| YouTube Channel

बालुकास्वेद (bAlukAsveda)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)लुकास्वेदः,
पुं,
(बालुकाभिर्विहितःस्वेदः ।) तप्तबालुकाभिस्तापनम् यथा, --“वातश्लेष्मकृते स्वेदान् कारयेद्रुक्षनिर्म्मितान् ।स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान्
खर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुका स्वेदः ।शमयति वातकफामयमस्तकशूलाङ्गभङ्गादीन्
स्रोतसां मार्द्दवं कृत्वा नीत्वा पावकमाशयम् ।हत्वा वातकफस्तम्भं स्वदो ज्वरमपोहति
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
बालुकास्वेद
पु०
त० भावप्र० उक्ते तप्तबालुकाभिःस्वेदने “वातश्नेष्मकृते स्वेदान् कारयेद्रूक्षनिर्मितान् ।स्निग्धः स्वेदो निषिद्धोऽत्र विना केवलवातजान् ।स्वर्परभृष्टपटस्थितकाञ्जिकसंसिक्तबालुकास्वेदः शम-यति वातकफामयमस्तकशूलाङ्गभङ्गादीन् स्रोतसांमार्दवं कृत्वा नीत्वा पावकमाशयम् हत्वा वातकफस्तम्भंस्वेदो ज्वरमपोहति”