| YouTube Channel

बालुकायन्त्र (bAlukAyantra)

 
शब्दकल्पद्रुमः
Sanskrit
बा(वा)लुकायन्त्रं,
क्ली,
(बालुकाया यन्त्रम् ।)औषधपाकार्थयन्त्रविशेषः यथा, --“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपके ।कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते
भेषजं कूपिकासंस्थं बह्रिना यत्र पच्यते ।बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम्
”इति भावप्रकाशः
वाचस्पत्यम्
Sanskrit
बालुकायन्त्र
न०
त० औषधपाकार्थे यन्त्रभेदे ।“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके कुपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते भेषजं कूपिकासंस्थवह्निना यत्र पच्यते बालुकायन्त्रमेतिद्धि यन्त्रतन्त्रबुधैःस्मृतम्” भावप्र० कालज्ञापने रङ्गना० प्रदर्शिते यन्त्र-भेदे “ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत्” सू० सि०व्याख्यायां “सूत्राकारेण रेणवः सिकतांशागर्भे उदरेयस्यैतादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम्” रङ्गनाथः