावास्तत्र मतास्तथास्युर्व्यभिचारिणः
मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः
”अस्य रसस्योदाहरणं यथा तत्रेव ।“उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथ-भ्रूयांसि मांसान्यंसस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनिजग्ध्वा ।अन्तःपर्यस्तनेत्रः प्रकटीतदशनः प्रेतरङ्कःकराङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्र-मत्ति
”)वैकृतञ्च यथा अतिशीलितपारुष्यमभि-शिक्षितवैकृतमित्यभिनन्दः द्वयमिदं रसेक्लीवम् तदालम्बने तु मांसशोणितादौ त्रिषु ।इति तट्टीकायां भरतः
कृदन्तरूपमाला
Sanskrit
1 {@“बध बन्धने”@} 2 ‘यत्तु बीभत्सते तत् स्याद् वैरूप्येऽर्थे बधेः सनि।।’ 3 इति देवः।
4 बीभत्सकः-त्सिका, 5 बीभत्सकः-त्सिका, 6 बीभत्सिषकः-षिका, 7 बाधकः-धिका
बीभत्सिता-त्री, बीभत्सयिता-त्री, बीभत्सिषिता-त्री, बाधयिता-त्री
-- बीभत्सयन्-न्ती, बीभत्सयिष्यन्-न्ती-ती
बीभत्समानः, बीभत्सयमानः, बीभत्सिषमाणः
बीभत्सिष्यमाणः, बीभत्सयिष्यमाणः, बीभत्सिषिष्यमाणः
8 बीभत्सितम्-तः-तवान्, बीभत्सितः, बीभत्सिषितः-तवान्
बीभत्सुः, 9 बीभत्सनः, बीभत्सयिषुः, बीभत्सिषुः
बीभत्सितव्यम्, बीभत्सयितव्यम्, बीभत्सिषितव्यम्
10 बीभत्सनीयम्, बीभत्सनीयम्, बीभत्सिषणीयम्
बीभत्स्यम्, बीभत्स्यम्, बीभत्सिष्यम्
ईषद्बीभत्सः-दुर्बीभत्सः-सुबीभत्सः
-- -- बीभत्स्यमानः, बीभत्स्यमानः, बीभत्सिष्यमाणः
बीभत्सः, बीभत्सः, बीभत्सिषः
बीभत्सितुम्, बीभत्सयितुम्, बीभत्सिषितुम्
बीभत्सा, बीभत्सयिषा, बीभत्सिषा
बीभत्सनम्, बीभत्सनम्, बीभत्सिषणम्
बीभत्सित्वा, बीभत्सयित्वा, बीभत्सिषित्वा
प्रबीभत्स्य, प्रबीभत्स्य, प्रबीभत्सिष्य
बीभत्सम् २, बीभत्सित्वा २, बीभत्सम् २, बीभत्सयित्वा २, बीभत्सिषम्
बीभत्सिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१०९६)
02
=>
(१-भ्वादिः-९७३। सक। सेट्। आत्म।)
03
=>
(श्लो। १२०)
04
=>
[[२। ‘मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य’ (३-१-६) इत्यत्र ‘बधेर्वैरूप्ये’ इति वचनात् वैरूप्यार्थे स्वार्थे नित्यसनि, अभ्यासस्य इत्वे दीर्घे च, ‘एकाचो बशो भष्--’ (८-२-३७) इति भष्भावेन भकारे, धकारस्य चर्त्वे रूपम्। एवं सर्वत्र प्रक्रिया ज्ञेया।]]
05
=>
[[३। स्वार्थसन्नन्तात् ण्यन्ते ण्वुलि, ‘णेरनिटि’ (६-४-५१) इति णिलोपे रूपमेवम्।]]
06
=>
[[४। स्वार्थसन्नन्तादिच्छासनि रूपमेवम्। असरूपप्रत्ययत्वात् इच्छासन्नन्तस्यापि प्रयोग इष्टः। तदुक्तं भाष्ये (३-१-७) ‘सरूपः प्रत्ययो नेष्टः सन्नन्तान्न सनिष्यते।।’ इति।]]
07
=>
[[५। ‘अवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवति।’ (भाष्यम्। ३-१-७) इति वचनात् बध इत्यत्रोक्तस्यानुदात्तेत्त्वस्य स्वार्थसनोऽभावे अर्थान्तरे बन्धनादिरूपे चुरादि- त्वमिति, तत्पक्षे ण्यन्तात् क्रमेण रूपाणि यथायथमूह्यानि।]]
08
=>
[[B। ‘स खल्वबीभत्सितवृत्तिरर्चां तवारभेतापि कृपां लभेत।।’ धा। का। २। ३८।]]
09
=>
[[६। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति ताच्छीलिको युच्।]]
10
=>
[पृष्ठम्०९१७+ २५]