| YouTube Channel

बालिखिल्य (bAlikhilya)

 
वाचस्पत्यम्
Sanskrit
बाल(लि)खिल्य
पु०
ब० अङ्गुष्ठपर्वमितेषु षष्टिसहस्रसंख्येषु“क्रतोश्च सन्ततिर्भार्य्या बालखिल्यानसूयत षष्टिर्यानिसहस्राणि ऋषीणामूर्ध्वरेतसाम्” मार्क
पु०
उक्तेषु मुनि-भेदेषु तेषां पारमाणञ्च अङ्गुष्ठमात्र यथाक्तं भा० स०३१ अ० “अथापश्यदृषीन् ह्रस्वान् अङ्गुष्ठोदरवर्ष्मणः ।पलाशवृन्तिकामेकां सहितान् वहतः पथि प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् क्लिश्यमानान्मन्त्रबलान् गोष्पदे संप्लुतोदके” “प्राणा वै बालखिल्याः”चरणव्यूहभाव्येक्तेषु प्राणेषु