| YouTube Channel

बालिखिल्याः (bAlikhilyAH)

 
शब्दकल्पद्रुमः
Sanskrit
बालिखिल्याः,
पुं,
पुलस्त्यकन्यायां सन्नत्यां क्रतोःषष्टिसहस्रसंख्यकपुत्त्रा ऋषिविशेषाः यथा, --“प्रीत्यां पुलस्त्यो भगवान् दत्तात्रिमसृजत् प्रमुः ।पूर्व्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे
वेदबाहुं तथा कन्यां सन्नतिर्नाम नामतः ।पुत्त्राणां षष्टिसाहस्रं सन्नतिः सुषुवे क्रतोः
ते चोर्द्ध्वरेतसः सर्व्वे बालिखिल्या इति स्मृताः
”इति कौर्म्म १२ अध्यायः
अपि ।“क्रतोश्च सन्नतिर्भार्य्या बालिखिल्यानसूयत ।धष्टिर्यानि सहस्राणि ऋषीणामूर्द्ध्वरेतसाम्
”इति मार्कण्डेयपुराणे रुद्रसर्गः ५२ २४
तेषामङ्गुष्ठपरिमाणस्य प्रमाणं यथा, --“अथापश्यदृषीन् ह्रस्वानङ्गुष्ठोदरवर्ष्मणः ।पलाशवृन्तिकामेकां सहितान् वहतः पथि
प्रलीनान् स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् ।क्लिश्यमानान् मन्दबलान् गोष्पदे संप्लुतोदके
”इति महाभारते ३१
बालखिल्योऽपि पाठः यथा, “ऋग्वदान्तर्गत-बालखिल्यमेकादशसूक्तं बालखिल्याः शंसन्तिप्राणा वै बालखिल्याः इति चरणव्यूहभाष्यम्