| YouTube Channel

बिभणिषकः-षिका (bibhaNiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भण शब्दे”@} 2 भाणकः-णिका, भाणकः-णिका, बिभणिषकः-षिका, बम्भणकः-बंभणकः- 3 णिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककणतिवत् 4 ज्ञेयानि।
5 भाणः, 6 भणितिः, 7 भाण्डम्, 8 भणन्-न्ती इतीमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(११४३)
02
=>
(१-भ्वादिः-४४७। अक। सेट्। पर।)
03
=>
[पृष्ठम्०९४१+ ३०]
04
=>
(१५७)
05
=>
[[१। भण्यते इति कर्मणि संज्ञायां घञ्प्रत्यये रूपम्। भाणः दशसु रूपकेष्वेकः।]]
06
=>
[[२। ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति वचनात् इड् भवति।]]
07
=>
[[३। भणतीति भाण्डम्। ‘पुच्छभाण्ड--’ (३-१-२०) इति निर्देशाद्दीर्घः। अथवा ‘ञमन्ताड्डः’ (द। उ। ५-७) इति डप्रत्यये ततः प्रज्ञादित्वात् (५-४-३८) अणि रूपमेवम्। भण्यते इति वा भाण्डम् = पात्रम्।]]
08
=>
[[आ। ‘अणद्दिशः केलिरणैर्मनोज्ञया वाण्या भणन्तो मणिभूषणोत्कणाः।’ धा। का। १। ५८।]]