| YouTube Channel

बालुकायन्त्रं (bAlukAyantraM)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)लुकायन्त्रं,
क्ली,
(बालुकाया यन्त्रम् ।)औषधपाकार्थयन्त्रविशेषः यथा, --“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपके ।कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते
भेषजं कूपिकासंस्थं बह्रिना यत्र पच्यते ।बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम्
”इति भावप्रकाशः