| YouTube Channel

बिबर्हिषकः-बिबृक्षकः-क्षिका (bibarhiSakaH-bibRkSakaH-kSikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“बृहू उद्यमने”@} 2 क्षीरतरङ्गिणी-धातुकाव्यादिषु दृष्टः पाठ एवम्।
अन्ये सर्वे दन्तोष्ठ्यादि ‘वृहू--’ इत्येव पठन्ति।
तत्र क्षीरस्वामी ‘बृहु--’ इति उदितं पपाठ।
बर्हकः-र्हिका, बर्हकः-र्हिका, बिबर्हिषकः-बिबृक्षकः-क्षिका, बरीबृहकः-हिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिकतर्हतिवत् 3 ज्ञेयानि।
णिनिप्रत्यये-- 4 जनजीबबर्ही इति।
प्रासङ्गिक्यः
01
=>
(११३१)
02
=>
(६-तुदादिः-१३४७। अक। वेट्। पर।)
03
=>
(७७७)
04
=>
[[आ। ‘मुरादिबन्धुः क्षुरघोरचेताः पुरन् खलानां जनजीवबर्ही।’ धा। का। २। ७७।]]