| YouTube Channel

बालतन्त्रं (bAlatantraM)

 
शब्दकल्पद्रुमः
Sanskrit
बालतन्त्रं,
क्ली,
(बालाय बालकरक्षार्थं तन्त्रमुपायःशास्त्रं वा ।) गर्भिणीचर्य्या तत्पर्य्यायः ।कुमारभृत्या गर्भिण्यवेक्षणम् इतित्रिकाण्डशेषः
(अस्य विवरणन्तु सुश्रुते सूत्र-स्थाने अध्याये यथा, “शल्यं शालाक्यंकायचिकित्सा भूतविद्या कौमारभृत्यमगद-तन्त्रं वाजीकरणतन्त्रमिति
कौमारभृत्यस्यवा बालतन्त्रस्य लक्षणमाह तत्रैव “कौमार-भृत्यं नाम कुमारभवनधात्रीक्षीरदोषसंशोध-नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुप-शमनार्थम्
बालतन्त्राणि कानि तान्याहतत्रैव अध्याये ।“नवग्रहाकृतिज्ञानं स्कन्दस्य निषेधनम् ।अपस्मारशकुन्योश्च रेवत्याश्च पुनः पृथक्
पूतनायास्तथान्धाया मण्डिका शीतपूतना ।नैगमेयचिकित्सा ग्रहोत्पत्तिः सयोनिजा
कौमारतन्त्रमित्येतत् शारीरेषु प्रकीर्त्तितम्
”एतेषां विवरणन्तु बालग्रहशब्दे द्रष्टव्यम्
)