| YouTube Channel

बिबर्हिषकः-षिका (bibarhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बर्ह प्राधान्ये”@} 2 बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-षिका, बाबर्हकः-र्हिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगर्हतिवत् 3 ज्ञेयानि।
4 बर्हः, 5 बर्हिणः, 6 बर्हकः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(११००)
02
=>
(१-भ्वादिः-६३८। सक। सेट्। आत्म।)
03
=>
(३८५)
04
=>
[[१। बर्हते = प्राधान्येन सर्वेष्ववयवेषु वर्तते इति बर्हः = मयूरादीनां शिखण्डकः। पचाद्यचि रूपमेवम्।]]
05
=>
[[२। ‘फलबर्हाभ्यामिनच् वक्तव्यः’ (वा। ५-२-१२२) इति मत्वर्थीय इनच्प्रत्ययः। बर्हिणः = मयूरः।]]
06
=>
[[३। आशिषि गम्यमानायाम् ‘आशिषि च’ (३-१-१५०) इति वुन्। बर्हताम् इत्याशिषि गम्यमानायामयं प्रत्ययो भवतीति ज्ञेयम्।]]
1 {@“बृह वृद्धौ”@} 2 ‘… बृंहति बर्हति।
वृद्धौ, भाषार्थविषये बृंहयेद् बर्हयेदिति।।’ 3 इति देवः।
बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-षिका, बरीबृहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकदर्हतिवत् 4 ज्ञेयानि।
5 परिबृढः 6, परिबृहितः, 7 बृहत्।
प्रासङ्गिक्यः
01
=>
(११२८)
02
=>
(१-भ्वादिः-७३५। अक। सेट्। पर।)
03
=>
(श्लो। १९८)
04
=>
(८६६)
05
=>
[[१। परिपूर्बादस्मान्निष्ठायाम्, इडभावः, तकारस्य ढत्वम्, हकारस्य लोपः इति, ‘प्रभौ परिबृढः’ (७-२-२१) इत्यनेन प्रभावभिधेये निपातितः। अन्यत्र परिबृहितः। अत्र बृंहतेरेव सानुषङ्गस्येदं निपातनमिति वार्तिककारपक्ष इति पदमञ्जर्य- नुसारेण मा। धा। वृत्तावुक्तम्। भाष्ये दर्हतिदृंहति विषय एव प्रकृत्यन्तरसद्भावे प्रमाणं प्रदर्शितमिति बोध्यम्। किञ्च, अत्र सर्वत्र भाष्यकोशेषु ‘प्रभौ परिवृढः’ (७-२-२१) इत्युपादाय परिवृढः इत्येव रूपसम्पादनं कृतमिति ज्ञायते। अतश्च दन्तोष्ठ्यादिः वर्हतिर्लिखिषमाणैव भाष्योपात्तेत्यपि ज्ञायते। अत्र तत्त्वं विद्वांसो विभावयन्तु।]]
06
=>
[[B। ‘तान् दृष्ट्वाऽतिदृढान् धृष्टान् प्राप्तान् परिबृढाज्ञया।’ भ। का। ९। १८।]]
07
=>
[[२। ‘वर्तमाने पृषद्बृहत्--’ (द। उ। ६। ५) इति कतिप्रत्ययः, तस्य शतृवद्भावश्च।]]