| YouTube Channel

बाहुयुद्धं (bAhuyuddhaM)

 
शब्दकल्पद्रुमः
Sanskrit
बाहुयुद्धं,
क्ली,
(बाह्वो र्बाहुभ्यां वा युद्धम् ।)भुजाभ्यां संग्रामः मल्लयुद्धम् तत्पर्य्यायः ।नियुद्धम्
तस्य क्रमो यथा, --“कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकङ्कटैः ।सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा
क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिस्वनैः ।तलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव
शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ।जानुभिश्चाश्मनिर्घोषैः शिरोभिश्चावघट्टनैः
तद्युद्धमभवद्घोरमशस्त्रं बाहुतेजसा ।बलप्राणेन शूराणां समाजोत्सवसन्निधौ
”इति विराटपर्व्वणि १२ अध्यायः
सकङ्कटः कङ्कटः करघर्षणजः किणस्तत्सहि-तैरित्यर्थः कृतप्रतिकृतैः परप्रयुक्तिप्रतिकृतैः ।चित्रैर्विचित्रैर्बन्धैरिति शेषः सन्निपातेत्यादि ।एते मल्लानां शिक्षाविशेषाः सन्निपातैःपरस्परसङ्घघातैः अवधूतैर्बद्धमुष्टिभुजाघातैः ।प्रमाथैः पातयित्वा पेषणैः उन्मथनैः अन्त-रीक्षे भुजाभ्यां मथनैः क्षेपणैः स्थानात्प्रच्यावनैः बद्धाङ्गुलिकरो मुष्टिः ।“अवाङ्मुखं स्कन्धगतं भ्रामयित्वा तथैव यः ।क्षिप्तस्य शब्दः भवेद्बराहोद्धूतनिस्वनः
तर्जन्यङ्गुष्ठमध्यन प्रसारितकरो हि यः ।सम्प्रहारस्तलाख्यस्तु संग्रहो वज्रमिष्यते
”अद्धचन्द्रतुल्यमल्लमुष्टिर्वज्रमित्यर्थः ।“प्रसृताङ्गुलिहस्तेन प्रसृष्टिः प्रहृतिः स्मृता ।द्बिगुणीकृतबाहुर्यस्तदीयार्थं यथाबलम्
प्रहारः शलाका स्यात् पादोद्धूतः पदा-हतम्
”जानुभिश्चाश्मनिघोषैः पाषाणघोरसदृशध्व-निभिः करणैर्यान्यवघट्टनानि तैः बलप्राणेनबलोत्कर्षेण इति तट्टीका
(यथा, मार्क-ण्डेयपुराणे ८३ १३ ।“ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः ।बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा
”)