बालरोग (bAlaroga)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiबालरोगः
बालः-रोगः -
बच्चों का रोग
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaबालरोग
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಸಣ್ಣ ಮಕ್ಕಳಿಗೆ ಬರುವ ವ್ಯಾಧಿ
विस्तारः - > ಚಿಕ್ಕ ಮಕ್ಕಳನ್ನು ಸಾಕುವ ತಾಯಿ ಅಥವಾ ದಾದಿಯು ಗುರವಾದ ಆಹಾರವನ್ನು ಸೆವಸುವುದರಿಂದ ವಾತ ಪಿತ್ತ ಕಫಗಳು ಕೆಟ್ಟು ಅವರ ಸ್ತನ್ಯವು (ಎದೆಯ ಹಾಲು) ಕೆಡುವುದರಿಂದ ಮಕ್ಕಳಿಗೆ ಅನೇಕ ವ್ಯಾಧಿಗಳು ಸಂಭವಿಸುವುವು "धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषजैस्तथा । दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदुष्यति । मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रिया । दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ।" [ಇವುಗಳ ಸ್ವರೂಪ ಮತ್ತು ಚಿಕಿತ್ಸೆಗಳಿಗೆ "भावप्रकाश" ಗ್ರಂಥದಲ್ಲಿ ನೋಡಿ]
शब्दकल्पद्रुमः
Sanskritबालरोगः, (बालस्य रोगः ।) बालकस्यव्याधिः । तस्य निदानं लक्षणानि चाह ।“धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषजैस्तथा ।दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदूष्यति ॥
मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः ।दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ॥
* ॥
वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः ।क्षामस्वरः कृशाङ्गः स्याद्बद्धविण्मूत्रमारुतः ॥
स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान् ।तृष्णालुरुष्णसर्व्वाङ्गः पित्तदुष्ठं पयः पिबन् ॥
श्लेष्मदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान् ।निद्रार्द्दितो जडः शूनवक्त्राक्षश्छर्द्दनः शिशुः ॥
ज्वराद्या व्याधयः सर्व्वे वक्ष्यन्ते महतान्तु ये ।बालानामपि ते तद्बद्बोद्धव्या भिषगुत्तमैः ॥
बालानामेव ये रोगा भवन्ति महतां न च ।तालुकण्टकमुख्यांस्तानवधारय यत्नतः ॥
”तत्रादौ तालुकण्टकमाह ।“तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् ।तेन तालुप्रदेशस्य निम्नता मूर्द्ध्नि जायते ॥
तालुपातात् स्तनद्वेषः कृच्छ्रात् पानं शकृद्-द्रवम् ।तृडक्षिकण्ठास्यरुजा ग्रीवादुर्द्धरता वमिः ॥
”पानं स्तन्यस्य । शकृद्द्रवं द्रवरूपम् ॥
अथ महापद्ममाह ।“विसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः ।पद्मवर्णो महापद्मरोगो दोषत्रयोद्भवः ।शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं ब्रजेत् ॥
”पद्मवर्णः लोहितवर्णः तत्र शीर्षजो विसर्पःशङ्खाभ्यां हृदयं याति हृदयात् गुदं व्रजेत् ।एवं वस्तितो गुदं याति । गुदतो हृदयं हृदया-च्छिरो याति इति बोद्धव्यम् ॥
अथ कुकूणकमाह ।‘कुकूणकः क्षीरदोषात् शिशूनामेव वर्त्मनि ।जायते तेन तन्नेत्रं कण्डुरं प्रस्रवेन्मुहुः ॥
शिशुः कुर्य्याल्ललाटाक्षिकूटनासाप्रघर्षणम् ।शक्तो नार्कप्रभां द्रष्टं न वर्त्मोन्मीलनक्षमः ॥
’कुकूणकः कोथुया इति लोके ख्यातः ॥
* ॥
अथ तुण्डिगुदपाकमाह ।‘वातेनाघ्मापिता नाभिः सरुजा तुण्डिरुच्यते ।बालस्य गुदपाकाख्यो व्याधिः पित्तेन जायते ॥
’अथाहिपूतनं आह ।‘शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् ।स्विन्ने वा स्नाप्यमानस्य कण्डू रक्तकफोद्भवा ॥
कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते ।एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् ॥
स्विन्ने स्वेदिते ॥
* ॥
अथाजगल्लीमाह ।स्निग्धा सवर्णा ग्रथिता निरुजा मुद्गसन्निभा ।कफवातोत्थिता ज्ञेया बालानामजगल्लिका ॥
’ग्रथिता गुम्फितेव । मुद्गसन्निभा । मुद्गाकृतिः ॥
अथ पारगर्भिकमाह ।‘मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि ।कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः ॥
युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम् ।रोगं परिभवाख्यञ्च तत्र युञ्जीत दीपनम् ॥
’पिबन्नपीत्यपिशब्दादपिबन्नपि पारिगर्भिकः ।अहीडी इति लोके ।परिभवाख्यं परिभवेति नामान्तरम् ॥
* ॥
अथ दन्तोद्भेदकान् रोगानाह ।‘दन्तभेदः शिशोः सर्व्वरोगाणां कारणं स्मृतम् ।विशेषाज्ज्वरविड्भेदकासच्छर्द्दिशिरोरुजम् ॥
अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥
’कारणमित्यन्वयः । पोथक्याः वर्त्मरोगविशेषस्य ॥
अथ बालरोगाणां चिकित्सा ।‘भैषज्यं पूर्व्वमुद्दिष्टं महतां यज्ज्वरादिषु ।तदेव कार्य्यं बालानां किन्तु दाहादिकं विना ॥
’दाहादिकं विना अग्निदाहादिक्षारवमनविरे-चनशिराव्यधादिकं षिना । महाकष्टे चोत्पन्नेवमनबिरेकाद्यं दद्यात् । यत आह सुश्रुतः ।विरेकवस्तिवमनानृते कुर्य्याच्च नात्ययादिति ।अत्ययात् विनाशकरकष्टात् ऋते विना ॥
‘त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते ।अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ॥
’अस्य बालस्य । कनीयसीमात्रामाह विश्वा-मित्रः ।‘विडङ्गफलमात्रन्तु जातमात्रस्य भेषजम् ।अनेनैव प्रमाणेन मासि मासि प्रवर्द्ध्वयेत् ॥
’विडङ्गपरिमितं भेषजं चूर्णीकृत्य किंवा कल्की-कृत्याथवावलेहीकृत्य दद्यादित्यर्थः । तन्त्रान्तरेत्वन्यथाभिहितम् ।‘प्रथमे मासि बालाय देया भेषजरक्तिका ।अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः ॥
एकैकां वर्द्धयेत्तावद्यावत् संवत्सरो भवेत् ।तदूर्द्ध्वं माषवृद्धिः स्याद्यावत् षोडशवत्सराः ॥
’एकैकां रक्तिकाम् तदूर्द्ध्वं वर्षोपरि माषवृद्धिःप्रतिवर्षं पञ्चगुञ्जात्मकस्य माषस्य वृद्धिर्भवति ।गुञ्जाः पञ्चाद्यमाषक इत्यमरसिंहः ॥
‘ततः स्थिरा भवेत्तावद्यावद्वर्षाणि सप्ततिः ।ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः ॥
’ततः षोडशवत्सरोपरि ।‘चूर्णकल्कावलेहानामियं मात्रा प्रकीर्त्तिता ।कषायस्य पुनः सैव विज्ञातव्या चतुर्गुणा ॥
क्षीरपस्य शिशोर्देयमौषधं क्षीरसर्पिषा ।धात्र्यास्तु केवलं देयं न क्षीरेणापि सर्पिषा ॥
’क्षीरान्नादस्य पूर्व्ववत् क्षीरसर्पिषा । प्रकारा-न्तरेणौषधपानमाह सुशुतः ।‘येषां गदानां ये योगाः प्रवक्ष्यन्ते गदङ्कराः ।तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ॥
’अवचनानां बालानामभ्यन्तरव्याधिज्ञानोपाय-माह ।‘अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते ।मुहुमुहुः स्पृशति तं स्पृश्यमानेन रोदिति ॥
निमीलिताक्षो मूर्द्धस्थे रोगे नो धारयेच्छिरः ।वस्तिस्थे मूत्रसङ्गार्त्तो क्षुधातृडपि गच्छति ॥
विण्मूत्रसङ्गवैकल्याच्छर्द्द्याघ्मानान्त्रकूजनैः ।कोष्ठे व्याधीन् विजानीयात् सर्व्वत्रस्थांश्चरोदनैः ॥
’अत्रादौ ज्वरस्य चिकत्सामाह ।‘सर्व्वं निर्वार्य्यते बाले स्तन्यं नैव निषार्य्यते ।मात्रया लङ्घ्ययेद्धात्रीं शिशोरेतद्विलङ्घनम् ॥
’मात्रया लङ्घयेत् लघु भोजयेत् ।‘भद्रमुस्ताभयानिम्बपटोलमधुकैः कृतः ।क्वाथः कोष्णः शिशोरेष निःशेषज्वरनाशनः ॥
’भद्रमुस्तादिक्वाथः सर्व्वज्वरेषु ॥
* ॥
‘घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम् ।शिशोर्ज्वरातिसारघ्नं कासं श्वासं वमिं हरेत् ॥
अरुणा अतिविषा । चतुर्भद्रिका ज्वराति-सारेषु ॥
‘विल्वञ्च पुष्पाणि च धातकीनांजलं सलोध्रं गजपिप्पली च ।क्वाथावलेहौ मधुना विमिश्रौबालेषु योज्यावतिसारितेषु ॥
’जलं बाला । विल्वादिक्वाथावलेहौ । अतीसारेषु ॥
‘समङ्गाधातकीलोध्रसारिवाभिः सृतं जलम् ।दुर्द्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥
’समङ्गा लज्जालुमूलम् । समङ्गादिक्वाथो दुर्द्ध-रेऽतीसारे ॥
* ॥
‘विडङ्गान्यजमीदा च पिप्पलीतण्डुलानि च ।एवामालीढ्य चूर्णानि सुखं तप्तेन वारिणा ।आमे प्रवृत्तेऽतीसारे कुमारं पाययेद्भिषक् ॥
’विडङ्गादिचूर्णमतीसारे ॥
* ॥
‘मोचरसः समङ्गा च धातकी पद्मकेशरम् ।पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी ॥
’मोचरसलज्जालुमूलधावैफुलकमलकेशरसमुदि-ततोला १ तण्डुलकीखुदीतोला १ जलतोला११ सर्व्वमेकीकृत्य यवागूः साधनीया । मोच-रसादियवागू रक्तातिसारे ॥
* ॥
‘नागरातिविषामुस्ताबालकेन्द्रयवैः शृतम् ।कुमारं पाययेत् प्रातः सर्व्वातीसारनाशनम् ॥
’नागरादिक्वाथः सर्व्वातीसारे ॥
* ॥
‘लाजासयष्टिमधुका शर्करा क्षौद्रमेव च ।तण्डुलोदकयोगेन क्षिप्रं हन्ति प्रवाहिकाम् ॥
’लाजादिचूर्णं प्रवाहिकायाम् ॥
* ॥
‘रजनी सरलो दारुवृहती गजपिप्पली ।शृङ्गिपर्णी शताहा च लीढं माक्षिकसर्पिषा ॥
दीपनं ग्रहणीं हन्ति मारुतार्त्तिसकामलाम् ।ज्वरातीसारपाण्डूघ्नं बालानां सर्व्वरोगनुत् ॥
’रजन्यादिचूर्णं ग्रहण्यादौ ॥
* ॥
‘पौष्करातिविषाशृङ्गीमागधीधन्वयासकैः ।कृतं चूर्णन्तु सक्षौद्रं शिशूनां पञ्चकासजित् ॥
’पौष्करादिचूर्णं कासेषु ॥
* ॥
‘पौष्करातिविषावासाकणाशृङ्गीरसं लिहन् ।मधुना मुच्यते बालः कासैः पञ्चभिरुच्छ्रितैः ॥
’मुस्तकादिरसः कासेषु ॥
* ॥
‘व्याघ्रीकुसुमसंजातकेशरैरवलेहिका ।मधुना चिरसंजातान् शिशोः कासान् व्यपो-हति ॥
’कासे ॥
* ॥
‘घान्यं शर्करया युक्तं तण्डुलोदकसंयुतम् ।पानमेतत् प्रदातव्यं कासश्वासापहं शिशोः ॥
’धान्यादिपानं कासश्वासयोः ॥
* ॥
‘द्राक्षावासाभयाकृष्णाचूर्णं क्षौद्रेण सर्पिषा ।लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा ॥
’तमकं श्वासभेदम् । द्राक्षादिचूर्णं कासश्वासयोः ॥
‘चूर्णं कटुकरोहिण्या मधुना सह योजयेत् ।हिक्कां प्रशमयेत् क्षिप्रं छर्द्दिञ्चापि चिरो-त्थिताम् ॥
’हिक्कायां छर्द्याञ्च ॥
* ॥
‘आम्रास्थिलाजसिन्धूत्थं सक्षौद्रं छर्द्दिनुद्भवेत् ॥
’छर्द्याम् ॥
* ॥
‘पीतं पीतं वमेद्यस्तु स्तन्यं तं मधुसर्पिषा ।द्विवार्त्ताकी फलरसं पञ्चकोलञ्च लेहयेत् ॥
’द्विवार्त्ताकी बृहतीद्बयम् ॥
* ॥
‘पञ्चकोलानि पिप्पलीपिप्पली-मूलचव्यचित्रकनागराणि ॥
’क्षीरच्छर्द्याम् ॥
* ॥
‘ह्रीवेरशर्कराक्षौद्रं लीढं तृष्णाहरं परम् ।घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजोलिहन् ॥
आनाहं वातिकं शूलं हन्यात्तोयेन वा शिशुः ॥
’आनाहे वातशूले च ॥
* ॥
‘कणोषणासिताक्षौद्रसूक्ष्मैलासैन्धवैः कृतः ।मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ॥
’मूत्राघाते ॥
* ॥
‘यदा तु दुर्ब्बलो बालः खादन्नपि च वह्निमान् ।विदारीकन्दगोधूमयवचूर्णं घृतप्लुतम् ॥
खादयेत्तदनुक्षीरं शृतं समधुशर्करम् ॥
’कार्श्ये ॥
* ॥
‘मुस्तकुष्माण्डबीजानि भद्रदारुकलिङ्गकान् ।पिष्ट्वा तोयेन संलिम्पेल्लेपोऽयं शोथहृच्छिशोः ॥
’शोथे ॥
* ॥
‘पटोलत्रिफलारिष्टहरिद्राक्वथितं पिबेत् ।क्षतवीसर्पविस्फोटज्वराणां शान्तये शिशुः ॥
’क्षतवीसर्पविस्फोटज्वरेषु ॥
* ॥
‘गृहधूमनिशाकुष्ठराजिकेन्द्रयवैः शिशोः ।लेपस्तक्रेण हन्त्याशु सिध्मपामविचर्च्चिकाम् ॥
सारिवातिललोध्राणां कषायो मधुकस्य च ।संस्राविणि मुखे शस्तो धावनार्थं शिशोः सदा ॥
’मुखस्रावे ॥
* ॥
‘अश्वत्थत्वग्दलक्षौद्रैर्मुखपाके प्रलेपनम् ॥
’मुखपाके ॥
* ॥
‘पिप्पलीत्रिफलाचूर्णं घृतक्षौद्रपरिप्लुतम् ।बालो रोदिति यस्तस्मै लेढुं दद्यात् सुखा-वहम् ॥
’रोदने ॥
* ॥
‘हरीतकी वचा कुष्ठं कल्कं माक्षिकसंयुतम् ।पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ॥
’तालुकण्टके ॥
* ॥
‘फलत्रिकं लोध्रपुनर्नवे चसशृङ्गवेरं बृहतीद्वयञ्च ।आलेपनं श्लेष्महरं सुखोष्णंकुकूणके कार्य्यमुदाहरन्ति ॥
’कुकूणके ॥
* ॥
‘मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा ।स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति ॥
’नाभिशोथे ॥
* ॥
‘नाभिपाके निशालोध्रप्रियङ्गुमधुकैः शृतम् ।तैलमभ्यञ्जने शस्तमेभिर्वाप्यवधूलनम् ॥
दग्धेन च्छागशकृता नाभिपाकेऽवचूर्णनम् ।त्वक्चूर्णैः क्षीरिणां वापि कुर्य्याच्चन्दन-रेणुना ॥
’नाभिपाके ॥
* ॥
‘गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् ।रसाञ्जनं विशेषेण पानलेपनयोर्हितम् ॥
शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् ॥
’अञ्जनं रसाञ्जनम् । गुदपाके ॥
* ॥
‘शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने ॥
’अहिपूतने ॥
* ॥
‘पारिगर्भिकरोगे तु पूज्यते वह्निदीपनम् ॥
’पारिगर्भिके ॥
* ॥
‘दन्तपालिन्तु मधुना चूर्णेन प्रतिसारयेत् ।धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा ॥
दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम् ।जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुकागदाः ॥
’दन्तोद्भेदजरोगेषु ॥
* ॥
‘सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा ।मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥
अर्कपुष्पीमधु घृतं चूर्णितं कतकं वचा ।सहेमचूर्णं कैटर्य्यं श्वेता दूर्व्वा घृतं मधु ॥
चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः ।कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः ॥
’सावर्णचूर्णम् । चतुर्ष्वपि योगेषु मारित-सुवर्णचूर्णम् । मत्स्याक्षकः ब्राह्मी इति लोकेवकम इत्येके । अर्कपुष्पी अर्कसदृशपुष्पलता ।कैटर्य्यं कट्फलम् । श्वेता दूर्व्वाविशेषणं वचेतिकेचित् । संवत्सरं यावदेते योगाः प्रयोज्याःद्वादशवर्षाणीति केचित् ॥
* ॥
‘बालानाञ्च वपुर्मेधाबलपुष्टिकराः स्मृताः ।लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे ॥
रास्नाचन्दनकुष्ठाह्वावाजिगन्धानिशायुतैः ।शताह्वादारुयष्ट्याह्वमुर्व्वातिक्ताहरेणुभिः ॥
संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः ॥
”लाक्षादितैलं बालेषु ॥
* ॥
इति भावप्रकाशेबालरोगाधिकारः ॥
वाचस्पत्यम्
Sanskritबालरोग भाबप्र० उक्ते बालस्य रोगभेदे तन्निदानादितत्रोक्तं यथा“अथ बालरोगाणां निदानानि लक्षणानि चाह ।“धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा । दोषा देहेप्रकुप्यन्ति ततः स्तन्थ प्रदुष्यति । मिथ्याहारविहारिण्यादुष्टा वातादयस्त्रयः । दूषयन्ति पयस्तेन जायन्तेव्याधयः शिशोः । ह्रीवेरं शर्करा क्षौद्रं लीढं तृष्णाहरं परम् ।” इति तृष्णायाम् । “वातदुष्टं शिशुःस्तन्यं पिबन् वातबदातुरः । क्षामस्तरः कृशाङ्गः स्वा-द्वद्धविण्मूत्रमासतः । खिन्नो भिन्नमलो बालः कामला-पित्तरोगवान् । तृष्णालुरूष्मसर्वाङ्गः पित्तदुष्टं पयः पि-वन् । श्लेष्मदुष्टं पिबन् क्षीरं लालायुक् श्लेष्मरोगवान् ।निद्रार्द्दितो जडः शूनो वक्राक्षश्छर्दनः शिशुः । ज्व-राद्या व्याधयः सर्वे वक्ष्यन्ते महतान्तु ये । बालाना-मपि ते तद्वद्बोद्धव्या भिषगुत्तमैः । बालानामेव ये रोमाभवन्ति महतां न च । तालुकण्टकमुख्यांस्तानवधारययत्नतः ।” तत्रादौ तालुकण्टकमाह । तालुम सेकफः व्रुद्धः कुरुते तालुकण्टकम् । तेन तानुप्रदेशस्यनिम्नता मूर्घ्नि जायते । तालुपातात् स्तनवेषः कृच्छ्रात्पानं शकृद्दूवम् । तृडक्षिकण्ठास्यरुज ग्रीवादुर्द्वरता-वमिः ।” पानं स्तनस्य, शकृद्दूवं द्रवरूपम् । महापद्म-माह । “वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः ।पद्मवर्णो महापद्मरोगो२ दोषत्रयोङ्गतः। शङ्खाभ्यांहृदयं याति हृदयाच्च गुदं ब्रजेत् ।” पद्मवर्णः लोहितवर्ण तत्र शीर्षजो वीसर्पः । शङ्खार्भ्या हृदयं याति हृद०याच्च गुदं व्रजेत् एवं वस्तिजो गुदं याति गुदतः हृदयंहृदयाच्छिरो याति इति बोद्धव्यम् । कुकूणकमाह“कुकूणकं३ क्षीणदोषाच्छिशूनामेव वर्त्मनि । जायतेसरुज नेत्रं कण्डूरं प्रस्रवेद्बहु । शिशुः कुर्य्याल्ललाटा-क्षीकूटनासाप्रघर्षणम् । शक्तो नार्कप्रभां द्रष्टुं नचाक्ष्युन्मीलनक्षमः ।” कुकूणकं (कोथु) इति लोके ।अथ तुण्डीगुदप्राकमाह । “वातेनाध्मापिना नाभिःसरुजा तुण्डिरुच्यते । बालस्य गुदपाकाख्यो ४ व्याधिःपित्तेन जायते ।” अहिपूतनमाह । शकृन्मूत्रसमायुक्तेधौते पाने शिशोर्भयेत् । खिन्ने वा स्नाप्यमानस्य कण्डूरक्तकफाद्भवा । कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्चजायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम्५ ।”स्विन्ने स्वेदितिए । अजगल्लीमाह । स्निग्धा सवर्णाग्रथिता नीरुजा मुद्गसन्निभा । कफवातोत्थिता ज्ञेयाबालानामजगल्लिका६ । ग्रथिता गुम्फितेव मुद्गसन्निभामुद्गाकृतिः । परिगर्भिकमाह मातुः । कुमारो गर्भिण्यास्तन्यं प्रायः पिबन्नपि । कासाग्निसादवमथुतन्द्राकार्श्या-ऽरुचिभ्रमैः । युज्यते कोष्टवृद्ध्या च तमाहुः परिगर्भि-कम् ७ । रोगं परिभवाख्यञ्च ८ तत्र युञ्जीत दीपनम् ।पिबन्नपीत्यपिशब्दादपिबन्नपि परिगर्भिकः (अहीडीति)लोके । परिभवाख्यं परिभवेति नामान्तरम् । अथ दन्तो-द्भेदकान् रोगानाह “दन्तोद्भेदः शिशीः सर्वं रोगाणांकारणं स्मृतम् । विशेषात् ज्वरविड्भेदकासच्छर्दिशिरो-रुजाम् । अभिष्यन्दस्य षोथक्याधीसर्पस्य च जायते ।कारणभित्यन्वयः पोथक्या वर्त्मरोगविशेषस्य ।”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
