| YouTube Channel

बिन्दुसरस (bindusarasa)

 
वाचस्पत्यम्
Sanskrit
बिन्दुसरस
न०
बिन्दुजातं सरः शा० त० सरोवरभेदे यत्रगङ्गावतारणार्थं भगीरथेन तपस्तेपे तत्कथा “अथोत्तरेण कैलासात् मैनाकं पर्वतं प्रति हिरण्यशृङ्गःसुमहान् महामणिमयो गिरिः रम्यं बिन्दुसरोनाम यत्र राजा भगीरथः द्रष्टुं भागीरथीं गङ्गा-मुवास बहुलाः समाः” भा० स० अ० मात्स्ये १०१ अ०तदुत्पत्तिकथा उक्ता यथा“तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता सोमपादात्प्रसूता सा सप्तधा प्रविभज्यते यूपा मणिमयास्तत्रचितयश्च हिरण्मयाः तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रःसुरगणैः सह दिव्यश्छायापथस्तत्र नक्षत्राणान्तु म-ण्डलम् दृश्यते भास्वरा रात्रौ देवी त्रिथगा तु सा ।अन्तरीक्षं दिवञ्चैव भावयित्वा भुवङ्गता भवोत्तमाङ्गेपतिता संरुद्धा योगमायया तस्या ये बिन्दवः केचित्क्षुब्ध्यायाः पतिताभुवि कृतन्तु तैर्विन्द्रुबरस्ततो विन्द-सरः स्मृतम्” बिन्दुह्रदोऽप्यत्र
पु०