बालः (bAlaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiयुवा लड़के
Apte Hindi
Hindiबालः
- -
"बालक, शिशु"
बालः
- -
"बालक, युवा, तरुण"
बालः
- -
अवयस्क (१६ वर्ष से कम आयु का)
बालः
- -
"बछेरा, अश्वक"
बालः
- -
"मूर्ख, भोंदू"
बालः
- -
पूँछ
बालः
- -
बाल
बालः
- -
पाँच वर्ष का हाथी
बालः
- -
एक प्रकार का गन्धद्रव्य
बालः
- "बल्+ण, बाल+अच्"
बच्चा
बालः
- "बल्+ण, बाल+अच्"
अव्यस्क
बालः
- "बल्+ण, बाल+अच्"
मूर्ख
बालः
- "बल्+ण, बाल+अच्"
भोलाभाला
बालः
- "बल्+ण, बाल+अच्"
पाँच वर्ष का हाथी
बालः
- "बल्+ण, बाल+अच्"
नारियल
Wordnet
Sanskrit कुमारः, बालः, माणवः
कनीनम् अपत्यम्।
"सः कुमारेभ्यः कृते कथा लिखति।"
बालः
सः पुरुषः यः कस्मिन्नपि क्षेत्रे ज्ञानेन अनुभवादिना वा न्यूनः अस्ति।
"विज्ञानस्य क्षेत्रे अधुनापि त्वम् बालः एव असि।"
शिशुः, स्तनन्धयः, स्तनपः, दारकः, डिंभः, क्षीरपाः, बालः, बालकः
यः इदानीमेव अथवा कस्माच्चन कालात् पूर्वमेव सञ्जातः।
"इदानींतने काले चिकित्सालयात् शिशूनां चौर्यं सामान्यमेव।"
केशः, कचः, कुन्तलः, चिकुरः, वृजनः, बालः, शिरोरुहः, शिरसिजः, शिरोरुढः, मूर्ध्दजः, कृशला
शिरस्थानि लोमानि।
"दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।"
माणवकः, वत्सः, बालकः, बालः, बाला, वत्सा, वत्सकः
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
"भो माणवक कुत्र अस्ति तव पिता।"
पुच्छम्, पुच्छः, लाङ्गुलम्, लाङ्गूलम्, बालः, बालधिः, बालहस्तः, लूमम्, लोमः, पिच्छः, लञ्ञः
पश्वादीनां शरीरे पृष्ठाद् बहिः लम्बमानः अवयवविशेषः।
" गावाः पुच्छेन कीटान् दुरीकुर्वन्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Tamil
Tamilபா3ல: : குழந்தை, சிறுவன், இளம் பையன், மயிர், வால், மூடன்.
अमरकोशः
SanskritWord: बालः
Root: बाल
Gender: पुं
Number: all
Meaning(s):
⇒ boy
⇒ kid
⇒ foal
⇒ fool
⇒ colt
⇒ pure
⇒ child
⇒ minor
⇒ early
⇒ naive
⇒ young
⇒ simple
⇒ infant
⇒ puerile
⇒ foolish
⇒ childish
⇒ ignorant
⇒ infantine
⇒ simpleton
⇒ infantile
⇒ newly risen
⇒ kind of metre
⇒ new or waxing
⇒ simple-minded
⇒ small cardamoms
⇒ any young animal
⇒ one year old cow
⇒ five years old elephant
⇒ particular mystical prayer
⇒ not full-grown or developed
⇒ Indian Aloe pant [Aloe vera - Bot.]
Shloka(s):
2|6|42|1 ► बालस्तु स्यान्माणवको वयस्थस्तरुणो युवा। (मनुष्यवर्गः)
3|3|17|11 ► करिण्यां चापि गणिका दारकौ बालभेदकौ। (नानार्थवर्गः)
Synonym(s):
➠ 2|6|42|1 ⇢ बालः (बाल) (पुं) ⇒ boy, kid, foal, fool, colt, pure, child, minor, early, naive, young, simple, infant, puerile, foolish, childish, ignorant, infantine, simpleton, infantile, newly risen, kind of metre, new or waxing, simple-minded, small cardamoms, any young animal, one year old cow, five years old elephant, particular mystical prayer, not full-grown or developed, Indian Aloe pant [Aloe vera - Bot.]
➠ 2|6|42|1 ⇢ माणवकः (माणवक) (पुं) ⇒ lad, pupil, youth, fellow, student, scholar, religious student, pearl ornament of 16 strings
➠ 3|3|17|11 ⇢ दारकम् (दारक) (नपुं)
Related word(s):
परा_अपरासंबन्धः ➡ पुरुषः
जातिः ➡ मनुष्यः
गुण-गुणी-भावः ➡ बाल्यत्वम्
शब्दकल्पद्रुमः
Sanskritबालः, त्रि, (बलतीति । बल प्राणने + “ज्वलि-तिकसन्तेभ्यो णः ।” ३ । २ । १४० । इति णः ।)मूर्खः ॥
(यथा, मनुः । २ । १५३ ।“अज्ञो भवति वै बालः पिता भवति मन्त्रदः ।अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥
”“वैशब्दोऽवधारणे अज्ञ एव बालो भवतिनत्वल्पवयाः ।” इति तट्टीकायां कुल्लूकभट्टः ॥
)अर्भकः । इति मेदिनी । ले, ४० ॥
द्बितीयस्यपर्य्यायः । माणवकः २ । इत्यमरः । २ । ६ । ४२ ॥
बालकः ३ माणवः ४ किशोरः ५ बटुः ६ मुष्टि-न्धयः ७ बटुकः ८ किशोरकः ९ । इति शब्द-रत्नावली ॥
पाकः १० गर्भः ११ हितकः १२पृथुकः १३ शिशुः १४ शावः १५ अर्भः १६डिम्भकः १७ डिम्बः १८ । इति राजनिर्घण्टः ॥
स तु षोडशवर्षपर्य्यन्तः प्रथमवयस्कः । यथा, --“आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते ।वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥
”इति स्मृतिः । इति भरतः ॥
तस्य रक्षकाः सर्व्वदेवताः । यथा, --“अनाथबालवृद्धानां रक्षकाः सर्व्वदेवताः ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥
अथ बालस्य परिचर्य्याविधिः ।“बालमङ्के सुखं दध्यान्न चैनं तर्ज्जयेत् क्वचित् ।सहसा बोधयेन्नैव नायोग्यमुपवेशयेत् ॥
”अयोग्यमुपवेशनासमर्थम् ।“नाकृष्य स्थापयेत् क्रोडे न क्षिप्रं शयने क्षिपेत् ।रोदयेन्न क्वचित् कार्य्य विधिमावश्यकं विना ॥
”आवश्यको विधिः भेषजदानतैलाभ्यङ्गोद्बर्त्तनादि ॥
तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत् ।संसेवितमना एकं नित्यमेवाभिवर्द्धयेत् ॥
बालातपतडिद्वृष्टिधूमानलजलादितः ।निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः ॥
”बालस्य स्वभावाद्धितान्याह ।“अभ्यङ्गोद्वर्त्तने स्नानं नेत्रयो रञ्जनं तथा ।वसनं मृदु यत्तच्च तथा मृद्बनुलेपनम् ॥
जन्मप्रभृति पथ्यानि बालस्यैतानि सर्व्वथा ॥
”बालस्य कवलादेः समयमाह ।“कबलः पञ्चमाद्वर्षाद्बिंशतेश्चैव मैथुनम् ॥
”बाल्यादेरवधिभाह सुश्रुतः ।“वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा ।ऊनषोडशवर्षस्तु नरो बालो निगद्यते ॥
त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्न-भुक् ॥
दुग्धाशी वषपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् ।तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः ॥
मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः ।चतुर्धा मध्यमं प्राहुर्युवा द्वात्रिंशतो मतः ॥
चत्वारिंशत्समा यावत्तिष्ठेद्वीर्य्यादिपूरितः ।ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ॥
वीर्य्यादीत्यादिशब्देन रसादिसर्व्वधात्विन्द्रिय-बलोत्साहा उच्यन्ते । क्षीणः सर्व्वधात्विन्द्रिय-बलोत्साहैर्हीनः ।ततस्तु सप्तवेरूर्द्ध्वं क्षीणधातुरसादिकः ॥
क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने ।बलीपलितखालित्ययुक्तः कर्म्मसु चाक्षमः ॥
कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ॥
बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमाब्दिकम् ।वार्द्धक्ये वर्द्धते वायुर्विचार्य्यैतदुपक्रमेत् ॥
उपक्रमेत् चिकित्सेत् ॥
तन्त्रान्तरे तु ।बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ ।बुद्धिः कर्म्मेन्द्रियं रेतो जीवितं दशतो हसेत् ॥
”इति भावप्रकाशः ॥
(अथ बालाद्यशौचम् ।“नवमादिमासजातबालस्याशौचकालाभ्यन्तर-मरणे मातापित्रोरस्पृश्यत्वं युक्तम् । तदेवस्वजात्युक्तजननाशौचम् । ज्ञातीनान्त्वशौचंनास्ति । नवमादिमासमृतजातयोस्तु कन्या-पुत्त्रयोः पित्रादि सपिण्डानां मातुश्च जनना-शौचम् । तच्च ब्राह्मणानां दशाहं शूद्राणांमासः । पुत्त्रजन्मनि पितुः सचेलस्नानं पुत्त्रमुख-दर्शनात् परं पुनः सचेलस्नानम् । पुत्त्रकन्याजननेब्राह्मण्या दशाहानन्तरं लौकिककर्म्माधिकार ॥
पुत्त्रजनने ब्राह्यण्या विंशतिरात्रोत्तरस्नानात्वैदिककर्म्माधिकारः । कन्याजनने तु ब्राह्मण्यामासोत्तरस्नानात् वैदिककर्म्माधिकारः ।शूद्रायाः कन्यापुत्त्रजनने त्रयोदशाहोत्तरंलौकिककर्म्माधिकारः वैदिककर्म्मणि तु मासो-त्तरस्नानात् शुद्धिः । एतत् सर्व्वं कन्यापुत्त्रयो-र्विद्यमानत्वे बोध्यम् ॥
जननाशौचोत्तरं षण्मासाभ्यन्तरमजातदन्त-मरणे मातापित्रोरेकाहः । सपिण्डानान्तु सद्यःशौचम् ॥
षण्मासाभ्यन्तरेऽपि जातदन्तस्यमरणे मातापित्रोस्त्र्यहः । सपिण्डानामेकाहः ।षण्मासोपरिद्विवर्षपर्य्यन्तं पित्रोस्त्य्रहः । सपिण्डा-नामकृतचूडे एकाहः कृतचूडे त्र्यहः । द्बिवर्षो-परिमासत्रयाधिकषड्वर्षपर्य्यन्तमनुपनीतबाल-कस्य मरणे मातापित्रादिसपिण्डानां त्र्यहः ॥
तन्मध्येऽप्युपनीतस्य मरणे दशाहः । मासत्रया-धिकषड्वर्षोपरि मरणे पित्रादिसपिण्डानांदशाहः ॥
शूद्रस्य षण्मासाभ्यन्तरे अनुत्पन्नदन्तस्य मरणेत्रिरात्रम् । उत्पन्नदन्तस्य पञ्चाहः । षण्मा-सोपरिद्बिवर्षाभ्यन्तरे अकृतचूडमरणे पञ्चाहः ।तत्रापि कृतचूडमरणे द्बादशाहः । द्विवर्षोपरिषड्वर्षाभ्यन्तरे मरणे द्बादशाहः । अत्रापिकृतोद्वाहेऽपि मासो व्यवह्रियते षड्वर्षोपरि-मासः ॥
* ॥
“बालकजननान्तरकर्त्तव्यमाहवैद्यके । यथा, --“अथबालं क्षौमपरिवृतंक्षौमवस्त्रास्तृतायां शय्यायां शाययेत् । पीलु-बदरीनिम्बपरूषकशाखाभिश्चैनं वीजयेत् ।मूर्द्ध्नि चास्याहरहस्तैलपिचुमवचारयेत् ।धूपयेच्चैनं रक्षोघ्नैधूपैः । रक्षोघ्नानि चास्यपाणिपादशिरोग्रीवास्ववसृजेत् तिलातसी-सर्षपकणांश्चात्र प्रकिरेत् । अघिष्ठानेचाग्निं प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत ॥
ततो दशमेऽहनि मातापितरौ कृतमङ्गल-कौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्य्यातांयदभिप्रेतं नक्षत्रनाम वा ॥
ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणांमध्यमवयसमरोगां शीलवतीमचपलामलोलु-पामकृपामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमल-म्बोर्द्धस्तनीमव्यङ्गामव्यसनिनीं जीवद्बत्सां दोग्ध्रींवत्मलामक्षुद्रकर्म्मिणीं कुले जातामतो भूयि-ष्ठैश्च गुणैरन्वितां श्यामामारोग्यब्रलवृद्धयेबालस्य । तत्रोर्द्धस्तनी करालं कुर्य्यात् । लम्ब-स्तनीं नासिकामुखं छादयित्वा मरणमापा-दयेत् । ततः प्रशस्तायां तिथौ शिरःस्नात-महतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रींप्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीषत्परि-स्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत् ।चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः ।भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ॥
पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने ।दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥
अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्यात्व्याधिजन्म भवति । अपरिस्रुतेऽप्यतिस्तब्ध-स्तन्यपूर्णस्तनपानादुत्स्रुहितस्रोतसः शिशोःकासश्वासवमीप्रादुर्भावः । तस्मादेवं विधानंस्तन्यं न पाययेत् ॥
”“बालं पुनर्गात्रंमुखं गृह्णीयान्न चैनं तर्ज्जयेत्सहसा न प्रतिबोधयेद्वित्रासभयात् सहसानापहरेदुत्क्षिपेद्बा वातादिविघातभयान्नोपवे-शयेत् कौब्ज्यभयात् नित्यञ्चैनमनुवर्त्तेत प्रिय-शतैरजिघांसुः । एवमनभिहतमनास्त्वभिवर्द्धतेनित्यमुदग्रसत्त्वसम्पन्नो नीरोगः सुप्रसन्नमनाश्चभवति । वातातपंविद्युत्प्रभापादपलताशून्या-गारनिम्नस्थानगृहच्छायादिभ्यो दुर्ग्रहोपसर्ग-तश्च बालं रक्षेत् ।नाशुचौ विसृजेद्बालं नाकाशे विषमे न च ।नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ॥
क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा ।दद्यादास्तन्यपर्य्याप्तेर्बालानां वीक्ष्यमात्रया ॥
”इति सुश्रुते शारीरस्थाने दशमेऽध्याये ॥
)
बा(वा)लः, (बलति मस्तकं रक्षति संवृणोतीतिवा । बल + णः ।) शिरोभवाच्छादनविशेषः ।चुल इति भाषा । तत्पर्य्यायः । चिकुरः २ कचः३ केशः ४ कुन्तलः ५ कुञ्जरः ६ शिरोरुहः ७शिरसिरुट् ८ शिरोरुट् ९ शिरजः १० । इतिशब्दरत्नावली ॥
घोटकशिशुः । तत्पर्य्यायः ।किशोरः २ । इत्यमरः ॥
अश्वबालधिः । करि-बालधिः । नारिकेलः । इति मेदिनी । ले, ३९ ॥
पञ्चवर्षीयहस्ती । यथा, --“पञ्चवर्षो गजो बालः स्यात् पोतो दशवर्षकः ॥
”इति हेमचन्द्रः ॥
(यथा, भागवते । ९ । १० । ६ ।“यो लोकवीरसमितौ धनुरैशमुग्रंसीतास्वयंवरगृहे त्रिशतोपनीतम् ।आदाय बालगजलील इवेक्षुयष्टिंसज्यीकृतं नृप ! विकृष्य बभञ्ज मध्ये ॥
”)पुच्छः । इति शब्दरत्नावली ॥
(यथा, कुमारे ।१ । ४८ ।“लज्जा तिरश्चां यदि चेतसि स्या-दसंशयं पर्व्वतराजपुत्त्र्याः ।तं केशपाशं प्रसमीक्ष्य कुर्य्यु-र्बालप्रियत्वं शिथिलं चमर्य्यः ॥
”)मत्स्यविशेषः । इति शब्दचन्द्रिका ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
