| YouTube Channel

बिन्दुसरः (bindusaraH)

 
Wordnet
Sanskrit
Synonyms:
बिन्दुसरः
noun
एकं पुण्यतीर्थम्
"रामायणे तथा महाभारते बिन्दुसरः निर्दिष्टः आसीत्"
Synonyms:
बिन्दुसरः
noun
एकं पुण्यतीर्थम्
"रामायणे तथा महाभारते बिन्दुसरः निर्दिष्टः आसीत्"
शब्दकल्पद्रुमः
Sanskrit
वि(बि)न्दुसरः, [स्]
क्ली,
(बिन्दुनामक सरः ।)सरोवरविशेषः यथा, --“अभ्युत्तरेण कैलासं शिवं सर्व्वौषधिं गिरिम् ।गौरन्तु पर्व्वतश्रेष्ठं हरितालमयं प्रति
हिरण्यशृङ्गः सुमहान् दिव्यौषधिमयोगिरिः ।तस्य पादे महद्दिव्यं सरः काञ्चनसन्निभम्
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।गङ्गार्थे तु राजर्षिरुवास बहुलाः समाः
दिव्यं यास्यन्ति मे पूर्व्वे गङ्गातोयपरिप्लुताः ।तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता
सोमपादात् प्रसूता सा सप्तधा प्रतिभज्यते ।यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः
तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह ।दिव्यश्छायापथस्तत्र नक्षत्राणान्तु मण्डलम्
दृश्यते भास्वरा रात्रौ देवी त्रिपथगा तु सा ।अन्तरीक्षं दिवञ्चैव भावयित्वा भुवं गताः
भवस्य स्वाङ्के पतिता संरुद्धा योगमायया ।तस्या ये बिन्दवः केचित् क्षुब्धायाः पतिताभुवि ।कृतस्तु तैर्बिन्दुसरस्ततो बिन्दुसरः स्मृतम्
”इति मात्स्ये १२० २७ -- ३३