| YouTube Channel

बालग्रहः (bAlagrahaH)

 
Apte Hindi
Hindi
बालग्रहः
पुं*
बालः-ग्रहः -
बालकों को पीडा पहुँचाने वाला पिशाच (या उपग्रह)
शब्दकल्पद्रुमः
Sanskrit
बालग्रहः,
पुं,
(बालानां बालकानां ग्रहः ।)बालकहन्तृग्रहविशेषः (यथा, मार्कण्डेये ।९२ २७ ।“बालग्रहाभिभूतानां बालानां शान्ति-कारकम्
”)एतेषां विवरणम् यथा, --“बाल ग्रहा अनाचारात् पीडयन्ति शिशुं यतः ।तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः
”अथ बालग्रहाणां नामान्याह ।“स्कन्दग्रहस्तु प्रथमं स्कन्दापस्मार एव ।शकुनी रेवती चैव पूतना गन्धपूतना
पूतना शीतपूर्व्वा तथैव मुखमण्डिका ।नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी
”अथ ग्रहाणामुत्पत्तिमाह ।“नवस्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी ।श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः
एते स्कन्दस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः ।सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा
स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा ।बिभर्त्ति चापरां संज्ञां कुमार इति संग्रहः
”अयं हि कार्त्तिकेयादन्यः ।“स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः ।स स्कन्दसखो नाम्ना विशाख इति चोच्यते
ग्रहाः स्त्रीविग्रहा ये ते नानारूपाः प्रकीर्त्तिताः ।देवानां कृत्तिकानां ते भागा राजसतामसाः
नैगमेयस्तु पार्व्वत्या सृष्टो ह्येषां ततो ग्रहः ।कुमारस्य हि देवस्य गुहस्यात्मसमोऽस्ति वै
ततो भगवति स्कन्दे सुरसेनापतौ कृते ।उपतस्थुर्ग्रहा ह्येते दीप्तशक्तिधरं गुहम्
ऊचुः प्राञ्जलयश्चैनं वृत्तिर्नो दीयतामिति ।तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत्
ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।तिर्य्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत्
परस्परोपकारेण वर्त्तते धार्य्यते तथा ।देवा नरान् प्रीणयन्ति तिर्य्यग्योनींस्तथैव
यथाकालं प्रवृत्तास्तु उष्मवर्षाहिमानिलैः ।इत्यञ्जलिनमस्कारैर्जपहोमैस्तथैव
सम्यक् प्रयुक्तैश्च नराः प्रीणयन्त्यपि देवताः ।भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते
तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति
”अथ बालग्रहाणां बालग्रहणकारणमाह ।“कुलेषु येषु नेज्यन्ते देवाः पितर एव ।ब्राह्मणाः साधवो वापि गुरवोऽतिथयस्तथा
निवृत्तशौचाचारेषु तथा कुत्सितवर्त्तिषु ।निवृत्तभिक्षावलिषु भग्नकांस्यगृहेषु
गृहेषु तेषु बालांस्तान् ग्रहा हिंसन्त्यशङ्किताः ।तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति
एवं ग्रहाः समुत्पन्ना बालान् हिंसन्ति चाप्यथ ।ग्रहोपसृष्टा बालाः स्युर्दुश्चिकित्स्यतमास्ततः
”अथ सामान्यग्रहजुष्टानां बालानां लक्षणा-न्याह ।“क्षणादुद्विजते बालः क्षणात्त्रस्यति रोदिति ।नखेर्दन्तैर्दारयति धात्रीमात्मानमेघ
ऊर्द्ध्वं निरीक्षते दन्तान् खादेत् कूजति जृम्भते ।भ्रुवौ क्षिपति दन्तौष्ठः फेनं वमति वासकृत्
क्षामोऽति निशि जागर्त्ति शूलाङ्गो भिन्नविट्-स्वरः ।मत्स्यशोणितगन्धश्च चाश्नाति यथा पुरा
दुर्ब्बलो मलिनाङ्गश्च नष्टसंज्ञोऽपि जायते ।सामान्यग्रहजुष्टस्य लक्षणं समुदाहृतम्
”अथ विशिष्टग्रहजुष्ठानां लक्षणान्याह ।“स्रस्ताङ्गः क्षतजसगन्धिकस्तनद्बिट्-वक्रास्यो हतचरणैकपक्षनेत्रः ।उद्विग्नः ससलिलचक्षुरल्परोदीस्कन्दार्त्तो भवति गाढमुष्टिबन्धः
निःसंज्ञो भवति पुनर्लभेत संज्ञांसंस्तब्धः करचरणैश्च नृत्यतीव ।विणमूत्रे सृजति विनद्य जृम्भमाणःफेनं वा सृजति तत्सखाभिजुष्टः
”तत्सखाभिजुष्टः स्कन्दापस्मारयुक्तः ।“स्रस्ताङ्गो भयचकितो विहङ्गगन्धिःसास्रावव्रणपरिपीडितः समन्तात् ।स्फोटैश्च प्रचिततनुः सदाहपाकै-र्विज्ञेयो भवति शिशुः क्षतः शकुन्या
रक्तास्यो हरितमलोऽतिपाण्डुदेहःश्यावो वा मुखकरपाकवेदनार्त्तः ।गृह्णातिव्यथिततनुश्च कर्णनासंरेवत्या भृशमभिपी इतः कुमारः
स्रस्ताङ्गः स्वपिति वासरे रात्रौविड्भिन्नं विसृजति काकतुल्याङ्गगन्धिः ।च्छर्द्द्यार्त्तो हृषिततनूरुहः कुमार-स्तृष्णालुर्भवति पूतनागृहीतः
यो द्वेष्टि स्तनमत्ति कासहिक्का-च्छर्द्दीभिर्ज्वरसहिताभिरर्द्द्यमानः ।दुर्व्वर्णः सततमथापि योऽस्रगन्धि-स्तं ब्रूयाद्भिषगथ गन्धपूतनार्त्तम्
आक्रन्दन् परिचकितः सुवेपमानःसंलीनो भवति व्यथान्त्रकूजयुक्तः ।स्रस्ताङ्गो भृशमतिसार्य्यते यो वैतं ब्रूयाद्भिषगथ शीतपूतनार्त्तम्
म्लानाङ्गः सरुधिरपाणिपादवक्त्रोवह्वाशी कलुषशिरावृतोदरो यः ।स ज्ञेयः शिशुरथ रक्तमण्डिकार्त्तःसोद्वेगो भवति मूत्रतुल्यगन्धिः
यः फेनं वमति विनम्यते मध्येसोद्वेगो विहसति वोर्द्ध्वमीक्षमाणः ।कूजेच्च प्रततमथो वसास्रगन्धि-र्निसंज्ञो भवति नैगमेयजुष्टः
”अथ सामान्यग्रहजुष्टानां चिकित्सामाह ।सहामुण्डतिकोदीच्यक्वाथस्नानं ग्रहापहम् ।सहा माषपर्णी ।“सप्तच्छदामयनिशाचन्दनैश्चानुलेपयेत् ।सर्पत्वक् लशुनं मू्व्वा सर्षपारिष्टपल्लवाः
विडालविडजालोममेषशृङ्गी वचा मधु ।धपः शिशोर्ज्वरघ्नोऽयमशोषग्रहनाशनः
बालशान्तीष्टकर्म्माणि कार्य्याणि ग्रहशान्तये ।वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापि
सारिवा सैन्धवञ्चैव पिप्पली घृतमष्टमम् ।सिद्धं घृतमिदं मेध्यं पिबेत् प्रातर्दिने दिने
दृढस्मृतिः क्षिप्रमेधा कुमारो बुद्धिमान् भवेत् ।न पिशाचा रक्षांसि भूता मातरः
भवन्ति कुमाराणां पिबतामष्टमङ्गलम्
”अष्टमङ्गलं घृतम्
अथ विशिष्टग्रहजुष्टानां चिकित्सामाह ।“सोमबल्लीमिन्द्रवृक्षं बन्दाकं विषजं शमीम् ।मृगादन्याश्च मूलानि ग्रथितानि विधारयेत्
”तत्र स्कन्दग्रहजुष्टस्य चिकित्सामाह ।“स्कन्दग्रहोपसृष्टस्य कुमारस्य प्रशस्यते ।वातघ्नद्रुमपत्त्राणां क्वाथेन परिषेचनम्
देवदारुणि रास्नायां मधुरेषु गणेषु ।सिद्धं सर्पिश्च सक्षीरं पातुमस्मे प्रदापयेत्
सर्षपाः सर्पनिर्म्मोको वचा काकादनी घृतम् ।उष्ट्राजाविगवाञ्चापि रोमाण्युद्धूपनं भवेत्
”काकादनी श्वेतगुञ्जा ।सोमवल्लीमिन्द्रवृक्षं वृन्ताकं विषजं शमीम् ।मृगादन्याश्च मूलानि ग्रथितानि विधारयेत्
”सोमबल्ली सोमलता इन्द्रवृक्षं ककुभम् ।मृगादनी इन्द्रवारुणी ।रक्तानि माल्यानि तथा पताकांरक्तांश्च गन्धा विविधांश्च भक्ष्यान् ।घृतञ्च देवाय बलिं निवेद्यसकुक्कुटं स्कन्दगृहे निधाय
स्नानं त्रिरात्रं निशि चत्वरेषुकुर्य्यात् परं शालियवैर्निवेद्य ।गायत्त्रियुक्ताभिरथाद्भिरग्निंप्रज्वालयेदाहुतिभिश्च धीमान्
रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम् ।अहन्यहनि कर्त्तव्या याभिरद्भिरतन्द्रितैः
तपसां तजसाञ्चैव यशसां वयसां तथा ।निधानं योऽव्ययो देवः ते स्कन्दः प्रसीदतु
ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः ।देवसेनारिपुहरः पातु त्वां भगवान् गुहः
देवदेवस्य महतः पावकस्य यः सुतः ।गङ्गोमाकृत्तिकानाञ्च ते शर्म्म प्रयच्छतु
रक्तमाल्याम्बरधरो रक्तचन्दनभूषितः ।रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः
”अथ स्कन्दापस्मारग्रहजुष्टस्य चिकित्सामाह ।“विल्वः शिरीषो गोलोमी सुरसादिश्च योगणः ।परिषेकः प्रयोक्तव्यः स्कन्दापस्मारशान्तये
”गोलोमी श्वेता दूर्व्वा सुरसादिगणो यथा, --“सुरसा श्वेतसुरसा पाठा फञ्जी फणिज्झकः ।सौगन्धिकं भूस्तृणको राजिका श्वेतवर्व्वरी
कट्फलं खरपुष्पा कासमर्द्दश्च शल्लकी ।विडङ्गमथ निर्गुण्डी कर्णिकार उदुम्बरः
बला काकमाची तथा विषमुष्टिका ।कफक्रिमिहरः ख्यातः सुरसादिरयं गणः
”सुरसा कृष्णतुलसी श्वेतसुरसा श्वेततुलसी ।फञ्जी भार्गी फणिज्झकः मरुबकः सौग-न्धिकं कह्लारम् भूस्तृणकः सुगन्धतृणम् ।खरपुष्पा वर्वरी कासमर्द्दः कसौदी विष-मुष्टिका वकाइनि
*
“अष्टमूत्रविपक्कञ्च तैलमभ्यञ्जने हितम् ।”मूत्राष्टकमाह ।“गोजाविमहिषाश्वानां खरोष्ट्रकरिणान्तथा ।मूत्राष्टकमिति ख्यातं सर्व्वशास्त्रेषु सम्मतम्
क्षीरीवृक्षकषायेण काकोल्यादिगणेन ।विपक्तव्यं घृतं पश्चाद्दातव्यं पयसा सह
काकोल्यादिगणेन कल्कीकृतेन तैलं पक्तव्यम् ।काकोल्यादिगणो यथा, --“काकोली क्षीरकाकोली जीवकर्षभकस्तथा ।ऋद्धिर्वृ द्धिस्तथा मेदा महामेदा गुडूचिका
मुद्गपर्णी माषपर्णी पद्मकं वंशरोचना ।शृङ्गी प्रपौण्डरीकञ्च जीवन्ती मधुयष्टिका ।द्राक्षा चेति गणो नाम्ना काकोल्यादिरुदीरितः ।स्तन्यकृद्बृंहणो वृष्यः पित्तरक्तानिलापहः ।उत्सादनं वचा हिङ्गुयुक्तमत्र प्रकीर्त्तितम्
गृध्रोलूकपुरीषाणि केशा हस्तिनखो घृतम् ।वृषभस्य रोमाणि योज्यान्युद्धूपने सदा
अनन्तां कुक्कुटीं विम्बीं मर्कटीञ्चापि धारयेत्
”अनन्ता यवासा इति लोके कुक्कुटी शाल्मली ।“पक्वान्यामानि मांसानि प्रसन्नं रुधिरं पयः ।मुद्गोदनं निवेद्याथ स्कन्दापस्मारिणे वटे
”वटे वटतले बलिं निवेद्येत्यन्वयः ।तेन स्कन्दापस्मारिणा स्नानं कारयेदित्यन्वयः ।“चतुष्पथे कारयेच्च स्नानं तेन ततः पठेत् ।स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा ।विशाखः शिशोरस्य शिवायास्तु शुभाननः
”अथ शकुनीग्रहजुष्टस्य चिकित्सामाह ।“शकुनीग्रहजुष्टस्य कार्य्यं वैद्येन जानता ।वेतसाम्रकपित्थानां क्वाथेन परिषेचनम्
ह्रीवेरमधुकोशीरसारिवोत्पलपद्मकैः ।लोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम्
”प्रदिहेत् लिम्पेत् रूपसिद्धिरार्ष्यत्वात् ।“स्कन्दग्रहोक्ता धूपाश्च हिता अत्र भवन्ति हि ।स्कन्दापस्मारशमनं घृतमत्रापि पूजितम्
शतावरीं मृगेर्व्वारुनागदन्तीनिदिग्धिकाः ।लक्षणां सहदेवाञ्च वृहतीञ्चापि धारयेत्
”मृगेर्व्वारुः वडी इन्द्रवारुणी नागदन्ती नाग-हुली इति लोके प्रसिद्धा ।“तिलतण्डुलकं माल्यं हरितालं मनःशिलाम् ।बलिरेष निकुञ्जेषु निवेद्यो नियतात्मना
निकटे प्रयोक्तव्यं स्नानमस्य यथाविधि ।श्वेतशिरीषगन्धाष्टकुष्ठगुग्गुलुसर्षपैः
सिद्धमभ्यञ्जने तैलं धारणं पूर्व्वमेव तु ।शकुनीग्रहशान्त्यर्थं प्रदेहं कारयेद्धितम्
कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैःनिकुम्भोक्तेन विधिना स्नपयेत्तं ततः पठेत्
अन्तरीक्षचरा देवी सर्व्वालङ्कारभूषिता ।अधोमुखी सूक्ष्मतुण्डा शकुनी ते प्रसीदतु
दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा ।लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु
*
अथ रेवतीग्रहजुष्टस्य चिकित्सामाह ।“अश्वगन्धाजशृङ्गी शारिवाथ पुनर्नवा ।सहा विदारी ह्येतासां क्वाथेन परिषेचनम्
अजशृङ्गी मेढाशृङ्गी सहा सेवतीपुष्पजातिः ।तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसे तथा ।पलङ्कषायां नलदे तथा गौरकदम्बके
सर्जरसः रालः पलङ्कषा गुग्गुलुः नलदंलामज्जकमुशीरवत्पीतच्छविः गौरकदम्बकःहारिद्रकः हरदुया कदम्ब इति लोके ।धवाश्वकर्णककुभशल्लकीतिन्दुकेषु ।काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबेच्छिशुः
अश्वकर्णः शांखु इति लोके प्रसिद्धः ।कुलत्थाः शङ्खचूर्णञ्च प्रदेहः साखगन्धिकः ।गृध्रोलूकपुरीषाणि यवान् यवफले घृतम्
सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः
यवफलो वंशाङ्कुरः ।शुक्लाः सुमनसो लाजाः पयः शाल्योदनं दधि ।वलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना
गोतीर्थे गोष्ठे ।स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक् ।नानावस्त्रधरा देवी चित्रमाल्यानुलेपना
चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु ।उपासते यां सततं देव्यो विविधभूषणाः
लम्बा करालाविनता तथैव बहुपुत्त्रिका ।रेवती शुष्कनासा तुभ्यं देवी प्रसीदतु
*
अथ पूतनाग्रहजुष्टस्य चिकित्सामाह ।कपोतवङ्का श्योनाको वरुणः पारिभद्रकःआस्फोता चैव योज्याः स्युर्ब्बालानां परिषेचने
कपोतवङ्का ब्राह्मी इति लोके पारिभद्रोनिम्बः आस्फोता अपराजिता ।नवा पयस्या गोलोमी हरितालं मनःशिला ।कुष्ठं सर्जरसश्चैव तैलार्थे कल्क इष्यते
नवा पयस्या नूतना क्षीरविदारी गोलोमीश्वेतदूर्व्वा ।हितं घृतं तगाक्षीर्य्या संसिद्धं मधुकेऽपि ।कुष्ठतालीसखदिराः स्यन्दनोऽर्जुन एव
पनसः ककुभश्चापि मज्जानो वदरस्य ।कुक्कुटास्थि घृतञ्चापि धूपनं सह सर्षपैः
स्यन्दनः स्यन्दन इत्येव नाम्ना प्रसिद्धः ।काकादनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् ।काकादनी श्वेतगुञ्जा चित्रफला बृहदिन्द्र-वारुणी ।मत्स्यौदनं बलिं दद्यात् कृशरं पललं तथा ।सरावसंपुटं कृत्वा तस्यै शून्ये गृहे भिषक् ।उत्सृष्टान्नाभिषिक्तस्य शिशोः स्नपनमिष्यते
कुष्ठतालीसखदिरं चन्दनं स्यन्दनं तथा ।देववारु वचा हिङ्गु कुष्ठं गिरिकदम्बकः ।एला हरेणवश्चापि योज्या उद्धूपने सदा
मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा ।शून्यागाराश्रया देवी दारकं पातु पूतना
*
अथ गन्धपूतनाग्रहजुष्ठस्य चिकित्सामाह ।तिक्तद्रुमाणां पत्रेषु क्वाथं कार्य्येऽभिषेचने ।तिक्तद्रुमानाह ।निम्बः पटोलः क्षुद्रा गुडूची वासकस्तथा ।विसर्पकुष्ठनुत् ख्यातो गणोऽयं पञ्चतिक्तकः
पिप्पली पिप्पलीमूलं वर्गो मधुरको मधु ।शालपर्णीबृहत्यौ घृतार्थं सममाहरेत्
सर्व्वगन्धैः प्रदेहश्च गात्रे चाक्ष्णोश्च शीतलैः
सर्व्वगन्धैः कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनैः ।अक्ष्णोस्तु शीतलैः चन्दनकर्पूरैः तु कस्तूरी-कुङ्कुमागुरुभिस्तेषामुष्णत्वात् ।पुराषं कौक्कुटं केशञ्चर्म्म सर्पभवन्तथा ।जीर्णञ्चाभीक्ष्णशो वासो धूपनायोपकल्पयेत्
कुक्कुटीं मर्कटीं विम्बीमनन्ताञ्चापि धारयेत् ।मांसमामं तथा पक्वं शोणितञ्च चतुष्पथे ।निवेद्यमन्तश्च गृहे शिशोः स्नपनमिष्यते
कराला पिङ्गला मुण्डा कषायाम्बरसंवृता ।देवी बालमिमं प्रीता रक्ष त्वं गन्धपूतने
*
अथ शीतपूतनाग्रहजुष्टस्य चिकित्सामाह ।गोमूत्रं वस्तमूत्रञ्च मुस्ताञ्चामरदारु ।कुष्ठञ्च सर्व्वगन्धांश्च तेलार्थमवधारयेत्
सर्व्वगन्धान् चन्दनादीन् ।रोहिणीनिम्बखदिरपलाशककुभत्वचः ।निःक्वाथ्य तस्मिन्निःक्वाथे सक्षीरे विपचेद् घृतम्
गृध्रोलूकपुरीषाणि वस्तिगन्धा महित्वचम् ।निम्बपत्राणि तथा धूपनार्थं समाहरेत्
धारयेदपि गुञ्जाञ्च बलां काकादनीं तथा ।नद्यां मुद्गौदनैश्चापि तर्पयेच्छीतपूतनाम्
जलाशयान्ते बालस्य स्नपनञ्चोपदिश्यते ।जलाशयान्ते जलाशयतीरे ।देव्यै देयश्चौपहारो वारुणी रुधिरं तथा
मुद्गौदनाशिनी देवी सुराशोणितपायिनी ।जलाशयरता नित्यं पातु त्वां शीतपूतना
*
अथ मुखमण्डिकाग्रहजुष्टस्य चिकित्सामाह ।कपित्थं विल्वतर्कारीवासागन्धर्व्वहस्तकाः ।कुवेराक्षी योज्याः स्युंर्बालानां परिषेचने
तर्कारी गणियारि इति लोके गन्धर्व्वहस्तकःश्वेत एरण्डः कुवेराक्षी पाडरि इति लोके ।स्वरसैर्भृङ्गवृक्षाणां तथैव हयगन्धया ।तैलं वचाञ्च संयोज्य पचेदभ्यञ्जनं शिशोः
भृङ्गवृक्षः भगरा इति लोके ।वचा सर्जरसं कुष्ठं सर्पिश्चोद्धूपने हितम्
वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा ।मनःशिलाञ्चोपहरेत् गोष्ठमध्ये बलिन्ततः
पायसं सपुरोडाशं तद्बल्यर्थमुपाहरेत् ।मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम्
जलाभिमन्त्रणमन्त्रमाह ।अलङ्कृता कामवती सुभगा कामरूपिणी ।गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका
*
अथ नैगमेयग्रहजुष्टस्य चिकित्सामाह ।विल्वाग्निमन्थपूतीकैः कार्य्यं स्यात् परिषेचनम् ।पूतीकः घोराकरञ्ज इति लोके प्रसिद्धः ।प्रियङ्गुशरलानन्ताशतपुष्पाकुटन्नटैः ।पचेत्तैलं सगोमूत्रं दधिमस्त्वम्लकाञ्जिकैः
कुटन्नटं वितुन्नकनाम्नो वृक्षविशेषस्य त्वक् ।गुडतजी इति लोके प्रसिद्धा मुस्ताकृतिःश्योनाको वा ।वचां वयस्थां जटिलां गोलोमीं चापि धारयेत् ।वयस्था आमलकी गुडूची वा ।उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम्
मर्कटोलूकगृध्राणां पुरीषाणि पितृगृहे ।धूमः सुप्तजने कार्य्यो बालस्य हितमिच्छता
पितृगृहे नैगमेयगृहे ।तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि ।कौमारपितृमेषाय प्लक्षमूले निवेदयेत्
मेषाय नैगमेयग्रहाय ।अधस्तात् क्षीरवृक्षस्य स्नपनञ्चोपदिश्यते
अजाननश्चलाक्षिभ्रुः कामरूपी महायशाः ।बालं पालयिता देवो नैगमेयोऽभिरक्षतु
”इति भावप्रकाशः
(तथास्य लक्षणान्तरं चिकित्सितञ्च यथा, --“बलिशान्तीष्टकर्म्माणि कार्य्याणि ग्रहशान्तये ।मन्त्रश्चायं प्रयोक्तव्यस्तत्रादौ सर्व्वकामिकः
ओँ नमो भगवते गरुडाय त्र्यम्बकाय सद्यस्तरस्तुत स्तुत स्वाहा ओँ कं खं टं पं शं वैनतेयायनमः ओँ ह्रीं हुँ क्षं ।बालदेहप्रमाणेन पुष्पमालान्तु सर्व्वतः ।प्रगृह्य मुच्छिकाभक्तबलिर्देयस्तु शान्तिकः ।ओँ कारी सुवर्णपक्षी बालकं रक्ष रक्ष स्वाहा
ओँ नारायणाय नमः
”“प्रथमे दिवसे मासे वर्षे वा गृह्णाति नन्दानाम मातृका तया गृहीतमात्रस्य प्रथमं भवतिज्वरः चक्षुरुन्मीलयति गात्रमुद्वेजयति नशेते क्रन्दति स्तन्यं गृह्णाति आँत्कारश्चभवति बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यतेशुभम् नद्युभयतटमृत्तिकां गृहीत्वा पुत्त-लिकां कृत्वा शुक्लौदनः शुक्लपुष्पं सप्तध्वजाःसप्तप्रदीपाः सप्तस्वस्तिकाः सप्तवटकाः सप्त-सष्कुलिकाः जम्बुडिका गन्धताम्बूलं मत्स्यमांसंसुरामग्रभक्तञ्च पूर्व्वस्यान्दिशि चतुष्पथे मध्याह्नेबलिर्दातव्यः अश्वत्थपत्रं जलकुम्भे निक्षिप्यशान्त्युदकेन स्नापयेत् रसोनसिद्धार्थकमेषशृङ्गनिम्बपत्रशिवनिर्म्माल्यैर्बालकं धूपयेत् ।ओँ नमो नारायणाय अमुकस्य व्याधिं हनहन मुञ्च मुञ्च स्वाहा एवं दिनत्रयं बलिंदत्त्वा चतुर्थे दिवसे ब्राह्मणं भोजयेत् ततःसम्पद्यते शुभम्
द्वितीये दिवसे मासे वर्ष वा गृह्णाति सुनन्दा-नाम मातृका तया गृहीतमात्रस्य प्रथमंभवति ज्वरः चक्षुरुन्मीलयति गात्रमुद्वेजयतिन शेते क्रन्दति स्तन्यं गृह्णाति आँत्कारश्चभवति ।बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् ।तण्डुलं हस्तपृष्ठैकं गृहीत्वा दधिगुडघृतमिश्रितंशरावैकं गन्धताम्बूलं पीतपुष्पं पीतसप्त-ध्वजाः चत्वारः प्रदीपाः दशस्वस्तिकाःमत्स्यमांससुरास्तिलचूर्णञ्च पश्चिमस्यान्दिशिचतुष्पथे बलिर्दातव्यः दिनानि त्रीणि त्रिसन्ध्यंततः शान्त्युदकेन स्नापयेत् शिवनिर्म्माल्य-सिद्धार्थमार्ज्जाररोम उशीरबालकघृतैर्धूपंदद्यात् ओँ नमो नारायणाय अमुकस्य व्याधिंहन हन मुञ्च मुञ्च ह्रीं फट् स्वाहा चतुर्थेदिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् ।तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतनानाम-मातृका तया गृहीतमात्रेण प्रथमं भवतिज्वरः गात्रमुद्वेजयति स्तन्यं गृह्णातिमुष्टिं बध्नाति क्रन्दति ऊर्द्ध्वं निरीक्षते ।बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् ।नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वारक्तचन्दनं गन्धताम्बूलं रक्तसप्तध्वजाः सप्त-प्रदीपाः सप्तस्वस्तिकाः पक्षिमांससुराग्रभक्तंदक्षिणस्यान्दिशि अपराह्णे चतुष्पथे बलि-र्दातव्यः शिवनिर्म्माल्यगुग्गुलुसर्षपनिम्बपत्रमेषशृङ्गैर्दिनत्रयं धूपयेत् ओँ नमो नारायणायअमुकस्य व्याधिं हन हन मुञ्च मुञ्च स्वाहा ।चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्प-द्यते शुभम्
चतुर्थे दिवसे मासे वष वा गृह्णाति मुख-मुण्डिकानाम मातृका तया गृहीतमात्रेणप्रथमं भवति ज्वरः ग्रीवां नामयति चक्षुरु-न्मीलयति स्तन्यं गृह्णाति रोदिति स्वपितिमुष्टिं बध्नाति बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यतेशुभम् नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकांकृत्वा उत्पलपुष्पं गन्धं ताम्बूलं दशध्वजाःदीपाश्चत्वारः त्रयोदश स्वस्तिकाः मत्स्य-मांससुरामग्रभक्तञ्च उत्तरस्यां दिशि अपराह्णेबलिर्देयः चतुष्पथे ओँ नमो नारायणाय अमु-कस्य व्याधिं हन हन मथ मथ स्वाहा चतुर्थेदिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यतेशुभम् ।पञ्चमे दिवसे मासे वर्षे वा गृह्णाति कटपूतनानाम मातृका तया गृहीतमात्रेण प्रथमंभवति ज्वरः गात्रमुद्बेजयति स्तन्यं गृह्णातिमुष्टिं बध्नाति बलिन्तस्य प्रवक्ष्यामि येन सम्प-द्यते शुभम् कुम्भकारचक्रस्य मृत्तिकांगृहीत्वा पुत्तलिकां विधाय गन्धताम्बूलं शुक्ल-पुष्पं शुक्लौदनं पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च-वटकाः ऐशान्यां दिशि बलिर्दातव्यः शान्त्यु-दकेन स्नापयेत् शिवनिर्म्माल्यसर्पनिर्म्मोकगुग्गुलु निम्बपत्रबालकघृतैर्धूपं दद्यात् ।ओँ नमो नारायणाय अमुकस्य व्याधिं चूर्णयचूर्णय हन हन स्वाहा चतुर्थे दिवसेब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम्
षष्ठे दिवसे मासे वर्षे वा गृह्णाति शकुनिकानाममातृका तया गृहीतमात्रेण प्रथमं भवतिज्वरः गात्रभेदं दर्शयति दिवारात्रावुत्थानंभवति ऊर्द्धं निरीक्षते बलिं तस्य प्रव-क्ष्यामि येन सम्पद्यते शुभम् पिष्टकेन पुत्तलिकांकृत्वा शुक्लपीतरक्तपुष्पगन्धताम्बूलानि दशदीपाः दश पीतध्वजाः दश स्वस्तिकाः दशवटकाः क्षीरजम्बुडिकाः मत्स्यमांससुराआग्नेय्यान्दिशि निष्क्रान्ते मध्याह्ने बलिर्दातव्यः ।शान्त्युदकेन स्नापयेत् शिवनिर्म्माल्यरसोन-गुग्गुलुसर्पनिर्म्मोकनिम्बपत्रघृतैर्धूपं दद्यात् ।ओँ नमो नारायणाय अमुकस्य व्याधिं चूर्णयचूर्णय हन हन स्वाहा चतुर्थे दिवसे ब्राह्म-णान् भोजयेत् ततः सम्पद्यते शुभम्
सप्तमे दिवसे मासे वर्षे वा गृह्णाति शुष्करेवतीनाम मातृका तया गृहीतमात्रेण प्रथमंभवति ज्वरः गात्रमुद्वेजयति मुष्टिं बध्नातिरोदिति बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यतेशुभम् रक्तशुक्लपुष्पं गन्धताम्बूलरक्तौदनंकृशरास्त्रयोदश स्वस्तिकाः त्रयोदश सष्कुलिकाजम्बुडिका मत्स्यमांससुराः त्रयोदश ध्वजाःपञ्च प्रदीपाः पश्चिमस्यान्दिशि ग्रामनिष्क्रा-न्तेऽपराह्णे वृक्षमाश्रित्य बलिर्दातव्यः शान्त्यु-दकेन स्नापयेत् गुग्गुलुमेषशृङ्गसर्षपोशीरबालकघृतैर्धूपन्दद्यात् ओँ नमो नारायणायदीप्ततेजसे हन हन मुञ्च मुञ्च स्वाहा
चतुर्थेदिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् ।अष्टमे दिवसे मासे वर्षे वा गृह्णाति अर्य्यकानाम मातृका तया गृहीतमात्रेण प्रथमं भवतिज्वरः गृध्रगन्धः पूतिगन्धश्च जायते आहारंन गृह्णाति गात्रमुद्बेजयति बलिन्तस्य प्रव-क्ष्याभि ततः सम्पद्यते शुभम् रक्तपीतध्वजाःचन्दनं पीतपुष्पं सष्कुल्यः पर्पटिका मत्स्य-मांससुराः जम्बुडिकाः प्रत्यूषे बलिन्दद्यात्
ओँ नमो नारायणाय त्रैलोक्यविद्रवणाय चतु-द्दिशामीक्षणाय व्याधिं हन हन मुञ्च मुञ्च ज्वलज्वल दह दह ओँ ह्रीं फट् स्वाहा
चतुर्थेदिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यतेशुभम् ।नवमे दिवसे मासे वर्षे वा गृह्णाति सूतिकानाम मातृका तया गृहीतमात्रस्य प्रथमंभवति ज्वरः नित्यं छर्द्दयति गात्रभेदं दर्शयतिमुष्टिं बध्नाति निद्रातितरा स्याद्वलिन्तस्य प्रव-क्ष्यामि येनसम्पद्यते शुभम् नद्युभयतटमृत्तिकांगृहीत्वा पुत्तलिकां निर्म्माय शुक्लवस्त्रेण वेष्ट-येत् शुक्लपुष्पं शुक्लोदनं गन्धताम्बूलं शुक्लाःत्रयोदश ध्वजाः त्रयोदश प्रदीपाः त्रयोदशस्वस्तिकाः त्रयोदश मत्स्यमांससुराः उत्तर-दिग्विभागे ग्रामनिष्काशे बलिं दापयेत् शान्त्यु-दकेन स्नापयेत् गुग्गुलुनिम्बपत्रगोधूमगोशृङ्ग-श्वेतसर्षपघृतैर्धूपं दद्यात् ओँ नमो नारायणायचतुर्भुजाय हन हन मुञ्च मुञ्च स्वाहा चतुर्थ-दिवसे ब्राह्मणान् भोजयेत्ततः सम्पद्यते शुभम् ।दशमे दिवसे मासे वर्षे वा यदि गृह्णातिनिरृता नाम मातृका तया गृहीतमात्रेणप्रथमं भवति ज्वरः गात्रमुद्वेजयति आँत्कारंकरोति पुरीषमूत्रञ्च बहु भवेत् बलिन्तस्यप्रवक्ष्यामि येन सम्पद्यते शुभम् पारावारस्यमृत्तिकया पुत्तलिकां कृत्वा रक्तचन्दनगन्ध-ताम्बूलादिभिर्भूषयित्वा पञ्च वर्णाः पञ्च ध्वजाःपञ्च प्रदीपाः पञ्च स्वस्तिकाः पञ्च पुत्तलिकामत्स्यमांससुराः वायव्यान्दिशि बलिन्दद्यात् ।काकविष्ठागोमांसगोशृङ्गरसोनमार्ज्जाररोम-निम्बपत्रघृतैर्धूपयेत् ओँ नमो नारायणायचूर्णितहस्ताय हन हन मुञ्च मुञ्च स्वाहा ।चतुर्थे दिवसे ब्राह्मणान् भोजयेत्ततः सम्पद्यतेशुभम्
एकादशे दिवसे मासे वर्षे वा यदा गृह्णातिपिलिपिच्छिका नाम मातृका तया गृहीत-मात्रस्य प्रथमं भवति ज्वरः आहारं नगृह्णाति ऊर्द्ध्वदृष्टिर्भवति गात्रभङ्गश्च भवतिआँत्कारश्च भवति बलिन्तस्य प्रवक्ष्यामि येनसम्पद्यते शुभम् पिष्टकेन पुत्तलिकां कृत्वारक्तचन्दनरक्तं तस्या मुखं दुग्धेन सिञ्चेत्पीतपुष्पं गन्धताम्बूलं सप्त प्रदीपा अष्टौ वटकाअष्टौ सष्कुलिका अष्टौ पुरिका मत्स्यमांस-सुराः पूर्व्वस्यान्दिशि बलिर्दातव्यः शान्त्यु-दकेन स्नापयेत् शिवनिर्म्माल्य गुग्गुलुगोशृङ्गसर्पनिर्म्मोकघृतैर्धूपयेत् ओँ नमो नारा-यणाय मुञ्च मुञ्च स्वाहा चतुर्थदिवसे विप्रान्भोजयेत्तेन सम्पद्यते शुभम्
द्बाशशे दिवसे मासे वर्षे वा यदा गृह्णातिकामुका नाम मातृका तया गृहीतमात्रस्यादौ जायते ज्वरः हसित्वा वदति अङ्गुल्या-तर्ज्जयति क्रामति निःश्वसिति मुहुर्मुहु-श्छर्द्दयति आहारं करोति बलिन्तस्यप्रवक्ष्यामि येन सम्पद्यते शुभम् क्षीरेण पुत्त-लिकां कृत्वा शुक्लकुसुमं गन्धताम्बूलं शुक्लाःसप्त ध्वजाः सप्त सष्कुलिकाः
सप्त प्रदीपाः ।करस्थेन दधिभक्तेन सर्व्वकर्म्मबलिं दद्यात्शान्त्युदकेन स्नापयेत् श्वेतसर्षपगुग्गुलुशिव-निर्म्माल्यघृतैर्धूपयेत् ओँ नमो नारायणायव्याधिं मुञ्च मुञ्च हन हन स्वाहा चतुर्थ-दिवसे विप्रान् भोजयेत् ततः सम्पद्यते शुभम्
इति रावणकृतं बालतन्त्रं समाप्तम्
इति वैद्यकचक्रपाणिसंग्रहे बालरोगाघिकारे
)