| YouTube Channel

बिबस्तयिषिता-त्री (bibastayiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बस्त अर्दने”@} 2 आकुस्मीयः।
‘बस्तु--’ इति मैत्रेयः।
तस्य मते उदित्त्वाण्णिचो वैकल्पिकत्वम्।
‘वस्त--’ इति केचिद् दन्तोष्ठ्यादिं पठन्ति।
वस्तकः-स्तिका, बिबस्तयिषकः-षिका, बस्तयिता-त्री, बिबस्तयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकगन्धयतिवत् 3 ज्ञेयानि।
णिचो वैकल्पिकत्वात् पक्षे शुद्धात्, शुद्धप्रकृतिकसन्नन्तात्, यङन्ताच्च इमानि रूपाणीति विशेषः।
यथा--बस्तकः-स्तिका, बिबस्तिषकः-षिका, बाबस्तकः-स्तिका
इति यथायथमूह्यानि।
4 बिबस्तयिषुः, 5 बस्तिः।
प्रासङ्गिक्यः
01
=>
(११०८)
02
=>
(१०-चुरादिः-१६८३। सक। सेट्। आत्म।)
03
=>
(३७५)
04
=>
[[C। ‘प्रस्पाश्य मुष्टिमभितर्जयते प्रभर्त्स्यो मल्लो बिबस्तयिषुरेनमगन्धनीयम्।’ धा। का। ३। ३४।]]
05
=>
[[२। ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति णिजभावपक्षे इक्प्रत्यये रूपम्। बस्तिः = मूत्रकोशः।]]