| YouTube Channel

बालिहन्ता (bAlihantA)

 
शब्दकल्पद्रुमः
Sanskrit
बालिहन्ता,
पुं,
(बालेर्बालिनो वा बानरराजस्यहन्ता ।) श्रीरामचन्द्रः इति शब्दरत्नावली
(बालिवधकथा यथा, रामायणे १६ ।२७ -- ३६ ।“सूर्य्यपुत्त्रो महावीर्य्यः सुग्रीवः परिहीयत ।वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः
बालिनं प्रति सामर्षो दर्शयामास राघवम् ।वृक्षैः सशाखैः शिखरैर्वज्रकोटिनिभैर्नखैः
मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः ।तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव
तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ।मेघाविव महाशब्दैस्तर्जमानौ परस्परम्
हीयमानमथापश्यत् सुग्रीवं वानरेश्वरम् ।प्रेक्षमाणं दिशश्चैव राघषः मुहुर्मुहुः
ततो रामो महातेजा आर्त्तं दृष्ट्वा हरीश्वरम् ।स शरं वीक्षते वीरो बालिनो वधकाङ्क्षया
ततो धनुषि सन्धाय शरमाशीविषोपमम् ।पूरयामास तच्चापं कालचक्रमिवान्तकः
तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।प्रदुद्द्रुवुर्मृगाश्चैव युगान्त इव मोहिताः
मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।राघवेण महाबाणो बालिवक्षसि पातितः
ततस्तेन महातेजा वीर्य्ययुक्तः कपीश्वरः ।वेगेनाभिहतो बाली निपपात महीतले
)ओड्रदेशान्तर्गतग्रामविशेषश्च