| YouTube Channel

बाल्मीकिः (bAlmIkiH)

 
शब्दकल्पद्रुमः
Sanskrit
बाल्मीकिः,
पुं,
बल्मीकस्यापत्यम् (बल्मीक +इञ् ।) बल्मीकप्रभवो यस्मात् तस्माद्बाल्मीकि-रित्यसौ इति ब्रह्मवैवर्त्तोक्तेः बल्मीकप्रभवत्वेनगौणी पुत्त्रादिवद्गौणमस्य बल्मीकापत्यत्वं गृही-त्वैव साधुरपत्यार्थः यद्वा बल्मीक इति ऋषि-विशेषस्य संज्ञेत्याहुः
मुनिविशेषः यथा, --“तपःस्वाध्यायनिरतं तपस्वी वाग्विदाम्बरम् ।नारदं परिपप्रच्छ बाल्मीकिर्मुनिपुङ्गवम्
”इति रामायणप्रथमश्लोकः
अपि ततस्तदनुग्रहलब्धं रामचरितं सर-हस्यं निरवशेषं तत्प्रसादादेव सम्यक् विज्ञायभूलोकवर्त्तिनां चतुर्णां वर्णानां तापत्रयविमो-चनाय ब्रह्मांशभूत एव भगवान् प्राचेतसोबाल्मीकिः स्वकृतशतकोटिरामायणसारभूतंचतुर्षिंशत्यक्षरगायत्त्र्याख्यापरब्रह्मविद्याविलासभूतं रामायणं चतुर्विंशतिसहस्रश्लोकरूपं कुश-लवाभ्यामग्राहयत् इति तट्टीका
अपि ।“नारायणात्मकाः सर्व्वे तेषां रामोऽग्रजोऽ-भवत् ।रावणान्तकरो राजा रघूणां वंशवर्द्धनः
बाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः
”)इति मात्स्ये १३ अध्यायः