| YouTube Channel

बिम्बं (bimbaM)

 
शब्दकल्पद्रुमः
Sanskrit
वि(बि)म्बं,
क्ली,
(वी गत्यादिषु + “उल्वादयश्च ।”उणा० ९५ इति वन् प्रत्ययेन निपातनात्साधुः ।) प्रतिविम्बम् कमण्डलुः इतिसंक्षिप्तसारोणादिवृत्तिः
(मूर्त्तिः यथा, भागवते ११ ।“प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।आदायान्तर्दधात् यस्तु स्वविम्बं लोकलोचनम्
”तथाच राजतरङ्गिण्याम् ४६६ ।“मेघवाहनभूभर्त्तृपत्न्या भिन्नाख्यया कृते ।विहारेऽपि तया बुद्धविम्बं साधु निवेशितम्
”)विम्बिकाफलम् तेलाकुचा इति भाषा इतिमेदिनी वे,
(यथा, कुमारे ६७ ।“उमामुखे विम्बफलाधरोष्ठेव्यापारयामास विलोचनानि
”)अस्य पर्य्यायः तुण्डिकेरी रक्तफला ३बिम्बिका पीलुपर्णी इत्यमरः
ओष्ठी ६बिम्बी इति रत्नमाला
बिम्बा बिम्ब-कम् बिम्बजा १० इति शब्दरत्नावली
अस्य गुणाः पित्तकफच्छर्द्दिव्रणहृल्लासकुष्ठ-नाशित्वम् इति राजवल्लभः
अपि ।“बिम्बी रक्तफला तुम्बी तुण्डिकेरी बिम्बिका ।ओष्ठोपमफला प्रोक्ता पीलुपर्णी कथ्यते
बिम्बीफलं स्वादु शीतं गुरु पित्तास्रवातजित् ।स्तम्भनं लेखनं रुच्यं विबन्धाध्मानकारकम्
”इति भावप्रकाशः